________________ 84 ] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे तत्र दानान्तरायमाह सइ फासुयंमि दाणे, दाणफलं तह य बुझई विउलं / बंभच्चेराइजुय, पत्तंपि य विज्जए 'तत्थ // 160 // (पू०) व्याख्या 'सति' विद्यमाने 'प्रासुके' निर्जीवे 'दाने' देयवस्तुनि, तथा न केवलं देयमस्ति, दानस्य यत् फलं स्वर्गापवर्गलक्षणं, तच्च बुध्यते 'अतुलं' अनन्यसाधारणं, न केवलं फलं वेत्ति, ब्रह्मचर्यादियुक्तम् , आदिशब्दादहिंसादिपरिग्रहः / पात्रमपि च देययोग्यं साधुरूपमपि च 'विद्यते' अस्ति 'अत्र' लोके दान प्रस्तावे / इति गाथार्थः / / 160 // उक्तं दानकारणम् , सत्यपि तस्मिन् दानान्तरायमाह- .. (पारमा०) 'सति' विद्यमाने 'प्रामुके' यतिजनग्रहणोचिते 'दाने' देयवस्तुनि न केवलं देयमस्ति / तथा दानफलं च 'अतुल्यं' असाधारणं स्वर्गापवर्गादि 'बुध्यते' जानाति दानसामग्रीपतितो जीव इति गम्यम् / न केवलं फलं वेत्ति, ब्रह्मचर्यादीति ब्रह्मचर्यज्ञानतपोयुक्तं पात्रमपि च विद्यते तत्रेति दानप्रस्तावे // 160 // दाउं नवरि न सकइ, दाणविघायस्स 'कम्मणो उदए / दाणंतरायमेय, लाभेवि य भण्णए विग्धं // 161 // (पू०) व्याख्या-दानसामग्र्यो सत्यामपि दातु" प्रयच्छयितु (वितरीतु') 'नवरं' केवलं 'न शक्नोति' नशक्तो भवति, क सति ? इत्याह-'दानविघातस्य कर्मण उदये' वितरणविघ्नकरस्य कर्मणो विपाके दानान्तरायं 'एतत्' कर्म / यदस्मिन् सति दानसामग्रीसद्भावेऽपि दानं न करोति / दानान्तरायमिदं प्रत्यक्षोक्तं / लाभेऽपि च, न केवलं दाने 'भण्यते' प्रतिपाधते 'विघ्न' अन्तरायम् / इति गाथार्थः / / 161 / / / तदेवाह (पारमा०) केवलमेवंविधायामपि सामग्- 'दानविघातस्य' दानविघ्नकरस्य कर्मण उदयाहातु न शक्नोति, एतद्दानान्तरायम् / लाभान्तरायं प्रस्तौति-लाभेऽपि च भण्यते 'विघ्न' अन्तरायम् / इति गाथाद्वयार्थः // 161 // प्रतिज्ञातमाह 1 व्याख्याकारेण तु “इत्य" इति पाठ आहतः / 2 प्रस्तावे च / ने० / 3 कम्मुणो इत्यपि पाठः /