________________ * [1 || ॐ हीं श्रीं अहं श्रीशंखेश्वरपार्श्वनाथाय नमः // || न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मेभ्यो नमः / / || सकलागमरहस्यवेदिश्रीमदाचार्यविजयदानसूरीश्वरेभ्यो नमः // // कर्मसाहित्यनिष्णातश्रीमदाचार्यविजयप्रेमसूरीश्वरेभ्यो नमः / / खेतपटाचार्यश्रीमद्गोविन्दगणिगुम्फितटीकया समलकृतः कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः / कर्मबन्धोदयोदीर्या-सत्तावैचित्र्यवेदिनम् / कर्मस्तवस्य टीकेयं, नत्वा वीरं विरच्यते // 1 // नमिऊण जिणवरिंदे, तिहयणवरनाणदंसणपईवे / बंधुदयसंतजुत्तं, वोच्छामि थयं निसामेह // 1 // पूर्वार्धेन मङ्गलार्थमिष्टदेवतानमस्कारमाह-मङ्गलं चाविघ्नेन प्रकरणसमाप्त्यर्थम् / पश्चार्द्धन तु प्रयोजनादित्रयमिति गाथासमुदायार्थः, अवयवार्थस्तु नत्वा' प्रणम्य 'जिनवरेन्द्रान्' 'रागादिजयाजिनाः, ते च च्छद्मस्थवीतरागा अपि भवन्ति, अतः केवलिप्रतिपत्त्यर्थं वरग्रहणम् / जिनानां वरा जिनवराः, / ते च सामान्यकेवलिनोऽपि भवन्ति, अतोऽर्हत्प्रतिपत्यर्थमिन्द्रग्रहणम् / जिनवराजामिन्द्रा जिनवरेन्द्राः / जिनत्वे केवलित्वे च सति चतुस्त्रिंशत्रु द्धातिशेषरूपपरमैश्वर्यवन्त इत्यर्थः, तान् / तेषां वरशब्दलब्धं केवलित्वं विशेषणान्तरेण विवृणोति-त्रिभुवनवरज्ञानदर्शनप्रदोपान्' त्रीणि भुवनानि ऊद्धर्वाधस्तिर्यग्लोकरूपाणि, तेषां वराभ्यां केवलरूपतया ज्ञानदर्शनाभ्यां प्रदीपाः प्रकाशकास्तान , एवंविधान् जिनवरेन्द्रानत्वा ततः स्तवं वक्ष्यामीति संबन्धः / किंविशिष्टं स्तवम् ?, 'बन्धोदयसद्युक्तं' तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवत् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनो वह्नययापिण्डवदन्योऽन्यानुगमाभेदात्मकः संबन्धो बन्धः / तेषां च यथा स्वस्थितिबद्धानां कर्मपुद्गलानां करणविशेषकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः / उदयग्रहणेनोदीरणाऽपि तज्जातीया गृह्यते / सा पुनः कर्मपुद्गलानां करणविशेषजनिते स्थित्यपचये सत्युदयावलिकायां प्रवेशनमुदी 1 “रागारिजया" रागादिविजया” इति वा पाठः / 2 "द्धातिशय” इति वा /