SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 12 उपोद्धातः। सुश्रुच्छब्दः किप्प्रत्यये, सुश्रुतशब्दः प्रत्यये निष्पन्नो भृत् भृतः कर्मकृत् कर्मकर इत्यादिशब्दवत् केवलं प्रत्ययमेदकृतमांशिकविशेषमेवावबोधयन्नेकमेवार्थ बोधयितुं शक्नोति / 'इको गुणवृद्धी' इति सूत्रभाष्ये अन्त्ययोरेवेकारोकारयोर्गुण इति विशेषोक्त्या 'अग्नि वायु बभ्र मण्ड' इत्यादीकारोकारान्तशब्दस्थल एवं गुणो, न तूपधागतेकारोकारयोरिति निदशयितुं हलन्तशब्द एव प्रत्युदाहरणदानौचित्येन सुश्रुच्छन्दे तदभावावबोधाय 'सुश्रुत्-सौश्रुतः' इति हलन्तप्रकृतिमुपादाय भाष्यकृता निर्दिष्टं दृश्यते / सुश्रुच्छब्दादिव सुश्रुतशब्दादपि सौश्रुतशब्दो निष्पद्यत एव / बाभ्रव्यमाण्डव्यशब्दयोः केवलं बभ्रमण्डशब्दाभ्यां निष्पन्नतयाऽव्यभिचारेण प्रकृति निदर्शनस्याप्रयोजनतया बाभ्रव्यो माण्डव्य इत्येवो. ल्लिखितं, न तु बभ्रु-बाभ्रव्यः मण्ड-माण्डव्य इति / सौश्रुतशब्दस्याप्येवमेव सुश्रुच्छब्दादेव निष्पत्ती जायमानायामव्यभि. चरितप्रकृतेः सुश्रुच्छब्दस्योपादानं न सप्रयोजनं जायेत / सुश्रुच्छब्दादिव सुश्रुतशब्दादपि तस्य निष्पन्नतयैव अकारान्तनिष्पन्नसौश्रुतशब्दस्यानोपधागतोकारगुणनिवृत्तिनिदर्शनेऽनुपयोगितया हलन्तप्रकृतिकस्यैवास्य तदुपयोगितया भदन्तानिष्पने सौश्रुतशब्दे नात्र फलवैषम्यमपितु हलन्तानिष्पन्न एवेत्यवबोधयितुं प्रकृत्या सह तन्निदर्शनं सार्थक्याय भवति / एवं तद्धितेष्वचामादेः' (7 / 2 / 117) इति सूत्रभाष्येऽपि अन्त्योपधावृध्यपवादकत्वेनाद्यचो वृद्धिविधाने अदन्ते सुश्रुतशब्दे उपधावृष्यप्रसक्या तत्प्रसङ्गवति हलन्तसुश्रुतशब्दे एव तन्निदर्शनौचित्यमनुसन्धाय हलन्तप्रकृत्या सह सौश्रुतपदं निर्दिष्टं भाष्यकारेण / एवमुभयन्नादन्तसुश्रुतशब्दे प्रकृतित्वशङ्कानिरासार्थ हलन्तप्रकृतेरुपादानायासं कुर्वन् भाष्यकारः प्रत्युत सौश्रुतशब्दस्य अदन्तः सुश्रुतशब्दोऽपि प्रकृतिरस्तीति प्रत्याययति / अत एव कार्तकौजपादिसूत्रे निर्दिष्टस्य सौश्रुतपार्थिवशब्दस्य, "गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे (6 / 2 / 69)" इति सूत्रे निदर्शनीभूतस्य भार्यासौश्रुतशब्दस्य च योगार्थ निदर्शयतां काशिकापदमञ्जरीन्यासकृदादीनां 'सुश्रुतस्य छात्राः सौश्रुताः, सुश्रुतापत्यं सौश्रुत' इति, कचन कस्यचित्सुश्रुतोऽपत्यं सौश्रुत इति च निर्वचनेन सुश्रुतशब्दात् सुश्रुच्छब्दाद्वा सौश्रुतशब्दस्य निष्पादनाबहोः समयात् पूर्वैरेभिर्व्याकरणाचायैरपि सुश्रुत् सुश्रुत इत्युभावपि शब्दौ सौश्रुतशब्दप्रकृतितया स्वीकृतौ तदेव प्रमाणीकुरुतः। कुतपसौश्रुता इति वार्तिकभाप्यकृया पार्थिवसौश्रुता इति गणपाठकृता च निर्दिष्टयोः शब्दयोः सुश्रुच्छब्दादेव सौश्रुतशब्दस्य निष्पत्ति तु सुश्रुतशब्दादित्यत्र किन्नाम साधनम् ? | पाणिनीयोपदेशरूपेणाभ्युपगते गणपाठे दृश्यमाना शब्दाः सर्वे पाणिनिनैव परिगणिता इति न मे निर्बन्धः, समयविशेषेणापि कश्चन शब्दोऽनुप्रवेष्टुं शक्नोति; किन्तु पाणिनेः सनिकृष्टाभ्यां विवरणकारिभ्यां प्राचीनाभ्यां भाप्यवार्तिककाराभ्यामपि सूत्रोदाहरणे प्रदर्शितो गणपाठे उपलभ्यमानः सौश्रुतशब्दो न पाणिनीय इति, विशेषवक्तव्याभावेन मध्ये मध्येऽव्याख्यातानि सूत्राणि भाप्येऽनुपादानेनापाणिनीया.. नीति च सन्देहनं साहसमेबानुरुन्धे / भाष्यकृताऽव्याख्यातानां बहुशः सूत्राणामपाणिनीयत्वोको तत्सदध्यायपादान्तगतसूत्रगणना वा कथं समन्वीयात् / पाणिनीये कार्तकौजपादिगणे निर्दिष्टानां गणशब्दानामनुसन्धाने शेखरादिषु सौश्रुतपार्थिवा इति पाठलाभेन तदनुसरणे विभिन्नानां सौश्रुतानां पार्थिवानां च मिथः सम्बन्धोऽवगम्यते / पार्थिवशब्दादपि सौश्रुतशब्दस्य पूर्वप्रयोगस्य दर्शनेन तदात्वे सौश्रुतानां राजभिः संमाननं प्रतिष्ठा चासीदित्यनुमीयते। सौश्रुताः पार्थिवाश्चेति बहुवचनगर्भसमास एव सौश्रुतपार्थिवा इति निष्पत्त्या पाणिनिसमयेऽपि बहुशः सुश्रुतसंप्रदायानुयायिनो भिषजो बहुशः पार्थिवैः सह संबद्धा आसन्निति बहुवचनान्तपददानेन प्रत्याय्यते / सुश्रुतसंहितासूत्रस्थाने युक्तसेनीयाध्याये वैचेन सर्वतो निरीक्ष्य नृपस्य रक्षणं, स्कन्धावारेऽपि साहित्येन वर्तनं, राज्ञाऽपि वैद्यस्य संमाननं विशेषतो विधीयते / सूत्रस्थानोपसंहारेऽप्येतच्छास्त्रं राज्ञां महात्मनां भैषज्यायाध्येतव्यमित्येतद्विद्याविदा राजभिः सह विशेषसम्बन्धो घोत्यते / 'शतं ते राजन भिषजः सहस्रम्' (ऋक्.१.२४.९) इति मन्त्रलिङ्गादपि पुराकालादेव राज्ञा 1 कातकोजपादयश्च (6. 2. 31) / (क) सौश्चतपार्थवाः सुश्रुतस्य पृथोश्च छात्राः (काशिका ) / सुश्रुतस्य छात्राः सौश्रुताः, पृथोरछात्राः पार्थिवाः (न्यासः) / (ख) गोत्रान्तेवासिमाणवबामणेषु क्षेपे (6. 2. 69) / भार्यासौश्रुतः सुश्रुतापत्यस्य भार्याप्रधानतयाऽऽक्षेपः (काशिका)। मुष्ठ शृणोतीति सुश्रुत् तस्यापत्यं सौश्रुतः (पदमजरी) / सुश्रुतोऽपत्यं सौश्रुत इत्यण् / भार्याप्रधान सौश्रुतो भार्यासोश्रुतः, सश्रुतस्य भार्याप्रधानतयेत्यनेन समानाधिकरणेनात्र समास इति दर्शयति / सुश्रुतोऽपत्यमित्यनेनापि सौश्रुतस्याऽप्रत्ययान्तत्वम् (न्यासः)। 2 युक्तसेनस्य नृपतेः परानभिजिगीषतः / भिषजा रक्षणं कार्य यथा तदुपदेक्ष्यते // चिन्तयेन्नपतिं वैद्यः श्रेयांसीच्छन्विचक्षणः / वैद्यो ध्वज इवाभाति नृपतद्विधपूजितः // (सु. सू. अ. 34) 3 इमं विधि योऽनुमतं महामुने पर्षिमुख्यस्य पठेद्धि यत्नतः / स भूमिपालाय विधातुमौषधं महात्मनां चाईति सूरिसत्तमः // (सु. सू. अ. 46)
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy