________________ कर्मस्तवाख्ये द्वितीये कर्मग्रन्थे रणा / बन्धसङ्क्रमाभ्यां लब्धात्मलाभानां कर्मणां निर्जरणसङ्क्रमणकृतस्वरूपप्रच्युत्यभावे सद्भावः सत्ता / बन्धश्च उदयश्च सत् चेति बन्धोदयसन्ति, सदिति भावप्रधानेन निर्देशेन सत्तोच्यते, तैर्बन्धोदयसद्भियुक्तिः, तेषां व्यवच्छेदस्येह वर्णनात् , तं स्तवं वक्ष्यामि / स्तवस्त्वयमसाधारणसद्भूतगुणोत्कीर्तनरूपत्वात् / स त्विह गुणो बन्धोदयोदीरणासत्क्षयो जिनस्य वेदितव्यः / तथा च सदुद्देशाधिकारे वक्ष्यति “अडयालं पयउिसयं, खविय जिणं निव्वुयं वंदे" इति / सत्तापक्षये च बन्धोदयोदीरणा अपि क्षीणा एव भवन्तिः इति पृथक् तत्क्षयो नोक्तः / तत्क्षयोऽपि वा प्रतिगुणस्थानं तद्वयवच्छेदवचनेन पृथगुक्त एव / निशमयतेति शिष्यान् बोधयति / यमहं जिनस्य स्तवं वक्ष्ये तं 'निशमयत'शृणुत यूयं, तच्छ्वणस्य तदुक्तभगवद्गुणबहुमानद्वारेणाशयशुद्धया कर्मक्षयहेतुत्वाद्वस्तुस्वरूपावगतिहेतुत्वाच्च / तदवगतिहेतुत्वं च स्तावकवचनानामपि वस्तुस्वरूपवाचित्वेन प्रामाण्याभ्युपगमात् , तदेवमिह वक्तुरात्माशयविशुद्धिरनन्तरं स्तववचनस्य प्रयोजनं शिष्यानुग्रहश्च / श्रोतृणामपि स्वाशयविशुद्धिरेवगतिश्च / पारम्पर्येण तु स्वाशयविशु द्वेरुत्तरोत्तरविशुद्धिफलत्वादुभयेषां परमविशुद्धयात्मको निःश्रेयस इति प्रयोजनम् / अभिधेयं च बन्धादिव्यवच्छेदरूपमहंद्गुणनिकुरुम्बम् / संबन्धश्च स्तवप्रयोजनयोरुपायोपेयभावः। स्तवाभिधेययोस्तु वाच्यवाचकभाव इति दर्शितं वेदितव्यम् / / 1 / / कर्मणां च भगवतो न सर्वेषां युगपदेव बन्धादिव्यवच्छेदः, किं तर्हि ?, मिथ्यादृष्टयादीनि गुणस्थानानि परमपदप्रसादशिखरारोहणसोपानकल्पानि क्रमेणाधिरोहतः क्वचिदेव गुणस्थाने कियत्योऽप्येव कर्मप्रकृतयो बन्धमुदयमुदीरणां सत्ता वा प्रतीत्य व्यवच्छिन्नाः, तत्र तावद्धन्धं प्रतीत्य व कियत्यो व्यवच्छिन्नाः 1 इत्येतदाह 'मिच्छे सोलस पणुवी-स सासणे अविरए य दस पयडी। चउछक्कमेग देसे, विरए य कमेण वोच्छिन्ना // 2 // अधुना सुखप्रतिपत्त्यर्थ तावद्गुणस्थानानि लेशतो व्याख्याय पश्चादिमां गाथा व्याख्यास्यामः / तानि च गुणस्थानानि चतुर्दशधा, तद्यथा-मिथ्यादृष्टिगुणस्थानम् 1, सासादनसम्यग्दृष्टिगुणस्थानम् 2, सम्यग्मिथ्यादृष्टिगुणस्थानम् 3, अविरतसम्यग्दृष्टिगुणस्थानम् 4, देशविरतगुणस्थानम् 5, प्रमत्तसंयतगुणस्थानम् 6, अप्रमत्तसंयतगुणस्थानम् 7, अपूर्वकरणगुणस्थानम् 8, अनिवृत्तिवादरसम्परायगुणस्थानम् 8, सूक्ष्मसम्परायगुणस्थानम् 10, उपशान्तकषायवीतरागच्छद्मस्थगुणस्थानम् 11, क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् 12, सयोगि १"-रापत्तिश्च / " इति वा पाठः // 2 कर्मस्तवमूलपुस्तकेष्वेतद्गाथाद्वन्दं दृश्यते-"मिच्छहिट्ठी 1 स्नासायणे 2 य तह सम्ममिच्छदिट्ठी 3 य / अविरयसम्मदिट्ठी 4, विरयाविरए 5 पमत्ते 6 य . 1 / तत्तो य अप्पमत्ते 7, नियट्टि 8 अनियट्टिबायरे 6 सुहुमे 10 / उवसंत 11 खीणमोहे 12 होइ सजोगी 13 अजोगी 14 य // 2 // " परं टीकाया अमावेन नाहतं मूले / /