________________ उपोद्धातः। सम्भाव्यते / तेन इह स्विति आश्रमस्थमिति च समन्वेति / आश्रमस्थलमुपेत्योपदिशतोऽपि दिवोदासस्य पूर्वाधिपत्यमुपादाय सुश्रुते काशिराजत्वेन निर्देशनमपि युज्यते / महाभाष्यकृता शाकपार्थिवादि(२.३.७०)गणोदाहरणे 'कुतपवासाः सौश्रुतः कुतपसौश्रुतः' इति निर्दिश्य सुश्रुतसम्बन्धिनां सौश्रुतानां कम्बलरूपकुतपप्राधान्योल्लेखेन सौश्रुतानामपि हिमवदविप्रकृष्टदेशवासित्वं ज्ञायते / प्रचण्डग्रीष्मोष्मणा भर्जनकपालायितायां वाराणस्यां वसतः कुतपप्राधान्यवादे न नाम किमपि यौक्तिकमालम्बनं भवेत् // अत्रैवमृतुविभागद्वयोल्लेखो गणितप्रक्रियया संहितानिर्माणस्य संस्करणस्य च 1500 वर्षान्तरितं कालमेदं व्यनक्तीति श्रीयुतस्य एकेन्द्रनाथघोषमहाशयस्य विचारविशेषो दृश्यते / पूर्वोपदर्शितरीत्या बहुपुरुषानन्तरितानां धन्वन्तरिदिवोदाससुश्रुतानां तु नैतावरसमयान्तरालं सम्भवति / सुश्रुतानुयायिना सौश्रुतेनान्येन वा केनचित्पश्चारसंस्करणे इदं संभवति / परमुत्तरतत्रसंहिताया वर्तमानसुश्रुतसंहिताया एव सप्तमाष्टमशताब्योः भारव्यादिदेशान्तरेष्वयनूदिततया, कम्बोडियागतयशोवर्मशिलालेखेऽप्युल्लेखेन तावरदेशान्तरेष्वपि प्रचलितुं कालविशेषस्याप्यपेक्षिततया, वाग्भटज्वरसमुच्चयादिलेखेष्वप्युत्तरतन्त्रसहिताया एवास्याः संवादेन च नागार्जुनविहितसंस्कारप्रवादाभ्युपगमेनापि संस्कारनिष्पनेतत्स्वरूपस्थितेरन्ततो गत्वा सप्तदशाष्टादशशतवर्षपूर्वस्वनिश्चयेन तदुपरिगणितप्रक्रियागतपञ्चदशशतवर्षयोजने मूलसंहिताया द्वात्रिंशच्छतवर्षप्राग्भाव आयाति // धन्वन्तरेर्दिवोदासस्य, वार्योबिदेस्य वामकस्यापि काशीपतित्वेन निर्देशादीडशैर्वहुमिवैधाचार्य राजर्षिभिः काइयां पुराकाले वैद्यविधायाः प्रतिष्ठापनमवगम्यते। बुद्धकालिकस्य काशीयुवराजस्य ब्रह्मदत्तस्यायुर्वेदविद्याध्ययनाय तक्षति गमनस्य जातकप्रन्थे निर्देशोपळम्मेन पूर्वपरम्परानुवृत्तामायुर्वेदविद्या रक्षितुं काशिराजकुले चिरकालमनुरागोऽवगम्यते / भोपधेनवौरभ्रसौश्रुतपौष्कलावतानां चतुर्णा सुश्रुते समप्राधान्य निर्देशेन पूर्वपुरुषीयं सौश्रुतमौपधेनवादिकं वा कतमत्त तन्त्र प्रसृतमासीदिति विशेषोल्लेखानुपलम्भेऽपि नागार्जुनभाष्यकारादिभिः सुश्रुतसौश्रुतानां विशेषतो ग्रहणेन औपधेनवादीनां नानाऽप्यनिर्देशेन च सौश्रुतः सम्प्रदायः पश्चिमदिग्भागेऽपि विशेषतः पूर्वप्रदेशे प्रचलित भासीदित्यहितुं शक्यते / पश्चिमप्रदेशे कायचिकित्साप्रस्थानं, काश्यादिपूर्वप्रदेशेषु सौश्रुतं शल्यप्रस्थानं प्रचलितमासीदिति तु नियन्तुं नैव शक्यते / काशिस्थधन्वन्तरिसम्प्रदायेऽप्यष्टप्रस्थानोल्लेखो श्यते। "विविधानि शास्त्राणि भिषजां प्रचरन्ति लोके" (पृ. 257) इस्यात्रेयोऽपि सर्वतो नानाविधभैषज्यविद्यायाः प्रचारं स्वमुखेनोद्विरति / चरकसंहितालेखात् पाबालकाम्पिल्यादिषु, भेडलेखाद्वान्धारेषु, काश्यपलेखागाद्वारकनखलादिब्वायुर्वेद विद्योपदेशस्य दर्शनेन तत्रापि सा विद्या प्रतिष्ठिता श्यते / तेन गान्धारादारभ्य, न केवलं गान्धारादपि तु बाहीकभिषजः काकायनस्थापि तदात्वे उपलम्भेन वाहीकात काशीपर्यन्तं. पश्चिमोत्तरप्रदेशेषु भैषज्य विद्यायाः प्रचारः समुमतिश्च पूर्णमासीदित्यनुमातुं शक्यते / परं काशीयुवराजेन ब्रह्मदत्तेन तक्षशिलां गत्वा वैयविद्याया अध्ययनस्य जातकप्रन्थात्, मगधामिर्गतेन बुद्धसामयिकेन जीवकेन ससिकृष्ट काशीमुपेक्ष्य तक्षशिलामुपेत्य भैषज्यविद्यायां विशेषवैदुग्यस्य संपादनस्य, ततोऽधीत्य निवृत्तेन तेन जीवकेन वियाँ लावा राजपदस्थस्य ब्रह्मदत्तस्य समये कस्यचिच्छेत्रिपुत्रस्योदरं विदार्य काश्यां शबचिकित्सयोल्लाघनस्य, भन्येषामपि बहुशो रोगिणां तत्र तत्र शबचिकित्सपा कायचिकित्सया जीवकस्य स्याते महावग्गलेखतोऽवगमेन, जातक- अन्येभ्यो देशदेशान्तरतोऽप्यधिजिगमिषूणां तत्रोपगमवृत्तोपळम्मेन च विचान्वराणामिव भैषज्य विद्यायाः कालक्रमेण पुखसनिकृष्टसमये काश्यपेक्षया शस्यप्रस्थानीयविद्याया अपि तक्षशिलादिषु विज्ञानगौरवं प्रतीयते / काश्यां पचात् समये समये राज्योपप्लवस्येतिहासतोऽप्यवगमेन समयवशाभासः, आचार्य विशेषैश्चर्चावाहुरुयेन तक्षशिलादिष्वतिशयस्याधानमपि सम्भवति / अन्ततो गत्वा अशोकनृपसमये स्वदेश इव विदेशपर्यन्तमपि चिकित्सालयादीनामुदाटनेने भैषज्यपिया दरदर प्रससारा पर वारशे विद्यापीठे वक्षशिलादिपरिसरप्रदेशेऽपि पश्चात्समयान्तरे विद्या हासमुपजगाम / तत्रापीतिहासलम्येन राज्यविप्लवादिनैव हेतुना भवितव्यम् / तथैव बुद्धसमये तक्षशिलापेक्षया काश्यां खा . विधाया हास इवानुभूयते // " (काश्यपसंहिताया उपोदाते प्रन्थपरिचयसहिते भाचार्यपरिच्छेदे पृ. 13-77) - सुश्रुतसंहितायाः स्थूलकालनिर्णयेऽस्त्येकं साधनम् / भारतवर्षे रविसोमभौमादिवारगणनाप्रचारात् पूर्व सुश्रुतसंहिताया रचनाकाल इति वक्तुं शक्यते / यतोऽसिंस्तन्ने यथा तिथिनक्षत्रकरणाचाश्रितं शुभाशुभमुपवर्णितं न तथा वारगतम् / यथा सूत्रस्थानस्य द्वितीये तथा पञ्चमेऽध्याये "प्रशस्तेषु तिथिकरणमुहूर्त Indian Historical Quarterly vol IV p. 667. 2 काश्यपसहितायां (23) पृष्ठे-"काशिराज महामुनिः" इति। चरके "काशीपतिर्वामकः" इति (सूत्र. भ. 25) //