________________ उपोद्धातः। निबन्धसंग्रहव्याख्याप्रणेत्रा श्रीडल्हणाचार्येण ग्रन्थारम्मे खपरिचय इत्थं दत्तः__ "समस्तजनपदतिलककल्पे श्रीभादानकदेशे नगरीवरमथुरासमीपे अकोलानामक वैद्यस्थानमस्ति / यत्र सौरवंशजा ब्राह्मणाः समस्तभूमिपतिमान्या अश्विनीकुमारसमानाः पार्वणचन्द्ररुचियशःप्रसाधितदिङ्मण्डला वैद्या अभूवन् / तदन्वये गोविन्दनामा चिकित्सकशिरोमणिरभूत्, ततस्तत्पुत्रो भिषशिरोमुकुटमणिर्जयपालः समजनि, तत्तनयश्च समस्तशास्त्रार्थतत्त्वज्ञो भरतपालः संजातः, तत्पुत्रः खकुलनमस्तलचन्द्रमा विवेकबृहस्पतिः श्रीसहपालदेवनृपतिवल्लभः श्रीडल्हणः समभूत् / तेन श्रीजेजर्ट टीकाकारं श्रीगयदासभास्करौ च पञ्जिकाकारौ श्रीमाधवब्रह्मदेवादीन् टिप्पणकारांश्चोपजीव्य, आयुर्वेदशास्त्रसुश्रुतव्याख्यानाय निबन्धसंग्रहः क्रियते / " . सोऽयं डल्हणः ख्रिष्टस्यैकादशशताब्द्यां संभूत इतीतिहासविदां मतम् / श्रीगयदासविरंचिताया व्याख्याया न्यायचन्द्रिका, नयचन्द्रिका, चन्द्रिका, पञ्जिका, इति नामभिरुल्लेखः कृतस्तद्वचनोद्धारे टीकाकृद्भिर्डल्हणविजयरक्षितप्रभृतिभिः / पञ्जिकाशब्दार्थस्तु व्याख्यातोऽमि. धानचिन्तामणौ-"पञ्जिका पदभञ्जिका" (का. 2, श्लो. 170) इति / 'पझ्यन्ते व्यक्तीक्रियन्ते पदार्था अनयेति पञ्जिका / अर्थाद् विषमाण्येव पदानि भनक्ति पञ्जिका / ' गयदासो डल्हणात् प्राचीनः, बहुषु स्खलेषु तत्पाठोद्धारात् , जेजटाचार्वाचीनः, पञ्जिकायां बहुषु स्थलेषु जेज्जटमतस्य दूषितत्वात् ; अतोऽनयोर्मध्यकालीन इत्यनुमीयते / - इदं तृतीयं संस्करणं प्रारम्भतश्चिकित्सास्थानस्य दशमाध्यायपर्यन्तं मयैव संशोधितं, शेषोंऽशस्तु पुस्तकप्रसिद्धीकरणार्थ त्वरमाणैनिर्णयसागरमुद्रणयन्त्रालयाधिपतिभिः निर्णयसागरस्थ-श्री.नारायण राम आचार्य-"काव्यतीर्थ"द्वारा प्रायो द्वितीयसंस्करणमनुसृत्यैव संशोधयित्वा प्रसिद्धिं नीतः।। अन्यत्र निर्दिष्टानामादर्शकुस्तकानां साहाय्येन पुस्तकस्यास्य संशोधने यथामति कृतो यत्नः / तथाऽपि भ्रमप्रमादादिदोषाज्जातानि स्खलनानि गुणैकपक्षपातिभिः सुधीभिः क्षन्तव्यानि, सफलयितव्यश्च ममायं प्रयासो ग्रन्थस्यास्य पठनपाठनादिनेत्यभ्यर्थयते___ कालबादेवीरोड भिषजामनुप्रायो _ मुंबई 27-10-1938 (इ. स.) यादवशर्मा