SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासमेतायाः सुश्रुतसंहितायाः प्रथमसंस्करणावसरे संशोधनार्थमधोलिखितानामादर्शपुस्तकानां साहाय्यमवलम्बितम् / 1 कलकत्तानगरस्थरॉयलएशियाटिकसोसाइटीपुस्तकालयात् प्राप्तं सूत्र-निदान-शरीर-कल्पस्थानात्मकम् / 2 जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदाध्यापकानां राजवैद्यानां वर्गवासिनां पं. गङ्गाधरभट्ट शर्मणां सकाशात् प्राप्तं चिकित्सास्थानोत्तरतन्त्रात्मकम् / 3 बुन्दीराजधानीनिवासिनामस्मत्परमसुहृदां राजवैद्यानां पं. श्रीप्रसादशर्मणां सकाशात् प्राप्तमुत्तरतन्त्रात्मकम् / द्वितीयसंस्करणावसरे संशोधनार्थमधोलिखितानामादर्शपुस्तकानां साहाय्यमवलम्बितम् / 1 निदानस्थानमुत्तरतन्त्रं च निबन्धसंग्रहव्याख्यासमेतं वाराणसीवास्तव्यानां साहित्याचार्य पं० गौरीनाथ पाठकमहोदयानां सकाशात्समुपलब्धम् / 2 शारीरस्थानं निबन्धसंग्रहव्याख्यासमेतमहमदाबादनिवासिनामस्मत्सुहृदां ख. वा. वैद्य रणछोडलाल मोती लालशर्मणां सकाशात्प्राप्तम् / 3 शारीरस्थानं मूलमात्रमतिप्राचीनमस्मत्परमसुहृदां स्व. वा. वैद्य मुरारजीशर्मणां ग्रन्थसंग्रहात्प्राप्तम् / 4 शारीरस्थानं निबन्धसंग्रहव्याख्यासमेतं पुण्यपत्तन(पूना)स्थभाण्डारकररिसर्चइन्स्टिट्यूटपुस्तकालयात्प्राप्तम् / 5 सम्पूर्ण निबन्धसंग्रहव्याख्यासमेतं. पुण्यपत्तनस्थभाण्डारकररिसर्चइन्स्टिट्यूटपुस्तकालयात्प्राप्तं कचित् कचित्खण्डितपत्रम् / 6 मुंबईनगरस्थरॉयलएशियाटिकसोसाइटीपुस्तकालयात्प्राप्तम् , अपूर्णम् / 7 चिकित्सास्थानं वाराणसीवास्तव्यानां भिषग्वर्याणां वैद्यरत्नश्रीव्यम्बकशास्त्रिमहोदयानां हस्तलिखितपुस्तकतो व्याकरणाचार्यसाहित्याचार्यायुर्वेदाचार्यतर्करनश्रीगुरुप्रसादशास्त्रिभिः पाठान्तरादिभिः संयोज्य संशोध्य प्रेषितम् / कलकत्तानगरस्थैः कविराजश्रीहाराणचन्द्रचक्रवर्तिमहोदयैर्विरचितेन सुश्रुतार्थसंदीपनभाष्येण समेतं सम्पूर्णम् / सूत्रस्थानस्य 43 अध्यायपर्यन्तं वङ्गाक्षरैर्मुद्रितं भानुमतीव्याख्यया निबन्धसंग्रहव्याख्ययां च समेतं ख. वा. महामहोपाध्यायकविराजश्रीविजयरत्नसेनमहोदयैस्तथा कविराजश्रीनिशिकान्तसेनमहोदयैश्च संपादितम् / तृतीयसंस्करणावसरेऽधोलिखितानामादर्शपुस्तकानां साहाय्यमवलम्बितम् / 1 ग्वालियरराजधानीवासिनामस्मत्परमसुहृदां राजवैद्यानामायुर्वेदाचार्याणां पं. रामेश्वरशास्त्रिशुक्लमहोदयानां ग्रन्थसंग्रहात् प्राप्तं सूत्र-निदान-शारीर-चिकित्सा-कल्पस्थानात्मकम् / 2 श्रीगदासाचार्यविरचितन्यायचन्द्रिकापञ्जिकाख्यव्याख्याया निदानस्थानं बीकानेरराजधानीस्थराजप्रासाद पुस्तकालयादायुर्वेदाचार्य पं. चन्द्रशेखरशास्त्रिद्वारा प्राप्तम् / 3 नेपालराजगुरुभिः मान्यवरपं. श्रीहेमराजशर्ममहोदयैः खीयग्रन्थसंग्रहालयस्थातिप्राचीनताडपत्रपुस्तकानु सारेण ख. वा. पं. नित्यानन्दशर्मा जोशी आयुवेदाचार्यद्वारा पाठान्तरैः संयोज्य प्रेषितं प्रारम्भतश्चिकित्सास्थानस्य नवमाध्यायपर्यन्तम् / यैरुपरिनिर्दिष्टैर्महोदयैरादर्शपुस्तकप्रेषणेनास्मिन् कर्मणि साहाय्यं प्रदत्तं तेषां तं महान्तमुपकारं सारं स्मारं परःशतैर्धन्यवादैखानभिनन्दयामीति /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy