________________ 86 कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे प्राप्तेऽपि च 'भोगसाधने' भोगशब्दस्योपलक्षणत्वादोगोपभोगकारणे 'विभवे' धनादी. किम ? इत्याह-'उपभोक्तु' परिभोक्तु न शक्रोति' न शक्तः, कथंभूतः सन् ? इत्याह'विरतिविहीनोऽपि' विरतिरहितोऽपि 'यस्य' कर्मणः 'उदये' विपाके / इति गाथार्थः॥१६३।। तदेतत् किम् ? इत्याह (पारमा०) 'मनुष्यत्वे पि' विशिष्टभोगयोग्यताऽसाधारणकारणे प्राप्ते तत्रापि प्रधानं भोगसाधनं विभव इत्युक्तम् 'लम्धेऽपि' प्राप्तऽपि 'भोगसाधने विभवे भोजनताम्बूलविलेपनादिविधिप्रसाधने धने भोक्तु 'नवरं केवलं 'यस्य' कर्मणः 'उदये विपाके 'विरतिविहीनोऽपि भावनावशसमुत्थपरिहाराभिसन्धिशून्योऽपि कार्पण्याशक्त्यादिकारणवशान शक्नोति / / 163 // "भोगम्स विग्धमेय, उवभोगे आवि विग्धमवेव / भोगुवभोगाणेसिं, नवरि विसेसो इमो होइ // 164 // (पू०) व्याख्या-उप सामीप्येन भुज्यते परिसमन्तात् पुनः पुनर्वा भुज्यत इत्युपभोगस्तस्य विघ्न एतदुपभोगान्तरायम् / भोगोऽप्येवमेव उपभोगोक्तनीत्या, यथोपभोगेऽन्तरायमभिहितं तथाऽत्रापि विघ्न द्रष्टव्यम् / हुशब्दः पादपूरणः। ननु मूत्रोक्तं क्रममुल्लङ्घय किमर्थमुपभोगान्तरायव्याख्यातम् ? सूत्रक्रमात्प्रथमं भोगान्तरायं व्याख्यातुबुध्यते, अंत्रोच्यते-उपभोगस्य प्राधान्यख्यापनार्थ व्यतिक्रमव्याख्यानम् / भोगोपभोगयोः कः प्रतिविशेषः ! इत्युच्यते, 'नवरं' केवलं विशेषः 'एषः' वक्ष्यमाणलक्षणः ('भवति' जायते) / इति गाथार्थः // 164 // ___ भोगोपभोगयोर्विषयव्यवस्थामाह (पारमा०) भोगविघ्नमेतदिति भोगान्तरायमिदमिति भावः / उपभोगे चापि विघ्नमेक्मेवेति पूर्ववत् / यदुदयेन मनुष्यत्वेऽपि प्राप्ते ललितललनाद्युपभोग्यतासंबन्धनिबन्धने लब्धेऽप्युभोगसाधने अमररमणीरामणीयकहठहरणप्रवीणपण्यतरुणीवशीकरणकार्मणसन्निभे विभवे ब्रह्मचर्यादिविशिष्टपरिणामापरिगतोऽपि कदर्यत्वासामर्थ्यादिकारणवशादुपभोक्तु न शक्नोति तदुपभोगा. न्तरायमिति भावः। भोगोपभोगयोरेतयोः केवलं विशेषः 'एषः' वक्ष्यमाणलक्षणो भवति / इति गाथाद्वयार्थः // 164 / / प्रतिज्ञातमाह सइ भुजइत्ति भोगो, सो 'पुण आहारपुप्फमा ईओ। उवभोगो 'य पुणो पुण, उवभुजइ भवणविलयाई // 165 // 1 "उवमोगविग्घमेयं, भोगेवि हु एवमेव विग्धं तु” इत्यपि पाठस्तदनुसारेण व्याख्याकारेण व्याख्यातम स्ति / / 2 भोगे जे / 3 “पुणु आहारपुप्फमाईणं" इत्यपि पाठः / 4 “उ” इत्यपि पाठः / .