________________ 82] - कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे पुणः, सोऽप्येवंविधो 'यस्य' कर्मणः 'उदयन' विपाकेन 'लोके' जने 'लभते' प्रामोति 'निन्दां' जुगुप्सां, अकुलीनोऽयं किमस्य गुणैः 1 एतत्पुनः कर्म नीचेगोत्रं निकृटगोत्रं विज्ञेयम् / इति गाथार्थः // 155|| प्रतिपादितं गोत्रकर्म, अधुना गोत्रनिगमनपूर्वकमन्तरायमाह-- __ (पारमा०) सधनो रूपेण युक्तो बुद्धिनिपुणोऽपि 'यस्य' कर्मण उदयेन लोके धृतिकापुत्रोऽयभित्यादिनिन्दा लभते / एतत्पुनर्भवति 'नायं तु' इति नीचेगोत्रं भुम्भुलककारिकुम्भकारप्रतिमम् / इति गाथार्थः // 155 // गोत्रं निगमयन्नन्तरायकप्रस्तावनामाह-- 'गोय भणिय अहणा, अट्ठमय अंतरायय होइ। ' तं भंडारियसरिसं, जह होइ तहा निसामेह // 156 // (पू०) व्याख्या-'गोत्रं' सप्तमं कर्म 'भणितं' प्रतिपादितम् / 'अधुना' साम्प्रतं अष्टममेवाष्टमकं, अन्तराये भवमान्तरायिकं कर्म 'भणाम:' पतिपादयामः, तत्कभूतम् ? इत्याह'भाण्डारिकसदृशं' भाण्डागारनियुक्तपुरुषतुल्यं (यथा भवति) तथैव 'निशमयत' आकर्णयत यूयं कथ्यमानमिति शेषः / इति गाथार्थः // 156 // .. अत्रैवार्थे दृष्टान्तमाह अन्वयव्यतिरेकाभ्याम्-- (पारमा०) गोत्रं भणितम् , अधुनाऽष्टमकं अन्तरायकं भवति तद्भाण्डागारिकसदृशं यथा भवति तथा 'निशमयत' शृणुत / इति गाथार्थः // 156 // प्रतिज्ञातमाह-- जइ राया इह भंडारिएण विणिएण कुणइ. 'दाणाई / तेण उ पडिकूलेणं, न कुणइ सो 'दाणमाईणि // 157 // (पू०) व्याख्या-यथेति दृष्टान्तार्थः / यथा 'राजा' नरपतिः 'इह' अस्मिल्लोके 'भाण्डारिकेण' स्वनियोगिकेन 'विनीतेन' स्वायत्तेन 'करोति' विधत्ते दानमादौ येषां तानि दानादीनि, आदिशब्दाद्भोगोपभोगपरिग्रहः 'तेन तु प्रतिकूलेन' तेन पुनर्विबन्धकेन निषेधकेन 'न करोत्येव' न वितरत्येव 'स' राजा दानादि तु, आदिशब्दादोगोपभोगादिपरिग्रहः / तुशब्दस्यवकारार्थत्वात् / इति गाथार्थः // 157 / / 1 "गुत्तं" इत्यपि पाठः / 2 "अंतराइयं मणिमो” इत्यपि पाठस्तदनुसारेण व्याख्याकारण व्याख्या. तम् / 3 “दाणाई" इत्यपि पाठः / 4 "दाणमाई उ" इति व्याख्याताः।