________________ दान-लाभभोगान्तरायाणां स्वरूपफलादिवर्णनम् / 84 जइवि पसिद्धो दाया, जायणनिउणोवि जायगो 'जइवि / 'न लहइ जस्सुदएणं, एय पुण लाभविग्धं तु // 162 // __ (पू०)व्याख्या-यद्यपि प्रसिद्धो भवति दाता, सर्वजनदायकत्वेन प्रसिद्धिं गतः, एकः कश्चिकस्यचिद्ददाति कस्यचिन्न स न प्रसिद्धः / यस्तु सार्वजनिकः स प्रसिद्धो भवति दाता / यद्यपि दाता प्रसिद्धो भवति तथाऽपि याचको न निपुणः ततो दानं न प्रवर्तते इत्याह-याचना मार्गणा तत्र निपुणो विज्ञानवान् , तथा याचते यथाऽदातापि ददाति, किं पुनर्दाता ? / याचको यद्यप्येवंभूतस्तथाऽपि नापि(?) नैव लभते' न प्राप्नोति दातुः सकाशात् , 'यस्य' कर्मणः 'उदयेन' विपाकेनैतत्पुनः 'लाभविघ्नं तु' लाभान्तरायमेव / ननु तदानान्तरायमेव किमितिकृत्वा दातुनोंच्यते, याबल्लाभान्तरायमुच्यते 'याचितुः ?, उच्यते-स्यादिदं वचो दानान्तरायमेव तन्न लाभान्तरायम् / यदि दाता यथा तस्य विवक्षितस्य न ददाति तथाऽन्यस्यापि यदि न कस्यचिद्दद्यातदा त्वदुक्तमेव स्यात् / यावता त्वसौ विवक्षितस्यैव न ददाति, अन्यस्य तु पुनः सर्वस्यापि ददाति तस्माल्लाभान्तरायमेव तत् , न दानान्तरायं दायकविषयं हि तद् ग्राहकविषयं तु, लाभान्तरायम् / इति गाथार्थः / / 162 / / उक्तं लाभान्तरायम् / अधुना भोगोपभोगसाधनसत्तायामप्युपभोगभोगयोर्विघ्नमाह___ (पारमा०) यद्यपि प्रसिद्धो दाता सर्वजनदायकत्वेन / यः किल कस्यचिद्ददाति कस्यचिन्न नस्मान निश्चयेन लाभः संभवतीति प्रसिद्धोपादानम् / एवंविधेऽपि दातरि अकालमार्गणउच्छजलभाषणादियाचकवैगुण्यादपि न दानसंभव इत्याह-याचननिपुणश्च याचको यद्यपि प्रसादपरं ज्ञात्वा प्रह्लादयन् तथा याचते यथाऽदाताऽपि ददाति, किं पुनाता ? | तथाऽपि न लभते * 'यस्य' कर्मण उदयेन, एतत्पुनर्लाभविघ्नं लाभान्तरायम् / इति गाथार्थः // 162 / / अथ भोगोपभोगयोर्विघ्नमाह मणुयत्तेवि 'हु पत्ते, लद्धवि हु भोगसाहणे विभवे / भुत्तुं नवरि न सका, विरइविहूणोवि जस्सुदए॥१६३।। (पू०) व्याख्या-मनुष्यत्वं पुरुषत्वं प्रधानं भोगोपभोगकरणं विकलादिगतौ तदयोग्यत्वात् तस्मात्तत्प्राप्तिरेव दुर्लभा, अतो दुर्लभे मनुजत्वे प्राप्तेऽपि तथा मनुजत्वे सत्यपि प्रधानं भोगकारणं विभवः, तदभावे तेषां भोक्तुमशक्य त्वात्परिभोक्तुम् (1), अत आह–'लब्धेऽपि च' 1 “जयवि" (?) इत्यपि पाठः। 2 "न वि लन्मइ जस्सुदए" इत्यपि पाठः / 3 याचयति (?) जे०। 4 यदा-ऽपि (?) जे० / 5 याचयितुः (?) जे०। ६"य" इत्यपि पाठः। 7 "लद्धेवि य मोगसाहणे विभवे / उवमुजिउं न सकइ" इत्यपि पाठस्तदनुसारेण व्याख्याकारेण व्याख्यातमस्ति / 8 त्वात् , अत जे०।