________________ कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे चासौ सासादनसम्यग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सामादनत्वं याति / तदुत्तरकालमवश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति 2 / / सम्यक् च मिथ्या च दृष्टिर्यस्य स सम्यग्मिथ्यादृष्टिः, तस्य गुणस्थानं सम्यग्मिध्यादृष्टिगुणस्थानम् / वर्णितविधिना लब्धं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयं अशुद्धं कर्म विधा करोति, अशुद्धं 1 अर्द्धविशुद्धं 2 विशुद्धं 3 चेति / स्थापना त्रयाणां चैतेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति _ तदा तदुदयवशादर्द्धविशुद्धमर्हदृष्टतत्त्वश्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिगुणस्थानमन्तमुहूर्त कालं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति 3 // तथा विरतिर्विरतं, 'नपुसके भावे क्तः' तत्पुनः सावद्ययोग: . प्रत्याख्यानं, तन्न जानाति नाभ्युपगच्छति न तत्पालनाय यतत इति त्रयाणां पदानामष्टौ भङ्गाः। तज्ज्ञापनाय स्थापना- न ना न | तत्र प्रथमेषु चतुर्यु भङ्गेषु मिथ्यादृष्टिरज्ञानित्वाल्लभ्यते / शेषेषु त्रिषु सम्यग्दृष्टिः, तस्य हि ज्ञानमेव भवतीति सप्तसु भङ्गेषु नास्य विरतमस्तीत्यविरतो भवति / न पा | चरमभङ्गे तु विरतिरस्तीति / / अविरतश्चासौ | जा ना न | सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः. तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् | जान सम्यग्दृष्टित्वं पुनरौपशमिकसम्यक्त्वे वर्णितान्तरकरणकालसंभवे विशुद्धदर्शन- जा 5 पा | मोहपुञ्जकोदयकालसंभवे वा क्षायोपशमिकसम्यक्त्वे सर्वदर्शनमोहक्षयसंभवे वा क्षायिकसम्यक्त्वे सति भवति, विरतः पुनरप्रत्याख्यानावरणकषायोदयवशान भवति / ते ह्यन्पमपि प्रत्याख्यानमावृण्वन्तीति नोऽल्पार्थत्वादप्रत्याख्यानावरणा उच्यन्ते इति 4 // एकव्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावधयोगान्ते करणत्रययोगत्रयविषयसर्वसावद्ययोगस्य देशे विरतमस्यास्तीति देशविरतः / सर्वसोवद्ययोगप्रत्याख्यानरूपं तु विरतमस्य नास्ति, प्रत्याख्यानावरणकषायोदयात् / सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्त इति 5 / संयच्छति स्म सम्यगुपरमति स्म यावजीवं सर्वसावधयोगादिति संयतः / “कर्तरि निष्ठा गत्यर्थाकर्मका" इत्यादिसूत्रेण, प्रमदनं प्रमत्तं प्रमादः, स च विकथाकषायमद्यविकटेन्द्रियनिद्रारूपाणां पश्चानामन्यतमः प्रमत्तमस्यास्तीति अर्शआदित्वाद् अचः मत्वर्थीयस्योपादानात् प्रमत्तः प्रमादवानित्यर्थः, स चासौ संयतश्चेति प्रमत्तसंयतस्तस्य संबन्धिनां गुणानां स्थानं विशुद्धयविशुद्धिप्रकर्षापकर्षकृतः स्वरूपविशेषः / तथाहिदेशविरतगुणादेतद्गुणानां विशुद्धिप्रकर्षोऽशुद्धथपकर्षश्च, अप्रमत्तसंयतगुणापेक्षया तु विपर्यय इति जाना पा