SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 14 उपोद्धातः। न्तेवासी सुश्रुतो वा तादात्विकं प्रसिद्धतरमाचार्य धन्वन्तरि दिवोदासं च तत्रायुर्वेदकर्तृषु कथं नाम्नाऽपि नोदलेखिष्यत् / सुश्रुतसंहिताया निबन्धा सुश्रुतोऽपि अश्वशास्त्र विभागीयत्वेऽपि वैद्यके एकप्रस्थानप्रायतया तथाप्रसिद्ध स्वस्य पितरमाचार्य वा शालिहोत्रं किमिति क्वापि प्रसङ्गेनापि न निरदेक्ष्यत् / आचार्यान्तरवैद्यकविषयैरपि सम्भृते पश्चात्सम्बद्ध उत्तरतन्त्रेऽपि सुश्रुतेन सौश्रुतेन संस्कर्ता वा किमिति तन्नाम नोल्लिखितं स्यात् / तेन शालिहोत्रस्योपदेश्यः पुत्रः सुश्रुतः, धन्वन्तरेरुपदेश्यो विश्वामित्रपुत्रः सुश्रुतश्च विभिन्नौ दृश्येते / दुर्लभगणकृते सिद्धोपदेशसङ्ग्रहनामकेऽश्ववैद्यकग्रन्थे "शालिहोत्रेण गर्गेण सुश्रुतेन च भाषितम् / तत्वं यद्वाजिशास्त्रस्य तत्सर्वमिह संस्थितम् // " इति निर्देशेन सुश्रुतस्याप्यश्ववैद्यकोपदेष्ट्रत्वमायाति, परमाग्नेयपुराणोक्त्या धन्वन्तरिशिष्यस्य सुश्रुतस्याप्यश्ववैद्यकवित्वेनोपलम्भादेतनिर्दियः सुश्रुतः शालिहोत्रीयो धान्वन्तरो वेति स्पष्टं न परिच्छिद्यते / अस्तु वा दुर्लभगणोक्तः सुश्रुतः शालिहोत्रगर्गसाहचर्याच्छालिहोत्रीयः, तदुक्त्या एतदीयोऽपि कश्चनाश्वशास्त्रग्रन्थः स्यात्, परमस्य शालिहोत्रपुत्रस्य सुश्रुतस्य ग्रन्थो न कोऽपि साम्प्रतमुपलभ्यते, तदीयस्य ग्रन्थस्योल्लेखो वचनस्योद्धारोऽपि, किंबहुना नाममात्रमपि गणकृतग्रन्थं विना नान्यत्राश्वायुर्वेदीयग्रन्थेष्वप्युपलभ्यते / ततस्तस्य सुश्रुतस्य विषये सम्प्रति किमपि वक्तुं न शक्यते / धान्वन्तरसुश्रुतस्य तु ग्रन्थोपलम्भतः, ग्रन्थान्तरनिर्देशतः, आचार्यान्तरोपग्रहणतः, शिलालेखाद्युल्लेखतश्च यथा प्रसिद्धिरस्ति, न तथा तस्य शालिहोत्रपुत्रस्य सुश्रुतस्य प्रसिद्धिदृश्यते / अतो यत्र सुश्रुतस्य कीर्तनं तत्र साधकबाधकान्तरोपलम्भमन्तरा शल्यप्रस्थानाचार्यो धान्वन्तरः सुश्रुत एव बुद्धावुपतिष्ठते // अनयोः सुश्रुतयोरक्यं मनसि कृत्वा शालिहोत्रलेखतः सुश्रुतस्य शालिहोत्रपुत्रत्वं नकुलकृतेऽश्वचिकित्सिते "पायादः स तुरङ्गघोषतनयः श्रीशालिहोत्रो मुनिः।" इति प्रारम्भपद्यलेखदर्शनेन तुरङ्गयोपशब्देनाश्वघोषमुपादाय शालिहोत्रस्याश्वघोषपुत्रत्वं च सङ्ग्रथ्य तुरङ्गघोषो हयघोषोऽश्वघोषश्चैकः, तत्पुत्रः शालिहोत्रः, तत्पुत्रः सुश्रुत इति कनिष्कसामयिकादश्वघोषादपि शालिहोत्रसुश्रुतयोरर्वाग्भावसाधकं व्यूहनकौशलमपि कस्यचिदृश्यते / परं नेपालदेशोपलब्धेऽश्वचिकित्सितस्य पुस्तकद्वये मङ्गलाचरणोक्तं तत्पद्यमेव नास्तीति मूले कुठारः, अस्तु वा तत्पद्यं, तथाऽपि शालिहोत्रग्रन्थेऽश्वचिकित्सितादौ च ब्रह्मणा इन्द्रेण वा सह सम्बद्धो मूलसंहिताकर्तृतया निर्दिष्टः शालिहोत्रः प्राचीन आचार्यः कीर्त्यते, शालिहोत्रग्रन्थे इक्ष्वाकुसगरयोः शालिहोत्रसकाशे प्रश्नस्य निर्देशोऽपि प्राक्तनत्वं दर्शयति / शालिहोत्रस्य न केवलं पञ्चतत्रादावेवोल्लेखोऽपि तु महाभारतेऽपि वैनपर्वणि अश्वहृदयविदो नलस्योपाख्याने तदुल्लेखोऽस्ति / तत्राश्वकुलवित्वेन विशेषणात् प्रकरणवशाच्च तत्रोल्लिखितः शालिहोत्रः स एवायमाचार्य इति निश्चीयते / उपलभ्यमाना शालिहोत्रसंहिता शालिहोत्रस्यैव हस्तलेखरूपा, किंवा संस्कारेण रूपान्तरमापन्ना, अथवा तदीयसम्प्रदायपरम्परागतोपदेशरूपेति त्वन्यदेतत् , परमश्वशास्त्रस्य परमाचार्यः शालिहोत्रः प्राचीनतर इत्यत्र न संशयः / ईशस्य प्राचीनस्य मुनेयुधिष्ठिरभ्रात्रा नकुलेन स्वग्रन्थे मङ्गलाचरणे आचार्यभावेन संमाननमपि युज्यते, पूर्वापरग्रन्थसंगमनं च भवति / ईदृशं पुरासमयात् प्रसिद्धं प्राचीनमाचार्य विहाय तुरङ्गघोषशब्देन अश्वघोषं कल्पयित्वा शालिहोत्रसुश्रुतयोस्तरपुत्रपौत्रभावकल्पनमितिहासमेव विप्लावयति / अश्वशास्त्रस्य प्रथमप्रव. तकः शालिहोत्रः, स चेदश्वघोषपुत्रस्तर्हि कनिष्कोत्तरमेवास्य प्रस्थानस्योदयेन भवितव्यं, तथाचाभ्युपगते कौटिलीयेऽर्थशास्त्रेऽपि अश्वानां शाला निर्माणमाहारकल्पना कुलजात्युल्लेखश्चैवमादयो बहवः शालिहोत्रीयविषयाः संक्षेपेण निर्दिष्टा दृश्यन्ते, अश्वानां चिकित्सका अपि गृहीताः सन्ति, तेषां तत्र कुत उद्गमो वक्तव्यः / अशोकनृपतिना भारतीयभैषज्यमुपादाय स्वदेश इव देशान्तरेष्वपि शिलालेखेन प्रमाणीकृतमश्वादिपशुचिकित्सालयानामुद्घाटनं के नाम विद्याधारमाश्रयेत / अश्वघोषो बुद्धसाम्प्रदायिकः प्रधानाचार्य इति स्पष्टमेव / शालिहोत्रलेखेऽश्वाभिषेकप्रकरणे श्रोतानामेव महर्षीणां नामानि, ब्रह्मघोषः, श्रीतं यज्ञविधानं, वाजिनां देवरूपत्वनिर्देशेऽपि श्रौतस्मार्तदेवानामेवोल्लेखश्च दृश्यमानः शालिहोप्राचार्यस्य वेदमार्गानुयायित्वमेव निश्चाययति / शालिहोत्रीये लेखे सुश्रुतसंहितायामपि बौद्धच्छायाया अनुपलम्भोडनयोरश्वघोषस्य बुद्धाचार्यस्यापत्यत्वं व्याघट्टयति / अश्वघोषः साकेतवर्ती, शालिहोत्रः पश्चिमोत्तरप्रदेशीय इत्यनयोः प्रदेश विभेदोऽपि विसंवादमेव दर्शयति / अश्वघोषपुत्रतया कल्पितस्य शालिहोत्रस्य पुत्रेण सुश्रुतेन सह शल्यप्रस्थानाचार्यस्य सुश्रुतस्याभेदेऽभ्युपगम्यमाने कनिष्काश्वघोषयोः सामयिकेन नागार्जुनेन तत्पौत्रतया सम्भावितस्य सुश्रुतस्य सुप्रसिद्धभिषक्त्वेनाचार्यदृशा महिमगानं कथं समयंत, नागार्जुनेन सुश्रुतसंहितायाः संस्करणस्य प्रवादोऽपि विपर्यस्येत् / द्वयोः सुश्रुतयोरभेदे कनिष्कसामयिकरवे च सति पाणिनिवार्तिकभाष्यकाराणां सुश्रुतशेब्दोपादानं किमालम्ब. नमासादयेत् / तेन न किञ्चिदेतदिति विरम्यते // 1 शालिहोत्रोऽथ किन्तु स्याद्धयानां कुलतत्त्ववित् / ( वनपर्वणि 72 अध्याये ) 2 कौटिलीये अश्वाध्यक्षप्रकरणे 30 अध्याये, साङ्ग्रामिकेऽपि 37 पृष्ठे इस्त्यश्वयोः कुलजात्युलेखोऽस्ति.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy