________________ उपोद्धातः / संस्कृतभाषायां प्रत्यनूचाद्यत्वे या प्रकाशितोऽस्ति, तस्मिन् ग्रन्थे पूर्व तत्रातराणां विषयोद्देशप्रसङ्गे-"ओषधिविद्या षडिधा-ओषधिनाम, ओषधिगुणः, ओषधिरसः, ओषधिवीर्य, सन्निपातो, विपाकश्चेति भैषज्यधर्माः" इति भैषज्यविद्यायाः प्रधान विषयान् प्रदय पश्चादागमवर्णनप्रसङ्गे "यथा सुवैद्यको भेषजकुशलो मैत्रचित्तेन शिक्षकः सुश्रुतः" इति भैषज्यविद्याया आचार्यप्रवररूपेण ससंमानगौरवं सुश्रुतस्य कीर्तनमुपलभ्यते / तदेवमुपद्विसहस्रवर्षसमयेनार्यनागार्जुनेमाण्याचार्यदृशा सनामनिर्देशं सुश्रुतस्योल्लेख उपलभ्यमानस्ततोऽर्वाचीनत्ववादप्रतिरोधाय पर्याप्तमेकमपीदं साधनम् // अपरञ्च, पूर्वोद्दिष्टस्य खोटाङोपलब्धस्य भूर्जपत्रीयनावनीतकपुस्तकस्य लिपिमात्रानुसन्धानेऽपि तृतीया चतुर्थी वा शताब्दी लेखसमय इति सर्वनिर्धारितमस्ति / अद्यत्वे इव झटिति प्रापकैर्बाष्पशकटव्योमयानशब्दवाहकादिसाधनैर्विनाकृते पूर्वकाले भारतीयस्यास्य ग्रन्थस्य दुर्गमतावहूरपर्यन्तं प्रचाराय प्राप्तये च विशेषतः समयस्यापेक्षिततया तहन्थरचना ततोऽपि पूर्वतनी वक्तव्यैव / अत्र मङ्गल निर्देशे बुद्धोल्लेखदर्शनेन बुद्धसमयमनु कतिपूर्वकाले एतद्वन्थरचनेति न परिच्छियते / ईदृशे प्राचीनेऽस्मिन् ग्रन्थे भात्रेयस्य तदनुगानां क्षारपाणिहारीतजातूकर्ण्यपराशरभेडादीनां काश्यपजीवकयोः सुश्रुतस्य च नामानि तदीयौषधोद्धाराश्च सन्ति / तदुद्धृतानां केषाञ्चिदौषधपाठानां वर्तमानचरकसंहितायामुपलम्भेऽप्यात्रेयनाम्ना तत्र निर्देशोऽस्ति / चरकाचार्यस्य नागार्जुनस्य चात्र नामोल्लेखो नास्ति / चरकनाना प्रसिद्धायाश्वरकसंहिताया आविर्भावोत्तरमस्य नावनीतकस्य जन्म यद्यभविष्यत्तदा वाग्भटादिग्रन्थेष्विवात्रापि तथा प्रसिद्धस्याचार्यस्य चरकस्य नाम किमिति नोदधरिष्यत / तेन चरकसमयादप्यस्य पूर्वत्वं किमिति सन्दिह्यते / बौद्धेन निबन्ध्रा वैचकेऽपि प्रसिद्धस्य बौद्धाचार्यस्य नागार्जुनस्य, एवमन्यस्यापि बौद्धाचार्यस्य वैद्यके प्रसिद्धस्य सत्वे तादृशस्यापि नाम किमिति नाम नोपात्तं भवेत् / तेन आत्रेयस्य तद्वर्याणां सुश्रुताचार्यस्य काश्यपजीवकयोरुदयोत्तरं नागार्जुनसमयात् पूर्वतनोऽयं ग्रन्थ इत्यवगमेन तत्राप्युपात्तस्य सुश्रुतस्य नागार्जुनादिसमयात् पूर्वभावे इदमप्युपोदलकं भवति // एवं न केवलमार्यनागार्जुनानवनीतकारादपि प्राचीनत्वं सुश्रुतस्य, अपितु महाभाष्यकृतः "तद्धितेष्वचामादेः (7. 2. 117), इको गुणवृद्धी (1.1.3)" इति सूत्रव्याख्याने 'सौश्रुतः' इति, "शाकपार्थिवादीनामुपसंख्यानम् (2.1. 170)" इति वार्तिके 'कुतपवासाः सौश्रुतः कुतपसाश्रुतः' इति निदर्शनेन महाभाष्यकाराद्वार्तिककारादप्यस्य प्राग्भवत्वं ज्ञायते / नैतावदेव, भगवता पाणिनिनाऽपि “कार्तकौजपादयश्च (6. 2. 37)" इति सूत्रीयगणे 'सौश्रुतपार्थिवाः' इति शब्दस्योद्देशेनापत्यसम्बन्ध्यादिबोधकप्रत्ययान्तेन सौश्रुतशब्देन प्रदर्शनान केवलं सुश्रुतस्य, तद्वंश्यस्य तदन्तेवासिनो वा तत्संबन्धिनोऽपि पाणिनितोऽपि पूर्वत्वमवगम्यते // भत्र महाभाष्यकृता 'सुश्रुत्-सौश्रुतः' इति निदर्शने हलन्तसुश्रुच्छब्दोपादानेन, कातकौजपादिगणे सौश्रुतशब्दघटितशब्दस्य दर्शनेऽपि तस्य गणे प्रश्वात्प्रवेशस्यापि सम्भवितया पाणिन्युपदिष्टवानिश्चयेन, भाष्यकृताऽव्याख्यावस्त्र तत्सूत्रस्य पाणिनीयत्वानवधारणेन, भाष्यलेखतः सुश्रुतस्य वैद्यकाचार्यत्वे साधकस्य लिङ्गस्यालामेन च महाभाष्यकृता सूचितोऽयमेव सुश्रुत इति निर्धारयितुं न शक्यते इति पाश्चात्यविदुषो वेबरमहाशयस्य मतं श्यते / तत्रेदमुच्यतेशिलापट्टके उत्कीर्णा "नागार्जुनेन लिखिताः स्तम्भे पाटलिपुत्रके" इति वृन्देन चक्रपाणिना च लिखिता नागार्जुनीयास्तत्तद्रोगप्रवीकारका औषधयोगविशेषा अप्यस्यैव नागार्जुनस्य भवेयुः / सप्तमशताब्दीसमय निर्दिशन् मलबेरुनीलेखस्तु दुयन्सगळेखादनि प्रतिहततया तदुक्तनागार्जुनान्तरस्यानुपलम्मेन च भानुश्रविकं काल्पनिकं समयमु लिख्य शातवाहनसामयिकमेव नागार्जुनमभिप्रेतीति प्रतिभाति / तात्रिकविषयासंसष्टा केवलमध्यात्मप्रधाना प्रौढा माध्यमिकवृत्तौ उपायहृदये (छायानुवादरूपेण प्रकाशिते) च लेखशैली दृश्यमाना तात्रिकनागार्जुनाद्विमिन्नस्यैव नागार्जुनस्य कृतिमवबोधयति / उपायहृदये दर्शनान्तरविषयसूचनाप्रसङ्गे भैषज्यविषायाः प्रधानविषयरूपेण षण्णां भैषज्यधर्माणां केवलं साधारणनाममात्रेणोद्देशनाद्धातुरसायनविषयाणां लेशतोऽप्यसूचनेन चास्योपायहृदयस्य माध्यमिकवृत्तेश्च निर्माता महायानपथप्रतिष्ठापको दार्शनिक आर्यनागार्जुनः प्राचीन इत्यवगम्यते / राजतरङ्गिण्यां निर्दिष्टो नागार्जुनस्तु बौद्धोऽपि सन्नरपतित्वेन वय॑ते / माध्यमिकादिकर्तुर्नागार्जुनस्य कुतोऽपि नृपतिमावस्यालामेन विभिन्न एवायं समाननामा नृपतिर्नागार्जुन इति भाति // 1 History of Indian Literature by Wober P. 266... 1 डल्हणविरचिते निबन्धसंग्रहव्याख्याने द्वित्रिस्थलेषु नागार्जुनवचनोद्धारो दृश्यते / शारीरस्थानस्य चतुर्थेऽध्याये ८०तम. शोकव्याख्याने समुद्धृतं "सप्त दोषतः सप्त गुणतः" इति ( 362-2-7) नागार्जुनवचनं भदन्तनागार्जुनविरचिते रसवैशेषिकसूत्र दृश्यते / रसवैशेषिकं संप्रति त्रिवेन्द्रमनगरे श्रीवञ्चिसेतुलक्ष्मीग्रन्थमालायां मुद्रितं समुपलभ्यते। रसवैशेषिकसूत्रप्रणेता नागार्जुनस्तु बुद्धसांप्रदायिक इति तन्नाम्ना सह दत्तन भदन्तेति विशेषणेनैव निश्चीयते / अन्यच्च कल्पस्थानस्य सप्तमेऽध्याये "नागार्जुनोऽत्राह"तेन दर्शयते दष्टो म्यक्तं मूषिकपुत्रकान् / एतत् पुत्रकदष्टस्य व्यक्तं भवति लक्षणम्" (पृ.५८२, पार्थ 2, पं. 32-34) इति वचनं समुद्धृतं दृश्यते / एतद्वचनमन्येन नागार्जुनेन विरचितादगदतत्रादुद्भुतं स्यात् / यतो रसवैशेषिकसूत्रे नोपलभ्यते एतद्वचनम् / यादवशर्मा।