SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः। लभ्यते दिवोदासस्य सुश्रुतस्य धन्वन्तर्यनुयायिनोऽपि नात्रोल्लेखोऽस्ति / तेन द्विवणीये परतन्त्रस्य समयमिति (पृ.८६) शल्यविषयस्य परतत्रीयत्वेनोपादानमपि धान्वन्तरं सम्प्रदायमुपस्थापयति / आत्रेयसंहितायाम् 'इति धन्वन्तरिः, धान्वन्तरं मतं, धान्वन्तराः' इति बहुशो धन्वन्तरेस्तत्सांप्रदायिकानां च पूर्वाचार्यत्वेन ससंमानं निर्देशनमस्ति, परं दिवोदासस्य सुश्रुतस्य च तत्रापि नाम स्पष्टं नोदृङ्कितम् / सुश्रुतेऽपि आत्रेयस्य कश्यपस्यापि न नामोल्लेखोऽस्तीति मारीचकश्यपात् पुनर्वसोरात्रेयाच्च धन्वन्तरेः पूर्वाचार्यत्वमवगम्यते / काश्यपीये धन्वन्तरिमानोल्लेखः, आत्रेयीये तु धन्वन्तरिसाम्प्रदायिकानामप्युल्लेख इति धन्वन्तरिसंप्रदायस्य बहुलीभावे सति आत्रेयपुनर्वसोरुदयः प्रतीयते / आत्रेयादपि धन्वन्तरेः पूर्वत्वे सति तदनुयायिन अग्निवेशाद्भेडाच्च धन्वन्तरेः पूर्वस्वं सुतरामेव / भेडसंहितायां चरकसंहितायामपि धान्वन्तरघृतादीनामुल्लेखोऽप्येतदेव स्पष्टयति / सुश्रुते शारीरस्थाने तृतीयाध्याये शौनककृतवीर्यपाराशर्यमार्कण्डेयसुभूतिगौतमानां प्राचीनतमानां पूर्वाचार्याणां निर्देशः / आत्रेयकाश्यपसंहितयोस्तु काङ्कायनादीनामपि पूर्वाचार्यत्वेन निर्देशोऽस्ति / डल्लनलेखादिवोदासान्तेवासितैया काङ्कायनस्याभ्युपगमः कस्यचिन्मतेन निर्दिष्टः / तथात्वे दिवोदासान्तेवासितया ज्ञातस्य काढायनस्य आत्रेयसंहितायां काश्यपसंहितायामपि निर्देशेन आने. यकाश्यपाभ्यां दिवोदासस्य धन्वन्तरेश्च पूर्वत्वं प्रगुणीभवति // भरद्वाजाद्धन्वन्तरेरायुर्वेदविद्यालाभस्य, दिवोदासेनापि भरद्वाजस्याश्रयणस्य हरिवंशे उल्लेखेन त्रिपुरुषान्तरिताभ्यां धन्वन्तरिदिवोदासाभ्यां सह सम्बद्धो भरद्वाज एकैव व्यक्तिरुत तद्गोत्रीयं व्यक्तिद्वयमिति नावधार्यते / चरकसंहिताय:मपि उपक्रमग्रन्थे भरद्वाजादात्रेयस्यायुर्वेदविद्यालाभः, उत्तरत्र वचन भरद्वाजमतस्यात्रेयेण प्रतिक्षेपः, वातकलाकलीये 'कुमारशिर' इति विशेषितस्य भरद्वाजस्य निर्देशः, काश्यपसंहितायां रोगाध्याये (पृ. 26) कृष्णभारद्वाजस्य निर्देश. नास्ति / तेनायुर्वेदविद्यायां नानाभरद्वाजानामाचार्यभावोऽवगम्यते / तदेवमेकेन तद्गोत्रगतविभिन्न व्यक्तिरूपेण वा भरद्वाजेन सह धन्वन्तरिमारीचकश्यपात्रेयपुनर्वसुदिवोदासानां नातिविप्रकृष्टकालिकः सम्बन्धः प्रतीयते / आत्रेयपुनर्वसुना मारीचकश्यपेन च गृह्यमाणो धन्वन्तरिः धन्वन्तरिसन्ततित्वेन तन्नाम्ना व्यवह्रियमाणो दिवोदासोऽपि भवितुं संभवतीति धान्वन्तरमतरूपेण दिवोदासमतनिर्देश इत्यपि वक्तुं शक्यते, तथाऽपि कश्यपेन स्वाहाकारदेवतारवेनापि धन्वन्तरेनिर्देशादात्रेयकश्यपाभ्यामुभाभ्यां काशिराजत्वेन प्रसिद्धस्य दिवोदासस्य ग्राहकं काशीपतित्वदिवोदासस्वादिकं कमपि विशेषमनिर्दिश्य केवलं धन्वन्तरिशब्दमात्रेण तस्य निर्देशनात् , महाभारतादिलेखतो धन्वन्तरेरष्टप्रस्थानाचार्यत्वेन तदीयसंहिताया अपि पूर्व सत्वावगमाच्च मूलधन्वन्तरिसंहितागतं विषयमेवाभिलक्ष्यात्रेयकश्यपाभ्यां धान्वन्तरमतमुपात्तं बहुशः सम्भवति / पूर्वोपदर्शितदृशा दिवोदासनृपेण सह संगताय गालवाय केवलं मारीचकाश्यपीयाश्रमनिर्देशनस्य महाभारते उपलम्भेन दिवोदाससमये मारीचस्य कश्यपस्यातीतत्वं, किंवा तदाश्रमे मारीचस्य कश्यपस्यापि सत्त्वमासीदित्यपि वक्तुं शक्यते / तेन धन्वन्तरेः पश्चादिवोदासात् पूर्व, किंवा दिवोदाससमये मारीचः काश्यप आसीत् / चरककाश्यपसंहितयोरात्रेयेण मारीचिकश्यपस्य, मारीचकश्यपेनात्रेयपुनर्वसोरुल्लेखेन, आत्रेयसंहितायां वातकलाकलीये मारीचिकश्यपात्रेयपुनर्वस्वोः संवादरूपोल्लेखस्योपलम्भेन, उभयत्र शब्दान्तरेण विशेषितस्याविशेषितस्य च भरद्वाजस्योल्लेखेन च, एषामाचार्याणामनतिविप्रकृष्टः समयो ग्रन्थमर्यादयाऽऽयाति // निर्माता सुश्रुताचार्यो विश्वामित्रपुत्र इति सुश्रुतसंहितायामेवोक्तमस्ति / चक्रदत्तेनापि सुश्रुतः तट्टीकायां तथैव निर्दिष्टमस्ति / महाभारतेऽपि विश्वामित्रस्य पुत्रेषु सुश्रुतस्य नामोपलभ्यते / ऋग्वेदे तत्तन्मत्राणां द्रष्टा रामाय धनुर्विद्योपदेष्टा च विश्वामित्रो महर्षिरन्य एवं प्राचीनतरः स्यात् / सुश्रुतस्य औपनिषत्कालिकदिवोदासशिष्यत्वेनोल्लेखेन, सुश्रुतसंहितायां कृष्णनामोपलम्भेन च दिवोदासवदौपनिषदे काले श्रीकृष्णोद्भवादुत्तरं जातस्य कश्यपात्रेयवद्ोत्रपरम्परागतस्य विश्वामित्रस्यात्मजोऽयं सुश्रुताचार्यः प्रतीयते / 1 सर्वानिवृत्तियुगपदिति धन्वन्तरिः (शा० 6.), दाहे धान्वन्तरीयाणामत्रापि भिषजां मतम् (चिकित्सा० 5.), इदं तु शल्यहर्तृणां (चि० 13.), ताः शल्यविद्भिः कुशलैश्चिकित्स्याः (चिकित्सा 6.) इत्यादि चरकसंहितायाम् / / "अन्ये तु-औपधेनवादयोऽष्टी, प्रभृतिग्रहणात् निमिकाङ्कायनगार्यगालवाः, एषमेतान् द्वादश शिष्यानाहुः" इति सुश्रुतसंहिताटीकायां उल्लनः (सू. अ. 1) / विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति (सुश्रुतसंहिता उ. तं. अ.६६)। विश्वमित्रसुतं शिष्यमृर्षि सुश्रुतमन्वशात् (सुश्रुतसंहिता चि. अ. 2) / 4 भथ परमकारुणिको विश्वामित्रसुतः सुश्रुतः शल्यप्रधानमायुर्वेदतत्रं प्रणेतुमारब्धवान् (चक्रदत्ते)। 5 आनुशासनिके पर्वणि 4 अध्याये। 6 महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि / तपसा तेजसा चापि प्रशाम्यध्वं शिवाय वै॥ (सुश्रुते. चिकित्सास्थाने. भ. 30) -
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy