SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः / 19 "महेन्द्ररामकृष्णानां ब्राह्मणानां गधामपि / तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै // " इति रामकृष्णादीनां महिमोल्लेखस्तत्र तत्र वैदिकमनप्रयोगः, अध्यात्मविषये सांख्यदर्शनग्रहणं च दृश्यते / तदेवं नागा. र्जुनस्य सुश्रुतसंहिताप्रतिसंस्कर्तृभाव आत्मनः साधनाय बलवत्प्रमाणमपेक्षते / सुश्रुतस्य पुनःसंस्करणमुपलभ्यतेऽस्माभि. रिति बहूनां प्राच्यानां पाश्चात्यानां च विदुषामभिप्रायः / क्वचिदर्वाचीनविषयाणामध्यनुप्रवेशदर्शनेनात्रापि संस्करणलेखनी प्रविष्टा इति ममाप्यभिप्रेतम् / परमेतदीये संस्करणे चरकसंहितायामिव न पौनरुक्त्यात्मकं संस्करणं प्रायः समीक्ष्यते / संस्कर्ता च उत्तरतत्रभागयोजकश्च अयमिति स्पष्टं तु न ज्ञायते, परं मत्सकाशस्थे 633 नेवारसंवल्लिखिते ताडपत्रीये सुश्रुतपुस्तके पुष्पिकायां पूर्वभागे 'सुश्रुते शल्यतन्त्रे' इति, उत्तरतन्त्रान्ते 'इति सौश्रुते म(स)होत्तरतन्त्रे चतुःषष्टितमोऽध्यायः, अतो निघण्टुर्भविष्यति' इति, तदुत्तरगते निघण्टुभागे समाप्ते 'सौश्रुत्यां संहितायां म(स)हो. त्तरायां निघण्टुः समाप्त!' इति लेखो दृश्यते / इदमर्थप्रत्ययान्तेन सौश्रुतशब्देन सुश्रुतग्रन्थस्यापि ग्रहणं सम्भवति, पर पूर्वापरभागयोरेकनिबन्धुभावे एकेनैव रूपेणोल्लेखस्य समुचिततया पूर्वभागे सुश्रुतशब्देन, उत्तरभागे सौश्रुतशब्देन विभिन्नतया निर्देशः पूर्वभागः सुश्रुताचार्यस्य, उत्तरभागस्तद्वंश्यस्य सौश्रुताचार्यस्येति बुद्धावारोहयति / निघण्टुभागे उपक्रमे दिवोदासोपदेशसम्बन्धस्योल्लेखदर्शनेऽपि मूलाचार्यस्यैकतया ग्रन्थस्य समूलरवेन प्रामाण्यविशेषमाधातु तथा निर्देशनस्य सम्भवितया, एतदीयलेखस्स किञ्चिदवतीर्णतया, तस्मिन्निघण्टुभागे उत्तरभागीयशब्दविशेषाणामपि प्रविष्टतया च स निघण्टुभागोऽपि सौश्रुतस्यैव भवितुमर्हति / उत्तरतत्रं संयोज्यापूर्णाशपूरकेण सौश्रुताचार्येण पूर्वभागेऽपि क्वचन संस्करणविशेषोऽपि विहितः स्यात् / महाभाष्यकृता सौश्रुतशब्दघटितनिदर्शनस्य दर्शनेन सौश्रुतानामपि पूर्व प्रसिद्धिः, सुश्रुतवंश्यानां सौश्रुतानां शल्य विद्याविदां पार्थिवैः सह सम्बन्धमादाय सौश्रुतपार्थिवा इति पूर्वतः प्रसिद्धिरिति पूर्व दर्शितमेव / तेन सुश्रुतस्य वंश्येन साम्प्रदायिकेन वा सौश्रुताचार्येण सुश्रुतस्य पूर्वतनं संस्कृतमुत्तरतत्रं निघण्टुभागश्च योजिते इत्यनुमीयते // - पूर्वाचार्यसंहितामुपलभ्यापि प्रस्थानान्तरीयाचार्यग्रन्थेभ्यो विशेषान्तराणामवगमे तान्यप्यनुप्रवेश्य पूर्वसंहिताया न्यूनतापरिहारेण सर्वाङ्गपूर्तये प्रयत्नस्य साधुतया दर्शनेन किल पश्चायोजकेन तम्रान्तरावगतविषयाणामपि संयोजनं, पूर्वतन्यां दिवोदाससंहितामुपादाय निबद्धायां सुश्रुतसंहितायामुत्तरतन्त्ररूपेण विहितं स्यात् / उत्तरभागे निविष्ठा विषया विदेहाधिपादिकीर्तितशाल्याक्यादितत्रान्तरसम्बद्धा इति तदुक्त्यैव स्पष्टीभवति / तत्रत्ये कौमारभृत्यप्रकरणे मूले आचार्यान्तरनिर्देशे कुमाराबाधहेतव इति सामान्यत उल्लेखेऽपि तट्टीकाकृता पार्वतकबन्धकजीवकादिभिरिति निर्देशनेन जीवकस्यैतद्वन्थोपलम्भेन च काश्यपजीवकादिप्रोक्तांस्तदीयविषयानप्युपादायोत्तरतन्ने योजनं कृतं सम्भाव्यते॥ सुश्रुतोत्तरतने रसप्रभेददर्शनपरस्य चतुःषष्ट्यध्यायस्य दोषप्रभेददर्शनपरस्यान्तिमस्य अध्यायस्य चान्तरा पञ्चषष्टितमोऽध्यायस्तभयुक्त्यध्यायः / कौटिलीयार्थशास्त्रेऽप्यन्तिमस्तत्रयुक्त्यध्यायः / उभयोर्युगपदालोचने उभयत्र द्वात्रिंशद्विधानां तनयुक्तीनामधिकरणादीनामूह्यान्तानां तदन्तर्गतानामुद्देश निर्देशोपदेशापदेशप्रदेशातिदेशादीनां ग्रन्थान्तरेष्वदृष्टानामसाधारणप्रभेदानामन्येषां च पदार्थानां केवलं स्वस्ववैद्यकनैतिकविषयकोदाहरणव निर्वचनसाम्यं दृश्यमानमेकस्यापरत्र छायानुवेधमनुमापयति / तत्र कतरस्थान्यतरसिंश्छायानुवेध इति पर्यालोचने कौटिलीये औपनिषदाधिकरणसमाप्तौ ग्रन्थान्ते शास्त्रीययुक्तिप्रदर्शनमिव सुश्रुतोत्तरतन्ने सहप्रवेष्टुमहयो रसभेददोषभेदप्रकरणयोरन्तरा तन्त्र. युक्त्यध्यायप्रवेशः पूर्वापरसङ्गतिदाळमनुपयनन्यदीयच्छायानुवेधेन संस्करणान्तरे वाऽनुप्रवेशं सम्भावयति / चरकसंहितायामपि ग्रन्थान्ते तत्रयुक्तर्विषया उद्देशमात्रेण निविष्टा दृश्यन्ते / तेऽपि दृढबलपूरितांश एव / पश्चात्तनेऽप्युत्तरतत्रे धन्वन्तर्युक्तिरूपतया पूर्वभागसम्बन्धेन प्रामाणिकत्वविशेषमवगमयितुं 'यथोवाच भगवान् धन्वन्तरिः' इति पूर्वभागबल्लेखोऽत्राप्यनुप्रवेशितो लेखकेनेति सम्भाव्यते / तदस्यां सुश्रुतसंहितायामनुप्रवेश्य विषयान्तराणि मूलग्रन्थोत्तरमुत्तरतत्ररूपेण पृथक्तयैव संयोजितानि न तु चरक इव तन्त्रान्तरालेष्वेवैकशरीरतामापाद्य / येन नवपुराणयोर्विषययो। संहितान्तरसंगृहीतविषयाणामपि परिच्छेदेन दर्शनं सुकरमुपजायते / सुश्रुतसंहितायां प्रथमाध्यायान्ते "सविंशमध्यायशतं पञ्चसु स्थानेषु संविभज्य उत्तरे तने शेषानर्थान् व्याख्यास्यामः" इति मुद्रितपुस्तकपाठदर्शने पूर्वसंहितासमये उत्तरतनस्यापि सद्भावप्रतीत्या द्वयोर्भागयोः समकालत्वमेवायाति / परं मदीयसङ्ग्रहालयगते प्राचीनताडपत्रपुस्तके तत्र तन्त्र बहुशः पाठभेदाः सन्ति / अत्रापि"......"संविभज्य उत्तरे वक्ष्यामः" इति पाठोऽस्ति / येन 120 अध्यायान् पञ्चस्थानेषु विभज्य अत उत्तरं वक्ष्यामः" इत्येव ग्रन्थाशयो, न किलोत्तरतन्त्र निर्देश इति प्रतिभाति / तृतीयाध्यायादौ अध्यायगणने मुद्रितपुस्तके दृश्यमानः "तदुत्तरं षट्षष्टिः" इत्यंशोऽपि ताडपुस्तके नास्ति / किन्तु 'अतः परं स्वनाम्नैव तत्रमुत्तरमुच्यते' इत्यारम्भविहिता उत्तरतत्राध्यायविषयसङ्ग्राहकाः 'विधिनाऽधीत्य युजाना भवन्ति प्राणदा भुवि' इत्यन्ताः श्लोकास्तु ताडपुस्तकेऽपि सन्ति / पश्चादुत्तरतन्त्रभागयोजनोत्तरं तद्विषयसूचीश्लोका इमेऽप्यनुप्रविष्टा बहुशः सम्भवन्ति // (काश्यपसंहिताया उपोद्घाते संस्कारतुलनादिसहिते विषयपरिच्छेदे पृ. 111-113)
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy