________________ मोगोपभोगयोर्विशेषो वीर्यान्तरायस्वरूपफलादिवर्णनम् [87 - (पू.) व्याख्या-'सकृद्' एकयेव वारया विवक्षितं वस्तु भुज्यते, एका वा वारां भुज्यत इनि भोगः / म पुनः कः ? इत्याह-आहारश्चतुर्विधोऽशनपानखादिमस्वादिमरूपः, पुष्पाण्यादौ यस्याहारादः स आहारपुष्पादि ग्यं वस्तूच्यते आदिशब्दाद्विलेपनादिपरिग्रहः / उपभोगस्तु पुनः पुनर्भुज्यते, उप सामीप्येन वा भुज्यते उपभोगः / स च कः ? इत्याह-'भवनविलायादिः' भवनं धवलगृहादि, विलयादि कलत्रादि आदिशब्दादाभरणादिपरिग्रहः / इति गाथार्थः // 16 // अभिहितं भोगोपभोगान्तरायम् / साम्प्रतं वीर्यान्तरायमाह (पारमा०) 'सकृद्' एकवारं भुज्यत इति भोगः, स पुनराहारपुष्पादिकः / उपभोगश्च पुनः पुनरुपभुज्यते 'भवनवनितादिकः' गृहगृहिणीप्रभृतिकः / इति गाथार्थः // 165 // उक्तं भोगोपभोगयोरन्तरायं सकृत्पौनःपुन्यासेवनलक्षणो विशेषश्च / अधुना वीर्यान्तरायमाह बलवं रोगविउत्तो, वयसंपण्णोवि जस्स उदएणं / विरिएण होइ हीणो, वीरियविग्धं तु पंचमयं // 166 // (पू०) व्याख्या--'वलवान्' बलसंपन्नः 'रोगवियुक्तः' रोगरहितः 'वयःसंपन्नः' शरीरावस्थया विशिष्टवयोऽवस्थासंपन्नः, सोऽप्येवंभृतोऽपि 'यस्य' कर्मणः 'उदयेन' विपाकेन 'वीर्येण भवति होनः' अन्तःप्राणेन जायते रहितः / 'वीरियविग्धं तु पञ्चमयं वीर्यान्तरायमेव पश्चमकं संख्यया / इति गाथार्थः // 166 / / अन्तरायनिगमनद्वारेण प्रकरणपरिसमाप्ति प्रदर्शयन् प्रकरणकारः स्वनामाह (पारमा०) 'बलवं' इति बलवान् उपचितदेह इत्यर्थः / 'रोगवियुक्तः' कासश्वासादिरहितः 'वयःसंपन्नः' तारुण्यभरपरिगतः / एवंविधोऽपि 'यस्य' कर्मण उदयेन 'वीर्येण' शक्त्या हीनो भवति / केशोद्धरणकुसुमोचयादावप्यसमर्थः संपद्यते / तदित्यध्याहारात् तद्वीर्यान्तरायं पञ्चमकं भवति इति गाथार्थः // 166 / / सम्प्रत्यन्तरायनिगमनपूर्वकं प्रकरणकारः प्रकरणपरिसमाप्तिं स्वनाम चाह एवं पंच वियप्पं, अट्ठमय अंतराइय होइ / भणिओ कम्मविवागो, समासओ गग्गरिसिणा उ // 167 // व्याख्या-'एवं' उक्तन्यायेन 'पञ्चविकल्प' पश्चप्रकारं 'अष्ठमक' संख्ययान्तरायिक कर्म 'भवति' जायते / तदुक्ते 'भणितः' प्रतिपादितः 'कर्मविपाक' कर्मविपाकाख्यं प्रकरणं 'समासतः' संक्षेपतः / केन ? इत्याह-'गर्गर्षिणा तु' उत्तमसाधुनैव / इति गाथार्थः // 167 / ग्रं // 960 / / साम्प्रतं प्रकरणसंख्यामाह 1 “विगप्पं” इत्यपि पाठः।