________________ उपोद्धातः / 15 अन्ततो विक्रमाब्दारम्भात् पूर्व षष्ठशताब्द्यां सुश्रुतस्य समयं सोपपत्तिकं साधयतो हानले( A. F. Rudold Hoernel ) नामकस्य पाश्चात्यविदुषो लेखादपि ततोऽनर्वाचीनत्वं सिध्यति / केचन यथावदनिश्चीयमानोऽपि सुश्रुतस्य समय ईशवीयान्दोपक्रमात् षट्शताब्दीपूर्व एव नतु ततोऽर्वाचीन इति; अन्ये सुश्रुते सप्तविधकुष्ठनिरूपणं दृश्यते, यस्य रोगस्य भारतीयैश्चीनदेशीयैरपि 2500 वर्षपूर्वं ज्ञानमुपलब्धमासीदिति सुश्रुतस्योपसार्धद्विसहस्रवर्षपूर्वत्वं सम्भाव्यते इत्यपि निर्दिशन्ति / सुश्रुतसंहिताया लेटिनभाषायामनुवादको ह्यासलर ( Hessler) नामकः पाश्चास्यविद्वांस्तथा श्रीयुतगिरीन्द्रनाथमुखोपाध्यायोऽपि ईशवीयान्दारम्भादुपसहस्रवर्ष( B.C. 1000 )पूर्वतनः सुश्रुत इति निर्दिशति // एवं विधैर्विवेकविदुषामुपन्यासैर्विचारदृष्ट्या च सुश्रुतसंहितायाः पूर्वी भाग अन्ततो गत्वाऽपि इतः 2600 वर्षपूर्वोऽवगम्यते // सुश्रुते पूर्वाचार्येषु निर्दिष्टः सुभूतिगौतमः शाक्यसिंहस्य शिष्य इति बुद्धोत्तरभावित्वं सुश्रुतस्येति केचिनिदर्शयन्ति / भष्टंसाहस्रिकाशतसाहस्रादिके बौद्धग्रन्थे सुभूते म उपलभ्यते नाम / परं तत्र आयुष्मत्सुभूतिस्थ विरसुभूतिशब्दैरेव व्यवहारः कृतोऽस्ति, नतु सुभूतिगौतमस्य तत्रोल्लेखो दृश्यते / बौद्धग्रन्थेषु सुभूतेरध्यात्मविषय एवोल्लेखोऽस्ति, वैद्यविद्याचार्यस्वं न कुत्रापि निर्दिष्टमिति सुश्रुतोक्तः सुभूतिगौतमो न बौद्धोऽन्य एव प्राचीमो वैद्याचार्यः / सुभूतिगौतमस्य बौद्धस्वे तमपि पूर्वाचार्यदृशा पश्यतः सुश्रुतस्य लेखे बौद्धसंप्रदायच्छायाः कथं नोपलभ्येरन् / प्रत्युत अत्र बौद्धच्छायानुपलम्भ एवास्य. सुभूतेरबौद्धत्वं द्रढयति / स्थविरसुभूतेयाकरणमुपलभ्यते इति नामसाम्यमात्रेण सोऽपि सुभूतिः प्राचीनो बुद्धस्य प्रधान शिष्य इति वक्तुं शक्येत किमु // . वैद्यकटीकाकृभिः कचिद्विहितस्य वृद्धसुश्रुतोक्तवचनोद्धारस्य दर्शनेन तदुद्धृतवचनानां वर्तमानसुश्रुतसंहितायामनुपलम्भेन औपधेनवमौरभ्रमिति सुश्रुतोक्तपद्ये सौश्रुतस्य पृथनिर्देशेन च वर्तमानसुश्रुतसंहितातः पृथगेव वृद्धसुश्रुतस्य सौश्रुततनं पूर्वमासीदिति कथयितुमपि सुश्रुतसंहितायां वृद्धसुश्रुतस्य पूर्वाचार्यत्वेना निर्देशात् , महाभारतादावपि विश्वामित्रपुत्रस्वेन सुश्रुतस्यैवोल्लेखात् , महाभाष्यकारनावनीतकनागार्जुनवाग्भटज्वरसमुच्चयादिलेखेऽपि सुश्रुतनाम्नैव निर्दे शात्, एतदीयवचनानामेव तेषु संवादाच्च, आरब्यादिदूरदेशान्तरेष्वप्यस्यैव सुश्रुतस्य संहिताया अनुवादात् प्रचाराच, कम्बोडियादिगतयशोवर्मशिलालेखेऽपि सुश्रुतस्यैवोल्लेखात्, वृद्धसुश्रुतनानोपलब्धेषु वचनेषु प्राचीनरचनारूपप्रौढेरदर्शनेन, तद्वचनविषयतो वृद्धसुश्रुतस्य शल्यप्रस्थानाचार्यत्वानिर्धारणात् , सुश्रुतसंहिताया उपक्रमे काशिराज दिवोदासमपेतानामौपधेनवैतरणौरभ्रपौष्कलावतकरवीर्यगोपुररक्षितसुश्रुतप्रभृतीनामन्तेवासितया निर्देशोत्तरम् "औपधेनवमौरनं सौश्रुतं पौष्कलावतम् / शेषाणां शल्यतत्राणां मूलान्येतानि निर्दिशेत् // " इति औपधेनधौरभ्रपुष्कलावतसुश्रुताचार्यप्रणीततत्राणि तदीयार्थकप्रत्ययान्तैः सौश्रुतादिपदैः प्रदर्य एतेषां सर्वेषु शल्य. तत्रेषु प्राधान्य निर्देशेन तनिर्दिष्टस्य सौश्रुतस्यान्यदीयपूर्वतन्त्रत्वे तयायेन औपधेनवादितत्राणामपि औपधेनवाद्याचार्यतन्त्रेभ्यः पृथक्त्वेन पूर्वसिद्धानां वक्तव्यत्वापातात्, कौटिलीयादिप्राचीनप्रन्थेष्वपि स्वीयग्रन्थे स्वीयनामोल्लेखदर्शनस्य प्रायिकतया स्वीयसौश्रुततत्रस्य औपधेनवादितत्राणामिव प्राधान्यावबोधाय निर्देशौचित्याच, टीकाकारैराचीन निबन्धकारैश्च कचन गृहीतो वृद्धसुश्रुतस्तु कतमः, कदा सम्भूतः, कश्चास्य ग्रन्थः, कस्मिन्प्रस्थाने तस्याचार्यस्वमिति सर्वस्यास्य निलीनतया पूर्वोद्दिष्टं प्रसिद्धं दिवोदासान्तेवासितया सुश्रुतं सुश्रुतं परित्यज्यापरिच्छेद्यस्य वृद्धसुश्रुतस्य शल्यप्रस्थाने पूर्वाचार्यत्वसाधकं दृढं साधनान्तरमपेक्ष्यते / उपलभ्यमानसुश्रुतसंहितायां वचनार्वाचीनविषयप्रतिभासोऽपि संस्करणवशेन प्रतिफलितः, वचन पाठभेददोषोऽपीत्यत्र संस्करणप्रकरणे दिग्दर्शनं विधास्यते // वैदिक्यामवस्थायामार्यनिवासस्थलस्य परिस्थित्यनुसारेण विभक्तानां वसन्तग्रीष्मवर्षाशर मन्तशिशिराख्यानां-पण्णासतनामलेखो वैदिक साहित्ये दश्यते / एषु 'वसन्तमन्यं वोपक्रम्य जात एक ऋतुपर्यावतः संवत्सरात्मको भवति. " Studies in Medicine of Ancient India Part I. History of Indian Medicine III P.576. by G.N. Mukhopadhyayae " P.578. P.578. 5 Surgical Instruments of the Hindus. by G. Mukhopadhyaya P. 15. 6 यजुवेंदे-वसन्तेन ऋतुना इत्यादि (21. 23-28) मत्रेषु, वसन्तायेति (24. 20) मत्रे च। सामनेदे-वसन्त इन्नुरन्त्यो ग्रीष्म इन्नुरन्त्यः / वर्षाण्यनु शरदो हेमन्तशिशिर इन्नुरन्त्यः // (6 / 1332)