SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः / विश्वामित्रमुनिः स्वपुत्र सुश्रुतं काशिराजधन्वन्तरि( दिवोदास)सकाशेऽध्ययनाय प्रेषयदिति भावप्रकाशेऽप्यस्ति / उल्लमण्याख्यायां विश्वामित्रनाम्नोद्धृतं वैद्यकविषयकं वचनमपि लभ्यते / कोऽयं विश्वामित्र इति न सम्यक् परिचीयते // सुश्रुतसंहितायाः समयविचारे हैस( Haas )नामा पाश्चात्यविद्वान् सुश्रुतादयो द्वादशशताब्दीवर्तिन इति, श्रीयुत जोन्स विल्सनादयः (Jones, Wilson) नवमदशमशताब्दीवर्तिन इति अन्येऽपि पञ्चमचतुर्थशताब्दीषु सुश्रुतस्य समय इत्यर्वागाकर्षणवासि जल्पन्ति // Sus'ruta seems to have lived nob later than the fourth century A. D., as the Bower manuscript contains passages not only parallel but verbally agreeing with passages in the works of Caraka and Sus'ruta." इत्थं म्येक्डोनल( Macdonell) महाशयो लिखति // 'In language and style, it (Susruta) and the works resembling it with which I am acquainted manifestly exhibit a certain affinity to the writings of Varaha Mihira. इत्थं वेबर(Weber )महाशयोऽपि लिखति // अन्ततो गत्वा हवर्ट गोवन( H. Gowen )नामको विद्वांस्तु सुश्रुतो नाम न कोऽपि बभूवेति बहवो जल्पन्ति / यदि कोऽपि स्यात्तदाऽपि साक्रेटिस एवेत्यपि मुक्तकण्ठं वदति // तत्रैवमुपन्यस्यते-उपद्विसहस्रवर्षपूर्वतनस्य दार्शनिकस्यायनागार्जुनस्य उपायहृदयं नाम दार्शनिकग्रन्थ उपलब्धः। भारते मूलसंस्कृतलेखानुपलम्भेऽपि पुरासमयाचीनभाषायां वर्तमानादनुवादादस्मत्परममित्रेण श्रीयुततुचीमहाशयेन / 1 अथ शानदृशा विश्वामित्रप्रभृतयोऽविदन् / अयं धन्वन्तरिः साक्षात् काशिराजोऽयमुच्यते // विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् / वत्स वाराणसी गच्छ त्वं विश्वेश्वरवल्लभाम् (भावप्रकाशे)। 2 तथा चोक्तं विश्वामित्रेण-यावशूकस्य पानं तु कुलत्थक्षारवारिभिः' (स. टी. डल्लणः.) History of Sanskrit Literature by A. A. Macdonell p. 436. 4 History of Indian Literature by Wober p. 168. y By many Sus'ruta has been denied actual substance in the flesh, or has been identified with Socrates. A History of Indian Literature by H. Gowen pp. 144-145. 6 नागार्जुननामानोऽनेके विद्वांसः प्राक्तना उपलभ्यन्ते / नागार्जुनरचनारूपेणोपलब्धेषु कक्षपुट-योगशतक-तत्त्वप्रकाशादिषु बह ग्रन्थेषु कक्षपुटादिकौतुकग्रन्थानां प्रणेता सिद्धनागार्जुन इति विशेषनाम्ना व्यवहियते / वैद्यकविषये योगशतकं नाम प्राप्तप्रकाशमेव, यस्य तिम्बतभाषायामप्यनुवाद उपलभ्यते / नागार्जुनीय एवान्यः "चित्तानन्दपटीयसी" नामा ताडपत्रीयः संस्कृतवैद्यकग्रन्थस्तिम्बतप्रदेशे गीममठे वर्तते इति श्रूयते / तत्रसंवलितबौद्धाध्यात्मविषये तत्त्वप्रकाशः, परमरहस्यसुखाभिसंबोषिः, समयमुद्रा एवमादयः; केवलबौद्धदार्शनिकविषये माध्यमिकवृत्तिः, तर्कशास्त्रम् , उपायहृदयमेवमादयो ग्रन्था दृश्यन्ते / एषां प्रस्थानविशेषग्रन्थानां निर्माता नागार्जुनो विभिन्न एको वेति विचारणीयं भवति / तत्र-अष्टमशताब्धा मारते पर्यटितुमागत: अश्वेरुनीनामको यात्रिक: स्वरमाच्छतवर्षपूर्व रसायनविवानिपुणो बोधिसत्त्वोऽतीव प्रसिद्धो नागार्जुननामा विद्वान् बभूवेति निरूपयति / सप्तमशतान्या भारतमुपागतो हुयम्सङ्गनामा चैनिकयात्रिकः स्वस्मात् सप्ताष्टशताब्दीपूर्वतनः शान्तिदेवाश्वघोषादिवत् प्रसिद्धतरो 'बौद्धविद्वान् बोधिसत्त्वः पाषाणमपि रसायनेन स्वर्ण विदधानो नागार्जुनः शातवाहनमित्रं बभूवेति वर्णयति / राजतरङ्गिणीकारो बुद्धाविर्भावात् सार्धशतवर्षोंत्तरं नागार्जुनो नाम महाविद्वानभूदित्युल्लिखति / तदेवमनेकधा विभेदेन शायमानाः समयाः संवादकान्तरसाहाय्येनान्यतरस्यैव प्रामाण्यमथवा नागार्जुनानामेव विभेदमनभ्युपगम्य नैकस्मिन्नागार्जुने संगम्यन्ते / शालगहनाय नागार्जुनेन पत्रप्रेषणस्य वृत्तमन्यत्र प्रकाशितमेवास्ति / मदीये संग्रहे ताडपत्रीय विशकलितं संस्कृतभाषानिबद्धमेकं शालवाहनचरितमस्ति / तत्र "दृष्टतत्त्वो बोधिसत्रो महासत्वो महाराजगुरुः श्रीनागार्जुनाभिधानः शाक्यभिक्षुराजः" इति स्पष्टोल्लेखेन बोधिसत्त्वस्थानीयः कुरुकुलाया उपदेशनोलेखन तात्रिका शाक्यभिक्षुनागार्जुनः शालवाहनसामयिक इति सिध्यति / हुयन्सङ्गो हि बोधिसत्वतया धातुवादविद्वत्तया च शालवाहनसामयिक मागार्जुनमुलिखति / नागार्जुनेन शालवाहनाय रसायनगुटिकौषधस्य प्रदानमपीतिवृत्ते लभ्यते / नागार्जुनेन स्वमुहृदे शातवाहनाय रतकावल्याः प्रदानस्य "समतिक्रामति च कियत्यपि काले तामेकावली तस्मान्नागराजानागार्जुनो नाम......लेमे च, त्रिसमुद्राधिपतये शातवाहनाय नरेन्द्राय सुहृद स ददौ ताम्" इति हर्षचरिते ( उ. 8) बाणभट्टस्य लेखनादप्येतयोः समकालसौहार्द प्रतीयते / ततश्च शातवाहनसामयिको नागार्जुनो बोधिसत्त्वस्थानीयो महाविद्वाँस्तवविद्यानिपुणो रसायनेऽपि प्रसिद्धो वैद्यकेऽपि विद्वानासीदिति निधीयते / तेन च तत्रसंवलितबौद्धाध्यात्मग्रन्थास्तत्वप्रकाशादयोऽस्यैव तात्रिकबोधिसत्त्रनागार्जुनस्य भवितुमर्हन्ति / पाटलिपुत्रे
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy