________________ उपोद्धातः। प्राचीनपरिस्थिती कल्पितोऽयमृतुविभागः पश्चादप्यनुवर्तमानो 'वसन्तादिभ्यष्टक् (4.2.63), इति सूत्रे पाणिनिनाऽपि गृहीतः, अद्यापि लोके प्रचलति च / सुश्रुतसंहिताया ऋतुचर्याध्याये उत्तरायणादिमारभ्य शिशिरादयो हेमन्तान्ताः प्रचलितप्रक्रियानुरूपाः पड़तवः पूर्व निर्दिष्टाः, तदनुपदमेव शीतोष्णवर्षारूपसमयभेदेन त्रिदोषाणामुपचयप्रकोपसंशमनावस्थामुपादाय अस्मिन्समये उपचयप्रकोपौ भजन्नयं दोषोऽस्मिन्समये संशमनीय इति भैषज्यप्रक्रियो. पयोगिविज्ञानाय इह स्वित्यादिना दक्षिणायनोपक्रम विभागान्तरमपि पुनर्दर्शितम् / तत्र वर्षाशरद्धेमन्तवसन्तग्रीष्म- . प्रावृडाख्यानां षड्तूनामुलेखेन प्राथमिक्या प्रक्रियायां चतुरो मासान् शीतस्य, मासद्वयं वृष्टेः, द्वितीयप्रक्रियायां तु मासद्वयं शीतस्य, चतुरो मासान् वृष्टेः समय इति विशेष आयाति / द्वितीया प्रक्रिया भैषज्यविज्ञानोपयोगायोपात्ता दृश्यते / काश्यपीये ऋतुविमानग्रन्थस्य खण्डितत्वेऽपि आत्रेयभेडसंहितयोरपि ऋतुविमाने भैषज्यसंबद्धा द्वितीयैव प्रक्रिया गृहीताऽस्ति / एवञ्चायुर्वेदीयपद्धतौ भैषज्यदशा हिमशिशिरयोरभेदं प्रावृवर्षयोविभेदं भजत ऋतुविशेष. क्रमस्थाचार्यैरुपग्रहणमवबोधयितुम् "इह तु" इति पदेनायुर्वेदीयं पन्थानमुद्दिश्य स्व देशानुरूपो विभागः सुश्रुते दर्शितः / इदम्परत्वमेवेहशब्दस्य केनचिट्टीकाकृताऽभ्युपगतं च / परं शास्त्र विशेष सार्वदेशिकस्यैकरूप्येण ऋतु. विभागस्य बोधने न सामञ्जस्यमायाति / न हि भारतेऽन्यत्र वा सर्वत्रैकरूप ऋतुविभागः। देशभेदेन शीतोष्ण. दशयोर्विभेदादाविलक्षणानि बहुशो भिद्यन्ते / सिंहल(सीलोन )प्रदेशे प्रायः सर्वदा समया शीतोष्णदशया समप्रायाः षड़तवो भवन्तीति नैवंभावः सर्वत्र / वचन शैत्यमतिशयानं बहुसमयं हृदयमाकम्पयति, क्वचनौष्ण्यमभिवृद्धं बहुकालं सर्वतस्तापयति, क्वचन वृष्टिबहुलतां वहति / मद्रासादिप्रदेशेषु मार्गशीर्षपौषयोराम्रमार्य उद्गच्छन्ति, फाल्गुने चैत्रे तत्फलानि पच्यन्ते / यथायथोत्तरीयः पर्वतीयः प्रदेशस्तथा तथा पश्चाद्भावः / येन नेपाले पार्वतप्रदेशे वैशाखे आम्रमायुद्भवः, अन्ततो भाद्राश्विनयोस्तत्फलानि पच्यन्ते / एवमेव शाकपुष्पफलौषध्यादीनामपि देशभेदेन विभिन्नः समयोऽनुभूयते / प्रदेश विशेषितः शीतोष्णजलवायवादीनां परिवृत्या यत्र यादृशी परिस्थितिस्तदनुसारेणैव गुणागुणान् विज्ञाय भिषग्भिः प्रवर्तनीयं भवति / तेन "इह तु" इत्यनेन तदुपदेशस्थलमवबोधयितुं युज्यते / पूर्वप्रचलित पद्धतिमादौ निर्दिश्य इह स्विति उपदेशस्थल विशेषे प्रावृष्डर्षा रूपवृष्टिसमयद्वैगुण्यप्रदर्शनेन, . शीतसमयस्य द्वैमासिकत्वं वर्षासमयस्य चातुर्मास्यत्वं तत्र बोध्यते इत्येवावगन्तुं युज्यते / स्थानमेदेन वर्षासमयस्य तारतम्यमप्यनुभूयत एव / भारतेऽपि ग्रीष्मान्ते वगोपसागरस्य आरब्योपसागरस्य वा जलं निपीय प्रस्थितो जलदो वायवीयां गतिमनुगच्छंस्तत्तत्प्रदेशेषु क्रमशो वर्षन् स्वीययात्रायां हिमाद्रेरन्येषां वोच्चगिरीणां शिखरैः प्रतिरुद्धपराग्गतिश्चिरापुझ्यादिप्रदेशेष्विव स्थाने स्थाने चिरं बहुलतया च जलं वर्षति / यथा यथा तथाभावः तथा तथा वृष्टिसमयस्य बाहुल्यमुपजायते इति प्राकृतिकपरिस्थित्यनुरूपो वैज्ञानिकानां सिद्धान्तः / सौश्रुते तत्रत्ये भैषज्यानुकूले ऋतुविभागे वर्षाप्रावृषोः स्वरूपविशेषः पृथक्तया प्रदर्श्यते / काशीप्रदेशे तु वर्षासमयस्य द्वैगुण्याभावेन वर्षाप्रावृटितो द्वितीयो विभागोऽननुकूलतां वहन् इहेति तदनुरूपमेव प्रदेशान्तरं दर्शयदवगमयति / सुश्रुतटीकायां / काश्यपवचनत्वेन निर्दिष्टाभ्यां "भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम् / तेन प्रावृषवर्षाख्यौ ऋतू तेषां प्रकल्पिती // गङ्गाया उत्तरे कूले हिमवद्धिमसङ्कुले / भूयः शीतमतस्तेषां हेमन्तशिशिरावृत् // " इति श्लोकाभ्यां गङ्गाया उत्तरतो हिमालयपरिसरप्रदेशे हिमशिशिरयोः, गङ्गाया दक्षिणतः प्रदेशे प्रावृवर्षयोः परिस्थितिर्बोध्यते / अत्र गङ्गापदेन वाराणसेयगङ्गोपादाने तु तद्दक्षिणोत्तरयोरेवं विभेदस्य दुर्वचतया तत्र गङ्गापदेन गङ्गाद्वारादुपरिवर्तिनी गङ्गामादाय तत उत्तरतो हिमसमयद्वैगुण्य, तहक्षिणकूलभागे वृष्टिसमयद्वैगुण्यं प्रदर्शितं सम्भवति / एतसमानन्यायेन इह स्विति निर्दिष्टं वृष्टिसमयद्वैगुण्योपलक्षितं स्थलं गङ्गादक्षिणविभागीय स्थान स्यादिति सम्भाव्यते // यद्यपि भावप्रकाशकृता काश्यां दिवोदाससकाशाद्वैद्यकविद्याध्ययनाय विश्वामित्रेण पुत्रस्य सुश्रुतस्य मुनिसूनुशतेन साकं प्रेषणस्य निर्देशेन, सुश्रुतसंहितायामाश्रमस्थं काशिराज दिवोदासमुपेत्य सुश्रुतादीनां प्रश्नस्योपदेशलाभस्योल्लेख. नेन च काश्यां कचनाश्रमे सुश्रुतस्योपदेशनमपि सम्भवति / परं तथात्वे इह स्विति पश्चानिर्दिष्टस्य चातुर्मास्यवृष्टिमतो देशस्य काश्यामननुकूलतया, महाभारतादिगतदिवोदासकथायां हैहयैराक्रान्तस्य दिवोदासस्य राज्यभ्रंशे भरद्वाजाश्रमोपगमस्य लाभेन च राज्यभ्रंशेन मुन्याश्रमोपगमे, किंवा पूर्वेषां राज्ञामन्तिमे वयसि वानप्रस्थचर्याया दर्शनेन वानअस्थमुपादाय तपोवनोपगमे, वृष्टिसमयप्राचुर्यवति गङ्गाद्वारदक्षिणप्रदेशे दिवोदासेन सुश्रुतस्योपदेशनं विहितं किलेति . 1 विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् / वत्स वाराणसी गच्छ वं विश्वेश्वरवल्लभाम् // तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः / स हि धन्वन्तरिः साक्षादायुर्वेदविदांवरः // पितुर्वचनमाकर्य सुश्रुतः काशिकां गतः / तेन सार्ध समध्येतुं मुनिसूनुशतं ययौ // (भावप्रकाशे)