________________ कमेविपायाख्यस्य प्रथमस्य कर्मग्रन्थस्थ समाग्निः (पारमा०) 'एवं' उक्तयुक्त्या 'पञ्चविकल्पं पञ्चप्रकारमष्टमकमन्तरायकं भवति / उक्तमन्तर यकं तदुक्तौ भणितः कर्मविपाकः / 'समासत:' संक्षेपतः 'गर्गऋषिणा' यतिमतल्लिकावृन्दवन्धपादपल्लवेन गर्गाभिधानमुनिनायकेन / इति गाथार्थः // 167 // अधुना ग्रन्थप्रमाणप्रतिपादनपुरस्सरं तत्परिज्ञानोपायप्रतिपादनद्वारेण पर्यन्तमङ्गलमाह एवं गाहाण मयं, अहिय छावट्ठिए उ पढिऊण / जो गुरु पुच्छइ नाही, कम्मविवागं च मो अइरा // 16 // (पू०) व्याख्या-'एवं' उक्तनीत्या ग्रन्थतो गाथाना 'शतमधिकं षट्पष्टया तु' षट्पष्टयैव चाधिकं शतं 'पठित्वा' कण्ठे कृत्वा. किम् ? इत्याह-यो 'गुरुं पृच्छति' आचार्य प्रश्नयति, विनेयो मानं विहाय, अनेन मानपरित्यागात्परलोकार्थिनाऽवश्यंतया तथा तथा गुरुरा: . राधनीयः प्रष्टव्यश्च, यथाऽसौ प्रानः सर्वस्वं कथयतीत्वावेदितम्', न पुनर्मानग्रस्तेन पुस्तकशिष्येण भाव्यम् , अविनयाज्ञाविराधनादिदोषप्रसङ्गात् / स चैवं भूतः ज्ञास्यत्येव= अवभोत्स्यत्येव 'कर्मविपाकं तु' कर्मस्वरूप तु 'सः' साधुः, अन्यो वा 'अचिरादेव' स्तोककालादेव / इति "गाथार्थः // 168 // ग्रन्थाग्रम् 967 // // इति कर्मविपाकमूत्रव्याख्या समाप्ता // ___ (पारमा०) एतद्गाथानां शतमधिकं षट्पष्ट्येति / आदिमान्तिमगाथयोनमस्कारकरणप्रकरणप्रमाणप्रतिपादनमात्रत्वेन ग्रन्थार्थानभिधायकत्वात्परमार्थतः परपष्टयैवाधिकं, तत्किम् ? इत्याह'पठित्वा' कण्ठगतं कृत्वा यो गुरु प्रश्न यति स ज्ञास्यत्यचिरात्कर्मविप कम् / गुरुनामग्रहणं च कुर्वता ग्रन्थकृता पर्यन्तमङ्गलं शिष्यसंतानस्याप्रच्युतस्मृतये कृतमिति गाथार्थः // 168 // श्रीभद्रेश्वरसूरिशिष्यतिलकश्रीशान्तिम रिप्रभोः, श्रीमन्तोऽभयदेवसूरिगुरवः सिंहासनोत्तंसकाः / तत्पादाम्बुजषट्पदेन परमानन्देन सत्प्रीतये, चक्रे कर्मविपाकवृत्तिमिषतः श्रोत्रैकलेह्य मधु // 1 // यन्नागमानुगामि स्या-न वा सङ्गतिमङ्गति / इह तत्साधुभिः शोध्य-मनभ्यर्थितवत्सलैः // 2 // प्रत्यक्षरं निरूप्यास्याः, ग्रन्थाग्रं परिनिश्चितम् / अनुष्टुभा नवशती, द्वाविंशत्यधिका 922 भवेत् / / 3 / / // इति पारमानन्दी कर्मविपाकवृत्तिः समाप्ता // १व्याख्याकारेण "तु" इति पाठ आहतः // 20 अधिकं जे० / 3 भूतः साधुः जे० / 4 बुध अवगमने जे० टिप्पणी / 5 गाथार्थः / छ / “छ" ||कर्मविपाकविवरणं समाप्तमिति // मंगल महाश्रीः' / शिवमस्तु सर्वजगतः // छ / छ / संवत् 1221 वर्षे माघशुदि 6 मौमे / / छ / छ / जे०। समाप्तोऽयं टीकाद्वयापेतः कर्मविपाकाख्यः प्रथमः कर्मग्रन्थः