________________ उपोद्धातः। सुश्रुततन्त्रं पूर्व पञ्चस्थानात्मकमेवासीत् , तस्योत्तरतत्रं तु बहोः कालात् पश्चात् केनचित् प्रतिसंस्का संयोजितमिति विद्यते बहूनां प्राचां नवीनानां च विदुषां मतम् / श्रीमतां नेपालराजगुरूणां पण्डितवर्यश्रीहेमराजशर्मणां मतमुपरि निर्दिष्टमेव / श्रीमधुसूदनसरखतिना खविरचिते प्रस्थानमेदाख्ये ग्रन्थे 'तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम्' (आनन्दाश्रममुद्रिते पुस्तके 8 पृष्ठे) इति लिखितं दृश्यते / इयं मधुसूदनोक्तिः किम्मूलकेति न ज्ञायते / परं सहस्रवत्सरेभ्यः पूर्वं समुद्भूतैर्जेज्जटगयदासादिभिष्टीकाकारैर्वर्तमानसमये समुपलभ्यमानस्य समग्रोत्तरतन्त्रस्य व्याख्यातत्वात् ख्रिष्टस्य पञ्चमशताब्यां समुद्भूतेन वाग्भटेनोत्तरतन्त्रस्थानां बहूनां विषयाणामुपादानाच्च यद्युत्तरतन्त्रं पश्चात्संयोजितं स्यात् तथाऽपि तत् सार्धसहस्रवत्सरेभ्यः पूर्वमेव संयोजितमित्यत्र नास्ति संदेहः / अस्मन्मते तु शालाक्याधन्याङ्गप्रतिपादकमुत्तरतन्त्रमपि भगवता धन्वन्तरिणैवोपदिष्टं तच्छिष्येण सुश्रुतेनैव च विरचितम् / अन्यथा केवलशल्यतन्त्रात्मकस्य पूर्वतन्त्रस्यैव सुश्रुतप्रणीतत्वे शालाक्याद्यन्याङ्गप्रतिपादकरयोत्तरतन्त्रस्य पश्चात् प्रतिसंस्कळ संयोजितत्वे हरिवंशपुराणादिषूक्तं भगवतो धन्वन्तरेरष्टाङ्गायुर्वेदप्रवर्तकत्वं, तथाऽत्रैव सूत्रस्थानस्य प्रथमाध्यायोक्तं "अस्माकं सर्वेषां शल्यज्ञानं मूलं कृत्वोपदिशतु भगवान्" इति, तथा "अहं हि धन्वतरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् / शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम्" इति च वचो व्याहन्येत / किञ्च "कार्तिककुण्डस्त्वेनं योगमन्यथा पठति व्याख्यानयति च / स च ग्रन्थगौरवभयान्न लिखितः / केचिदेनं योगमनाईं वदन्ति; तन्न, सुकीरसुधीरादिभिष्टीकाकारैरार्षत्वेन वर्णितत्वात्" (पृ. 791 ) इत्यस्माद् डल्हणलेखात् प्रतीयते यत्-सुकीरसुधीरादयः प्राचीनव्याख्यातार उत्तरल. मार्ष ( सुश्रुतप्रणीतं ) मन्यन्ते मेति / अतिसारप्रतिषेधोक्तात् “एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः / केचित् प्राहुनैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत्" (पृ. 696 ) इत्यस्माच्छोकादप्युत्तरतन्त्रस्य धन्वन्तयुपदिष्टत्वं सिध्यति / इदं तु संभवति-यथा चरकप्रतिसंस्कृतेऽमिवेशतन्त्रे कालवशाद्विलुप्ताश्चिकित्सास्थानस्य सप्तदशाध्यायाः कल्पस्थानं सिद्धिस्थानं च. पश्चादृढबलेन संपूरितं, तथा सुश्रुततन्त्रेऽपि कालवशाद्विलुप्तमुत्तरतन्त्रं पश्चात् केनचित् प्रतिसंस्कळ (डल्हणोक्त्यनुसारं नागार्जुन नेन, अन्येन वा सुश्रुतसंप्रदायानुयायिना) विदेहाधिपोक्तं शालाक्यतन्त्रं, कश्यपायुक्तान् कौमारभृत्यतब्रान्, अमिवेशायुक्तान् कायचिकित्सातन्त्रांश्चोपजीव्य संयोजितम् ; अथवा सुश्रुतोक्तमुत्तरतन्त्रं संक्षिप्त स्यात् , तच्च केनापि प्रतिसंस्का पूर्वोक्तरीत्या पश्चादुपबृंहितमिति // सुश्रुततन्त्रस्य संप्रति श्रीडल्हणाचार्यविरचिता निबन्धसंग्रहव्याख्यैव संपूर्णा समुपलभ्यते / श्रीचक्रपाणिदत्तविरचिताया भानुमतीव्याख्यायाः सूत्रस्थानमात्रं संपूर्ण समुपलब्धम् / अन्यस्थानव्याख्या त्वेतावपर्यन्तमप्राप्तैव / सुश्रुतसंहिताया भानुमतिव्याख्यासमेतं सूत्रस्थानमचिरादेव अस्मत्परममित्ररायुर्वेद मार्तण्डैरायुर्वेदाचार्यैः श्रीलक्ष्मीरामस्वामिमहोदयैः संस्थापितायुर्वेदग्रन्थप्रकाशननिधिव्ययेन मुद्रापितं तद्वन्थमालायाः प्रथमपुष्परूपेण प्रसिद्धिमेष्यति / बीकानेरराजधानीस्थराजप्रासादपुस्तकालयात् श्रीगयदासाचार्यविरचिताया न्यायचन्द्रिकाख्यपञ्जिकाया निदानस्थानमात्रं समुपलब्धम् / तदप्यस्मिन् तृतीये संस्करणे निबन्धसंग्रहव्याख्यया सह संयोजितम् / अन्यास्तु व्याख्या अस्माकं दैवदुर्विपाकवशाल्लुप्तप्राया एव / 1 एतच स्पष्टमेवोकमुत्तरतन्त्रारम्भे; यथा "निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः / शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः // येच विस्तरयो (दि)यः कुमारावाधहेतवः / पदसु कायचिकित्सासु ये चोकाः परमर्षिभिः // " (