________________ 18 उपोद्धातः / नक्षत्रेषु' इति, तथा सूत्रस्थानस्य २९तमेऽध्याये "वैद्यस्य दैवे पैञ्ये वा कायें चोत्पातदर्शने / मध्याह्ने चार्धरात्रे वा संध्ययोः कृत्तिकासु च // आदोश्लेषामघामूलपूर्वासु भरणीषु च / चतुर्यो वा नवम्यां वा पंठ्यां सन्धिदिनेषु च // वैद्य य उपसर्पन्ति दूतास्ते चापि गर्हिताः" इत्यादौ तिथिनक्षत्रकरणानामेवोल्लेखो दृश्यते न तु वाराणाम् / यदि वारगणनाप्रचारस्तत्समये स्यात्तदा अर्वाचीनग्रन्थेषु यथा 'न वैद्यो बुधसोमयोः' इत्यादौ वारगतं शुभाशुभत्वमुपवर्णितं तथाऽसिंस्तन्त्रेऽपि तदवश्यमेवोपवर्णितं स्यात् / भारतवर्षे वारगणनाप्रवृत्तिः शकारम्भकालात् सहस्रवत्सरेभ्यः पूर्वमुपजातेति भारतीयज्योति शास्त्रेतिहासनाम्नि ग्रन्थे श्रीशङ्करबालकृष्णदीक्षितः। __ अन्यच्च सुश्रुतसंहितायाः सूत्रस्थानस्य षष्ठे ऋतुचर्याध्याये कालगणनावसरे “अथ खत्वयने द्वे युगपत् सवत्सरो भवति / ते तु पञ्च युगमिति संज्ञां लभन्ते" इति डल्हणचक्रपाणिदत्तसंमतः पाठो दृश्यते / नेपालदेशोपलब्धेऽतिप्राचीने ताडपत्रपुस्तके "ते द्वे अयने वर्षः / संवत्सरः, परिवत्सरः, इदावत्सरः, इद्वत्सरः, वत्सरः, इत्येवं पञ्च वत्सराः / ते पञ्च युगमिति संज्ञां लभन्ते" इत्येवं पाठो दृश्यते / एवं सुश्रुतसंहितायां संवत्सरादिपञ्चवर्षाणामेव युगसंज्ञा दृश्यते; कृतत्रेतादियुगसंज्ञास्तु नैवोपलभ्यन्ते / संवत्सरादिपञ्चवर्षात्मकस्य कालस्य युगसंज्ञा वेदाङ्गज्योतिषे एवोपलभ्यते / तथा च तस्य मङ्गलाचरणश्लोकः-"पञ्चसंवत्सरमययुगाध्यक्ष प्रजापतिम् / दिनर्वयनमासाङ्गं प्रणम्य शिरसा शुचिः" (ऋग्वेदज्योतिष श्लो० 1) / वाजसनेयसंहितायां ब्राह्मणग्रन्थेषु च संवत्सरादिपञ्चवर्षाणां नामान्युपलभ्यन्ते / इतोऽपि ब्राह्मणकालः वेदाङ्गज्यौतिषकालो वा सुश्रुतसंहिताया रचनाकाल इति वक्तुं शक्यते / वेदाङ्ग . ज्यौतिषकालस्तु शकारम्भकालात् पूर्व सार्धसहस्रवत्सरादारभ्य पञ्चशतवर्षपर्यन्तमासीदिति भारतीयज्योति शास्त्रेतिहासनाम्नि ग्रन्थे 'श्रीशङ्कर बालकृष्ण दीक्षित' इत्यनेन प्रतिपादितमस्ति / अतः शकारम्भकालात् सहस्रवत्सरेभ्यः पूर्वं सुश्रुततनं विरचितमिति सामान्यतो वक्तुं शक्यते // सुश्रुतसंहितायाः पुनः प्रतिसंस्करणविषये काश्यपसंहिताया उपोद्धाते नेपालराजगुरुभिः पण्डितवर्यैः श्रीहेमराजशर्मभिर्यल्लिखितं तदप्यत्राविकलमेवोद्भियते "सुश्रुतसंहितायास्तु संस्करणे न स्पष्टतया ग्रन्थलेखोऽस्ति / केवलं 'प्रतिसंस्कर्ताऽपीह नागार्जुनः' इति डल्लनलेखमुपलभ्य सुश्रुतसंहितायाः प्रतिसंस्कर्तारं नागार्जुन केचिन्मन्यन्ते / नागार्जुनस्य प्रतिसंस्कर्तृभावेऽपि सुश्रुतस्य ततः पूर्वतनत्वं सियति / किन्तु वर्तमाना सुश्रुतसंहिता नागार्जुनेन प्रतिसंस्कृतेत्यत्र न किमपि बलवत्साधनमुपलभ्यते इति पूर्वमेवोक्तम् / यदि स प्रतिसंस्कर्ताऽभविष्यत् तदा चरके "अग्निवेशकृते तत्रे चरकप्रतिसंस्कृते" इति लेखवदप्रापि स्वस्थ प्रतिसंस्कर्तृतां कथं नोदलेखिष्यत् / आर्यनागार्जुनस्य अन्यनागार्जुनस्यापि ग्रन्थान्तरेषु शल्यविषयसूचनाऽपि कचन नोपलभ्यते / आर्यनागार्जुनस्य उपायहृदये सुश्रुतस्य नामकीर्तनेऽपि पूर्वनिर्दिष्टभैषज्य विद्यानिरूपणे शल्यविषयः पृथक्तया नोपात्तः / शान्तिप्रधाने बौद्धमार्गे परिनिष्ठितो बोधिसत्वस्थानीयो विद्वान् शस्त्रसाध्यायां'शल्य विद्यायां कुतो वा प्रवृत्तः स्यादित्यपि सन्देग्धि चेतः / आर्यनागार्जुनेनान्येन तान्त्रिकनागार्जुनेन वाऽस्याः संस्करणे दृढवासनानुस्यूता बौद्धीच्छायाऽवश्यमस्यां प्रवेष्टुमर्हति / न खल्वस्यां संहितायां वचन लेशतोऽपि बौद्धसम्प्रदायच्छायोपलभ्यते, प्रत्युत १"वार ज्यांत नाहीत ते शकापूर्वी 1000 वर्षांहूनही प्राचीन असावे असें सामान्यतः म्हणण्यास हरकत नाही." मारतीयज्योतिःशास्त्राचा इतिहास पृ. 139. पं. 20 / / २'वेदाङ्गज्योतिषाचा काल सुमारे शकापूर्वी 1500 वर्षे हा होय'; 'सारांश शकापूर्वी 500 वें वर्ष ही वेदाङ्गकालची उत्तरमर्यादा होय' पृ. 139 / (भारतीपज्योतिःशास्त्राचा इतिहास पृ. 147) 3 विस्तारयति लेशोक्तं संक्षिपत्यतिविस्तरम् / संस्कर्ता कुरुते तत्रं पुराणं च पुनर्नवम् // (च.चि. अ. 12) 4 उत्तरतत्रे ३३तमेऽध्याये "जीर्णा च भिक्षुसंघाटी धूपनायोपकल्पयेत्" इत्यत्र भिक्षुशब्दोल्लेखो दृश्यते / व्याख्यातं चात्र डल्हणेन-"जीर्णा च मिक्षुसंघाटीमिति भिक्षुरत्र शाक्यभिक्षुबौद्धाख्यः परिव्राजकश्च, भिक्षुरत्र शाक्यभिक्षुरेवेति जेज्जटः" इति / पर मिथुशम्दस्य वैदिकधर्मानुयायिनि परिव्राजकेऽपि प्रयोगदर्शनात् , उत्तरतत्रस्य पम्बाप्रविसंस्कृतत्वादुपहितत्वादा नैतावन्मात्रेण मूलभूतं सुश्रुततत्रं बुद्धोत्तरकालीनमिति निश्चेतुं शक्यते / यादवशर्मा /