________________ उपोद्धातः / 13 भिषजां च मिथः संबन्धोऽवगम्यते / महाभारते कौटिलीयेऽपि साङ्घामिके प्रसङ्गे विशेषतः शस्त्रचिकित्साविदां सह'भावो निर्दिष्टोऽस्ति / यातृयातव्यासितादिसर्वावस्थासूपयोगितया शस्त्रास्त्रविमर्दवृत्तिभिः सेनापरिवृद्वैर्भूपतिभिः शल्यविद्यानिष्णातानां विशेषापेक्षा एकान्ततः समुचिता च / सुश्रुतस्य शल्यप्रस्थानाचार्यतया तत्साम्प्रदायिकानां सौश्रुता. नामपि पार्थिवैः सह नेदिष्ठं सम्बन्धमुपादाय प्रचलितः 'सौश्रुतपार्थिवाः' इति शब्दः पाणिनिना प्रवेशितो दृश्यमानस्तदावे न केवलं सुश्रुतस्य , अपितु तदनुयायिनां सौश्रुतानां शस्त्रवैद्यानामपि पूर्वतः प्रसिद्धिं, बाहुल्येन राजकुले प्रचार चावगमयति / काशिकाद्यनुसारेण 'सौश्रुतपार्थवाः' इति पाठान्तरोपादाने सौश्रुतानां राजभिः सह सम्बन्ध एतस्पदा. बावबुध्यत इत्यन्यदेतत्, परं सौश्रुतानां प्रसिद्धिरभ्यर्हि तत्वं चास्मादपि शब्दात् प्रतीयत एव / व्याकरणलेखतः सुश्रुतो वैद्यकाचार्य इति विशेषतः परिच्छेदालाभेऽपि "सुश्रुतस्य छात्राः सौश्रुताः" इति सौश्रुतशब्दयोगार्थ कण्ठतो दर्शयतः प्राचीनवैयाकरणस्य काशिकाकृतस्तद्विवरणकर्तुासकारस्यापि लेखतः स मूलभूतः सुश्रुतो न साधारण व्यत्यन्तरमपि तु विद्यासम्प्रदायप्रवर्तनद्वारा सौश्रुतानामाचार्यभूत आसीदिति तु स्पष्टमवगम्यते / शल्याचार्यमेनं सुश्रुतं विहाय विद्यासंप्रदायप्रवर्तकस्यान्यस्य सुश्रुतस्य न वाप्युपलम्भोऽस्ति / भिषगाचार्यस्य सुश्रुतस्य नागार्जुनेनो. पायहृदये, वाग्भटनावनीतकज्वरसमुच्चयादिलेखेषु, जयवर्मशिलालेखेऽपि कीर्तिततया, एतदीयग्रन्थस्यैव भारबादिदेशेऽप्यनुवादेन, हरिवंशलेखसंवादिनो दिवोदासस्य ब्राह्मणोपनिषदादिषूपलब्ध्या, दिवोदासाद्विश्वामित्रपुत्रेण सुश्रुतेन वैद्यविद्याया ग्रहणस्य सुश्रुतसंहितायामुल्लेखेन, महाभारतेऽपि विश्वामित्रपुत्रेषु सुश्रुतस्य दर्शनेन च शल्यप्रस्थानाचार्यम्यवास्य सुश्रुतस्य सम्प्रदायप्रवर्तकाचार्यतया प्रसिद्धिः पूर्वसमयादवगम्यते / सुश्रुतसंहितायामार्षरचनायाः प्रायो दर्शनं, बौद्धच्छायाया भदर्शनं, धातुरसायौषधानां प्रायोऽनुपयोगदर्शनं, शौनककृतवीर्यपाराशर्यमार्कण्डेयसुभूतिगौत. माख्यानां केषाञ्चिदेव प्राचीनाचार्याणामुल्लेखः, दिवोदाससुश्रुतशब्दयोः स्वरप्रक्रियायामुदाहरणस्योपलम्भश्चास्याचायस्य प्राचीनत्वमेव प्रगुणयति / पुरासमयात् परितः प्रसिद्धतरतया सर्वेषां बुद्धावुपस्थितं शल्यवैद्यकाचार्यमेनं सुश्रुतं विहायानुपस्थितस्यान्यस्य कल्पनायां न कोऽपि मानावलम्ब इति व्याकरणसूत्रवार्तिकभाष्यकारैरपि निर्दिष्टोऽयमेव सुश्रुतः पाणिनेरपि पूर्वतनो दिवोदासवदुपनिषत्कालिक इति निश्वेतव्यं भवति / बलवन्तं प्राचीनमाश्रयं भक्तवैव न खलूदासितव्यं भवति / उक्तमेवाभियुक्तैः- "व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्" इति // किञ्च आग्नेयपुराणे (अ. 279-292) नराश्वगवायुर्वेद जिज्ञासया पृच्छते सुश्रुताय धन्वन्तरिणा तस्योपदेशनस्योल्लेखदर्शनेन धन्वन्तरिरिव तदन्तेवासी सुश्रुतोऽपि नरायुर्वेदवद्वाश्वायुर्वेदयोरपि विज्ञाता प्रतीयते / सोऽयमाग्नेयोक्तः सुश्रुतोऽपि धन्वन्तरिसाहचर्यात् सुश्रुतसंहिताया निबन्धैव स्यात् / एकस्यापि बहुषु विद्याप्रस्थानेषु विज्ञातृत्वं बहुशो दृश्यते / शालिहोत्रग्रन्थे प्रष्टुभावेन सुश्रुतस्य नामनिर्देश उपलभ्यते / अश्वशास्त्रप्रवर्तकस्य शालिहोत्रस्य विषये श्रीयुतगिरीन्द्रनाथमहोदयैर्विशेषतो निरूपितमस्ति / कलिकातामुद्रितजयदत्सीयाश्वचिकित्सितभूमिकायामपि किनिदस्ति / विशेषान्तरं तत एवावसेयम् / शालिहोत्रग्रन्थस्य कियताऽप्यंशेन तत्र तत्र पुस्तकालये उपलम्भः श्रूयते / मया तस्यादर्शनेऽपि पूर्वनिर्दिष्टे हेमाद्रेर्लक्षणप्रकाशेऽश्वप्रकरणे शालिहोत्रीयाश्वशास्त्रवचनानि कानिचिदुद्धृतानि दृश्यन्ते / तत्र सुश्रुतमित्रजिनान्धारादिभिः पुत्रैः, गर्गादिभिः शिष्यैश्च पृष्टेन शालिहोत्राचार्येणाश्वविषयाणामुपदेशनं, प्रष्टतया शालिहोत्रपुत्रस्वेन सुश्रुतस्योल्लेखश्च दृश्यते / शिष्यस्याप्यन्यत्र कचन ग्रन्थान्तरे पुत्ररूपेण निर्देशो दृश्येत नाम, परमत्र-"पुत्राः शिष्याश्च पृच्छन्ति विनयेन महामुनिम् / " इति पुत्राणां शिष्याणां च पृथनिर्देशदर्शनेन, सुश्रुतस्यानेकवारं पुत्रत्वेनैव स्पष्टमुलेखेन च शालिहोत्रेणाश्वशास्त्रमुपदिष्ट एष सुश्रुतः शालिहोत्रस्य पुत्र एवेत्यवधार्यते / सश्रुतसंहितायां शल्यप्रस्थानाचार्यः सुश्रुतस्तु विश्वामित्रपुत्रत्वेन निर्दिष्टोऽस्ति / महाभारतलेखादपीदं संवदतीत्यबोचाम / भाचार्यपरिच्छेदे पूर्वनिर्दिथेषु शालिहोत्रोक्ताश्वाभिषेकमन्त्रश्लोकेष्वायुर्वेदकर्तणां निर्देशे आत्रेयस्य तदन्तेवासिना. मनिवेशहारीतक्षारपाणिजातूकर्णपराशरादीनामन्येषां चाचार्याणामुल्लेखे सत्यपि धन्वन्तरेर्दिवोदासस्य च नोलेखोऽस्ति / यदि नाम शालिहोत्रोपदिष्टो धन्वन्तर्युपदिष्टश्च सुश्रुत एक एवाभविष्यत् तदाऽश्ववैद्यकाचार्यः शालिहोत्रस्तद 1 महाभारते उद्योगे 1513152 अध्याययोः, भीष्मपर्वणि 120 अध्याये च / 2 कौटिलीये साङ्ग्रामिकाधिकरणे अ.१०। 3 Indian Historical Quarterly Vol II P. 47 4 शालिहोत्रमृषि श्रेष्ठं सुश्रुतः परिपृच्छति / एवं पृष्टस्तु पुत्रेण शालिहोत्रोऽभ्यभाषत / शालिहोत्रमपृच्छन्त पुत्राः सुश्रुतसङ्गताः / व्याख्यातं शालिहोत्रेण पुत्राय परिपृच्छते // मित्रजित्पमुखाः पुत्रा भूयः पितरमबुवन् / शालिहोत्रः सुतं प्राह हयानां स्वरलक्षणम् // इत्यादि (शालिहोत्रीये)। ५पृ० 23 //