________________ सम्यग्मिथ्यात्वादिगुणस्थानस्वरूपवर्णनम् एवमन्यगुणस्थानेष्वपि गुणस्थानयोजना द्रष्टव्या पूर्वोत्तरापेक्षया विशुद्धयविशुद्धिप्रकर्षापकर्षकृतेति 6 // नास्ति प्रमत्तमस्येति अप्रमतो विकथादिप्रमादरहितः / अप्रमत्तश्चामो संयतश्चेत्यप्रमत्तसंयतस्तस्य गुणस्थानम् 7 // अपूर्वं करणं स्थितिघातरसघातगुणश्रेणिगुणसङ्कमस्थितिबन्धानां पञ्चानामर्थानां निवर्तनमस्यासावपूर्वकरणः, तथाहि-यावत्प्रमाणमसी पूर्वगुणस्थानविशुद्धया स्थितिखण्डकं रसखण्डकं वा हतवान , ततो बृहत्तरप्रमाणमपूर्वमस्मिन् गुणस्थाने हन्ति / उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तमुहूर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्धया विरचनं गुणश्रेणिरित्युच्यते / स्थापना / एतां च पूर्वगुणस्थानेष्वविशुद्धतरत्वात् कालतो द्राधीयसीमप्रथीयसी च दलिकस्याल्पतरस्यापवर्तनाद्विरचितवान् / इह तु विशुद्धतरत्वादपूर्वां कालतो इस्वतरां पृथुतरां च बहुतरदलिकापवर्तनाद्विरचयति / स्थापना / शुभप्रकृतिष्वशुभप्रकृतिदलिकस्य प्रतिक्षणमसंख्येयगुणवृद्धया विशुद्धिवशान्नयनं गुणसङ्क्रमः, तमिहासावपूर्व करोति / स्थितिं च कर्मणां द्राधीयसी प्राग्वद्धवान् , इह तु तामपूर्वा इसीयसी बध्नाति विशुद्धतरत्वादिति / पश्चाप्यपूर्वाणि करणान्यस्य / स च द्विधा, क्षपक उपशमको वा / क्षपणोपशमनार्हत्वात् , राज्यार्हकुमारराजवत् , न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानं अपूर्वकरणगुणस्थानम् / अपूर्वकरणाद्धायाश्चान्तमौहर्तिक्याः प्रथमसमये जघन्यादीन्युत्ष्टटान्तान्यध्यवसायस्थानानि असंख्येयलोकाकाशप्रदेशमात्राणि / द्वितीयसमये तदन्यान्यधिकतराणि / तृतीयसमये तदन्यान्यधिकतराणि चतुर्थसमये / तदन्यान्यधिकतराणीत्येवं यावञ्चरमसमय इति / तानि च स्थापनायां विषमचतुरस्र क्षेत्रमास्तृणन्ति स्थापना 7000000000 प्रथमसमयंजघन्यात्प्रथमसमयोत्कृष्टमनन्तगुणविशुद्धम् / तस्माद् द्वितीयसमय- 50000000 जघन्यमनन्तगुणविशुद्धम् , तस्मात्तदुत्कृष्टमनन्तगुणेन विशुद्धमिति / एवं याव- 3 द्विचरमसमयोत्कृष्टाचरमसमयजघन्यमनन्तगुणविशुद्धम् , तस्मात्तदुत्कृष्टम- 20000 नन्तगुणविशुद्धमिति। एकसमयगतानि तु परस्परं षट्स्थानपतितानीति / युग- ज०म० उ० पदेतद्गुणस्थानप्रविष्टानां बहूनां जीवानामन्योऽन्यस्य संबन्धिनोऽध्यवसायस्थानस्यास्ति निवृत्तिरपीति निवृत्तिगुणस्थानमपीदमुच्यते 8 // युगपदेकंगुणस्थानं प्रतिपन्नानां बहूनां जीवानामन्योऽन्यस्य संबन्धिनोऽध्यवसायस्थानस्य व्यावृत्तिरिह निवृत्तिरभिप्रेता, नास्ति तथाविधा निवृत्तिरस्येत्यनिवृत्तिः, अन्येषां यदध्यवसायस्थानमसावपि नद्वर्तीत्यर्थः, सम्परायः कषायोदयः,समन्तात्परैति पर्यटति संसारमनेनेतिकृत्वा। बादरः स्थूलः सम्परायो यस्य स बादरसम्परायः, सूक्ष्मकिट्टीकृतसम्परायापेक्षया बादरत्वम्। अनिवृत्तिश्चासौ बाद 600000000 4000000 380000