________________ कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे रसम्परायश्वेत्यनिवृत्तिवादरसम्परायः / स च द्विविधः, क्षपक उपशमको वा, क्षपयति उपशमयति वा मोहनीयादिकर्मे ने कृत्वा, तस्य गुणस्थानं अनिवृत्तिवादरसम्परायगुणस्थानम् / अनिवृत्तिवादरसम्परायाद्धायामान्तमौहूर्तिक्यां प्रथमसमयादारभ्य प्रतिसमयमेकैकमनन्तगुणविशुद्धं यथोत्तरमध्यवमायस्थानम् तेन तत्रैकसमयप्रविष्टानामेकमध्यवसायस्थानमनुवर्तते परस्परं न तु निवर्तत इत्यनिवृत्तित्वम् 9 // सूक्ष्मः सम्भरायः किट्टीकृतलोभकपायोदयरूपो यस्य सोऽयं मूक्ष्मसम्परायः। सोऽपि द्विविधः, क्षपकः उपशमको वा / क्षपयत्युपशमयति वा लोभमेकमितिकृत्वा. तस्य गुणस्थानम् 10 // छाद्यते केवलज्ञानदर्शनमात्मनोऽनेनेऽति च्छद्म ज्ञानावरणदर्शनावरणान्तरायमोहनीयकोदयः, सति तस्मिन् केवलस्यानुत्पादात्तदपगमानन्तरं चोत्पादाच्छद्मनि तिष्ठतीति छद्मस्था, स च सरागोऽपि भवतीत्यतस्तद्वयवच्छेदार्थ वीतरागग्रहणम् / वीतो विगतो रागो मायालोभकषायोदयरूपो यस्य स वीतरागः, स चासो छद्मस्थश्च वीतरागच्छद्मम्थः / स च क्षीणकषायोऽपि भवति, तस्यापि यथोक्तरागापगमादतस्तद्वयवच्छेदार्थमुपशान्तकपायग्रहणम् / कषऋषशिषेत्यादिदण्डकधातुर्हिसार्थः / कषन्ति कप्यन्ते च परस्परमस्मिन प्राणिन इत कपः संसारः / 'पुसि संज्ञायां घः प्रायंण' (पा० 3-3-18) इति घः प्रायग्रहणात् , अन्यथा हि हलन्तत्वात् 'हलच' (पा०३-३-१२१) इति पञ् स्यात् / कपमयन्ते गच्छन्ति एभिर्जन्तव इति कषायाः क्रोधादयः / उपशान्ता उपशमिता विद्यमाना एव सङ्क्रमणोद्वर्तनापवर्तनादिकरणोदयायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः. स चासो वीतरागच्छद्मस्थश्वेत्युपशान्तकवायवीतरागच्छद्मस्थः तस्य गुणस्थानमिति प्राग्वत् / तत्राविरतसम्यग्दृष्टः प्रभृत्यनन्तानुबन्धिनः कषाया उपशान्ताः संभवन्ति / उपशमश्रेण्यारम्भे ह्यनन्तानुबन्धिकषायानविरतो देशविरतः प्रमत्तोऽप्रमत्तो वा सन् उपशमय्य दर्शनमोहत्रितयमुपशमयति / तदुपशमानन्तरं प्रमत्ताप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरणगुणस्थानोत्तरकालमनिवृत्तिबादरसम्परायगुणस्थाने चारित्रमोहनीयस्य प्रथमं नपुंसकवेदमुपशमयति, ततः स्त्रीवेदम् , ततो हास्यरत्यरतिशोकमयजुगुप्सारूपं युगपत् षट्कम् 6, ततः पुरुषवेदम् , ततो युगपदप्रत्याख्यानापरणप्रत्याख्या नरवरणों क्रोधौ, ततः संज्वलनक्रोधम् , ततो युगपद्वितीयतृतीयौ मानौ ततः संज्वलनमानम् , ततो युगपद्वितीयतृतीये माये, ततः संज्वलनमायाम् , ततो युगपद्वितीयतृतीयों लोभौ, ततः सूक्ष्मसम्परायगुणस्थाने संज्वलनलोभमुपशमयतीति / तदेवमन्येष्वपि गुणस्थानेषु कापि कियतामपि कपायाणामुपशान्तत्वसंभवात् उपशान्तकषायव्यपदेशः संभवतीत्यतस्तद्वयवच्छेदार्थमुपशान्तकषायग्रहणे सत्यपि वीतरागग्रहणं कर्तव्यम् / उपशान्तकषायवीतराग इति चैतावतै वेष्टसिद्धौ छद्मस्थग्रहणं स्वरूपकथनार्थम् , व्यवच्छेद्याभावात् / न ह्यच्छमस्थ उपशान्तकषायवीतरागः संभवति, यस्य च्छद्मस्थग्रहणेन व्यवच्छेदः स्यात् 11 //