________________ अन्तररायकर्म-स्वरूपफलादिवर्णनम् अभिहितो दृष्टान्तः, अधुना दार्टान्तिकयोजनामाह (पारमा०) यथा राजा 'इह' लोके भाण्डागारिकेण विनीतेन दानादीनि करोति / तेन तु प्रतिकूलेन कुतोऽपि वैगुण्यादविधयेन न करोति स राजा दानादीनि / इति गाथार्थः // 157 // जह राया तह जीवो, भंडारी जह 'तहंतराय च / तेण उ विबंधएणं, न कुणइ सो 'दाणमाईणि // 15 // __ (पू०) व्याख्या-यथा राजा तथा जीवः तत्तुल्यो भाण्डारिको यथा तथाऽन्तरायिकं कर्म भवति भाण्डागारिकसदृशं जायते / अयमत्र भावार्थः-यदा तदन्तरायं क्षयोपशमादनुकूलं भवति जीवस्य तदाऽसौ दानादीनि करोति / ' तेन तु' पुनरन्तरायकर्मणा 'विवन्यकेन' प्रतिकूलेन न व.रोति स जीवो दानभोगादि आदिशब्दादुपभोगादिपरिग्रहः / इति गाथार्थः // 158 // तदेवान्तरायं संख्याभेदेन दर्शयति-- (पारमा०) यथा राजा तथा जीवः, यथा भाण्डागारिकस्तथाऽन्तरायं पुनः / 'तेन' त्वन्तरायेण 'विबन्धकेन' प्रतिकूलेन न करोति स जीवो दानादीनि / इति गाथार्थः // 158|| सम्प्रति पञ्चप्रकारत्वमाह-- तं दाणलाभभोगो-वभोगविरियतराय पंचमय / ___ एएसिं तु विवागं 'वोच्छामि अहाणुपुब्बीए // 159 // (पू०) व्याख्या-तद् दानं च लाभश्च भोगश्च उपभोगश्च वीर्य चेति द्वन्द्वः, एतेषामन्तरायं विनः लुमानुस्वारमन्तरायपदं प्राकृतत्वात् , 'पञ्चमयं' पञ्चभेदः / दानं त्रिविधम् , ज्ञानदानम् , अभयदानम् , धर्मोपग्रहदानम् / लाभोऽनेकप्रकारः, दायकादादेयप्राप्तिः / भुज्यत इति भोग आहारपुष्पादिः, उप सामीप्येन पुनः पुनर्वा भुज्यते उपभोगः / वीर्यमान्तरः शक्तिविशेषः / अन्तरायशब्दो विघातकः, स च प्रत्येकं संबध्यते / एतेषां पुनः 'विपाक' अनुभवं 'वोच्छामि' वक्ष्ये 'यथाऽनुपूर्व्या' यथापरिपाट्या / इति गाथार्थः // 159 // दानान्तरायस्य विषयमाह (पारमा०) 'तत्' अन्तरायं दानलाभभोगोपभोगवीर्यान्तरायाः पञ्च प्रकृता अस्मिन् दानलाभभोगोपभोगवीर्यान्तरायपश्चमयम् / एतेषां तु दानादीनां विपाकं भणामि 'यथानुपूा' आनुपूर्व्यनतिक्रमेण / इति गाथार्थः / / 156 // 1 व्याख्याकारेण तु “तहंतराईयं" इति पाठानुसारेण व्याख्यातम् / 2 "तु” इत्यपि पाठः।३ व्याख्याकारेण तु“दाणभोगाई” इति पाठानुसारेण व्याख्यातम् / 4 "पंचविहं"इत्यपि पाठः / ५“वुच्छाणि" इत्यपि पाठः, "मणामि य” इति पाठानुसारेण परमानन्दसूरीभिर्व्याख्यातम् / /