________________ गुणस्थाननामस्वरूपवर्णनम् केवलिगुणस्थानम् 13, अयोगिकेवलिगुणस्थानं 14 चेति / तत्र गुणाः ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानं पुनरत्र तेषां शुद्धयशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इतिकृत्वा यथाऽध्यवसायस्थानमिति, गुणानां स्थानं गुणम्थानम् / / मिथ्या विपर्यस्ता दृष्टिहत्प्रणीतवस्तुप्रतिपत्तिर्यस्य भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् मिथ्यादृष्टिस्तस्य गुणस्थानं ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुद्धयपकर्षकृतः स्वरूपविशेषो मिथ्यादृष्टिगुणस्थानम् ?, ननु च दृष्टी विपर्यस्तायां तदाधारत्वाद् गुणानामभाव एव स्यात् तदभावे च कुतस्तत्स्वरूपविशेषात्मकं मिथ्यादृष्टेगुणस्थानम् इत्यत्रोच्यते-यद्यपि मिथ्यात्वमोहनीयोदयाद् दृष्टिविपर्यासम्तथाऽपि नैकान्तेनाम्य निगुणत्वं, अजीवत्वप्रसङ्गात् / तथा चार्षम्-"सव्वजोचाणं पि य णं अक्वरस्स अणंतभागो निच्चुग्घातिओ / जइ पुण सोवि आवरेज्जेजा तेणं जीवो अजोवत्तं पावेजा। सुठुवि मेहसमुदए होइ पहा चंदसूराणं' इत्यस्ति, तस्यापि या च यावती च गुणमात्रा दृष्टिविपर्यासेन तु साऽपि विपर्यस्तस्वरूपैवेति / जिनप्रणीतं चैकमप्यक्षरमश्रद्दधानो मिथ्यादृष्टिर्भवतीति / उक्तं च-"सूत्रोक्तस्यैकस्या-प्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं, हि नः प्रमाणं जिनाभिहितम् // 1 // " इति / ___ आयं सादयतीति आसादनं, अनन्तानुबन्धिकषायवेदनम् , नैरुक्तो यशब्दलोपः / सति हि तस्मिन्ननन्तसुखफलदनिःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयेन उत्कृष्टतः षड्भिरावलिकाभिः सीदत्यपगच्छति / सहासादनेन वर्तत इति सासादनः / सम्यगविपर्यस्ता दृष्टिर्जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः / सासादनश्चासौ सम्यग्दृष्टिश्चेति सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानमिति / एतच्चैवं भवतिगम्भीरभवोदधिमध्यविपरिवर्ती जन्तुरनाभोगनिर्वार्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरगेन संपादितान्तः सागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तमुहूर्तकालप्रमाणमन्तरकरणं करोति / तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तमुहूर्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीयस्थितिरिति / स्थापनेयम्-4 तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः / अन्तमुहूर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमामोति मिथ्यात्वदलिकवेदनाभावात् , यथा हि वनदवानलः पूर्वदग्धेन्धनमूपरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्ववेदनाग्निर न्तरकरणमवाप्य विध्यायति / तस्यामान्तमौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेषायामुत्कर्षेण षडावलिकाशेषायां कस्यचिदनन्तानुबन्ध्युदयो भवति / तदुदये