SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः / एवमैतरेयकौषीतकिब्राह्मणसमययोरान्तरालिकोऽयं दिवोदास उपनिषत्कालिकोऽवगम्यमानः स्वप्रपितामहं धन्वन्तरि स्वस्मादपि प्राक्तनं निश्चाययति // मिलिन्दपबोनामके पौलीग्रन्थे B.C. द्वितीयशताब्दीगत मिलिन्द ( Menander King of Bactria) प्रति नागसेनस्योक्तौ "चिकित्सकानां पूर्वका आचार्याः" इत्युपक्रम्य कीर्तितेष्वाचार्येषु धन्वन्तरेरप्युपादानमस्ति / तत्र रोगोत्पत्तिनिदानस्वभावसमुत्थानचिकित्साक्रियादिवेत्राचार्यरूपेणोपादानात् , चिकित्सकानां पूर्वकाचार्या इति नागसेनेन स्वस्मात् पूर्ववर्त्याचार्यरूपेण चिकित्सकाचार्यभावेन तस्य निर्देशनाच्च एतनिर्दिष्टो धन्वन्तरिः महाभारतादिषु आयुर्वेदीयग्रन्थेष्वपि लभ्यमानः सुश्रुतसंहितायामाचार्यभावेन दृष्टो यः प्राचीनो धन्वन्तरिः स एवायमिति स्पष्टमवबुध्यते / किंवा अत्र कपिलनारदादिभिः सहोपादानेन धन्वन्तरिशब्दो मूलधन्वन्तरिमभिप्रेति / किञ्च B.C. द्वितीयतृतीयशताब्दीनिर्मितयोर्भरुचसाचीस्तूपयोः शिला चित्रलेखानां संवादेन, भरुचस्तूपे जातकानां नामतोऽप्युलेखेन च पालीजातकग्रन्थानां तदात्वेऽपि-सत्त्वं प्रसिद्धिश्च सिध्यति / B.C. चतुर्थशताब्द्यां वैशाल्यामुपजातायां बौद्धमहासभायामपि तेषां जातकग्रन्थानां प्रसिद्धिरासीदिति मेक्डोनलादयः पाश्चात्यविद्वद्वरा अपि वदन्ति / ग्रन्थप्रसिद्धेरप्येवंभावे ग्रन्थस्य ततः प्राक्तनत्वं तु सुतरामेव / तत्र अयोधरनााम्नि पालीजातके बुद्धस्यैकस्मिन् पूर्वजन्मनि राजपुत्रावस्थायां धर्मचर्यायै राज्ञोऽनुज्ञालब्धये धन्वन्तरिवैतरणभोजाख्यांश्चिकित्सकानामग्राहं गृहीत्वा ओषधिभिर्विषापहरणेन च लोकोपकारिणो धन्वन्तरिसदृशा विद्वांसोऽपि मृत्युमुखं प्रविष्टा इति मृत्योर्महिमानमुल्लिख्य दर्शितो धर्मानुरागस्तत्कथायां प्रदर्श्यते / तत्कथोल्लेखेन बुद्धस्य पूर्वजन्मावस्थायामपि धन्वन्तरिवैतरणभोजानामस्माल्लोकादप्यतीतत्वम् , इदमपि कतमस्मिन् पूर्वजन्मनीति बहुपूर्वत्वं ततो ज्ञायते / आर्यसूरीयजातकमालायामपि अयोगृहजातके व्याधिनाशकवैद्यवर्या धन्वन्तरिप्रभृतयोऽपि विनाशं गता इति धन्वन्तर्यादीनामतीतभावेन ससंमानं निर्देशोऽस्ति / आर्यसूरीयलेखे धन्वन्तरेरेव नाम गृहीतम् , अन्ये त्वाचार्याः प्रभृतिशब्देनैव गृहीताः / पालीलेखे तु धन्वन्तरिनाम्ना सह वैतरणभोजयोरपि चिकित्सकत्वेनोपादानमस्ति / सुश्रुतसंहितायां प्रारम्भवाक्ये धन्वन्तरिरूपदिवोदाससकाशाद्विद्यालब्धये समुपेतानामन्तेवासिनामुलेखे वैतरणस्यापि निर्देशोऽस्ति / तत्र सुश्रुतप्रभृतय उचुरिति प्रभृतिपदेन भोंजा. दीनां ग्रहणमिति डलणाचार्येण व्याख्यातमस्ति / मत्सकाशस्थे प्राचीने सुश्रुतस्य ताडपत्र पुस्तके तु 'औपधेनववैतरणौरअपौष्कलावतकरवीर्यगोपुररक्षितभोजसुश्रुतप्रभृतय ऊचुः' इति मूले एव वैतरणस्येव भोजस्यापि स्पष्टमुलेखोऽस्ति / अस्मिन् पालीजातकलेखे दिवोदासान्तेवासिनोवैतरणभोजयोः साहचर्येण तदुपात्तो धन्वन्तरिर्न मूलाचार्यः, अपितु धम्वन्तर्यवताररूपतया धन्वन्तरिशब्देन सुश्रुतसंहितायां व्यवहृतस्तद्वंशीयो दिवोदासः प्रतीयते / अत्र सुश्रुतादीनामन्येषामनुलेखेऽपि उपनिषत्काले दिवोदासस्योपलम्भेन, सुश्रुतसंहितायां दिवोदासस्य धम्वन्तरिरूपतया व्यवहरणादिवोदासात्मकस्य धन्वन्तरेरन्तेवासिनोवैतरणभोजयोः सुश्रुतसंहितोक्तयोः संवादेन, जातके निर्दिष्टस्य विषप्रतीकारविषयस्य सुश्रुतसंहितायां कल्पस्थाने संवादेन च भोजवैतरणाभ्यां सह निर्दिष्टानां सुश्रुतादीनामपि समानकालिकमन्तेवासित्वं सुश्रुतोक्तं संवदति / आग्नेयपुराणलेखतः सुश्रुतस्यापि आयुर्वेदविद्याग्रहणे धन्वन्तयन्तेवासित्वं स्थिरीभवति च। तदेवं दिवोदासरूपमवाप्तस्य धन्वन्तरेबौद्धजातकप्रन्थेभ्योऽप्यतिप्राचीनत्वेनोपलम्भात्तत्पूर्वपुरुषस्य मूलधन्वन्तरेस्ततोऽपि प्राग्भावः सुतरामेव // धन्वन्तरिक्षपणकामरसिंहेत्यादिश्लोकोक्तो विक्रमीयनवरत्नेष्वन्यतमो धन्वन्तरिरेव प्रसिद्धवैद्याचार्य इत्यपि कस्यचिम्मतमस्ति / परं पूर्वोक्तदिशा प्राचीनस्य वैद्याचार्यधन्वन्तरेरुपलम्भेन धन्वन्तरिनामसाम्यं तान्तयेऽजायत / नवरत्नेषु गणितो धन्वन्तरिः कविः, नास्य वैद्याचार्यत्वं कुतोऽप्यायाति // काश्यपसंहितायां शिष्योपक्रमणीयाध्याये (पृ.३९) होम्यदेवतानिर्देशे प्रजापत्यश्वीन्द्राणां, स्वीयतनपूर्वाचार्यस्य कश्यपस्येव, अभ्यादीननुल्लिख्य प्रस्थानान्तराचार्यस्य धन्वन्तरेरपि स्वाहाकारविधानेन धन्वन्तरेरुपादानं समादरचोप 1 भम्ते नागसेन, ये ते महेसु टिकिच्छकानां पुग्वका आचारिया, नारदो, धम्मन्तरि, अङ्गिरसो, कपिलो, कण्डरग्गिसामो, अतुलो, पुष्वकच्चायनो, सम्वे ये ते आचारिया स किं येव रोगुप्पत्तिं च निदानं च सभावं च समुत्थानं च टिकिच्छां च किरियां च सिद्धासिद्धां च सव्वान् तं निरवसेस जानित्वा इममिन् काय एतका रोगा उपजिसन्तीति एकापहारेन कलापग्गाई कारित्वा मुत्तं वन्धिम. असम्वन्नुनो पते सव्वे / (मिलिन्दपन्हो Pali Text Ed. by Trenckner P. 272). 2 आसीविसा कुपिता यं दसन्ति टिकिच्छका टीसं विसं दसन्ति / नमचनो दट्टविसं हनन्ति तं मे मति होति परामि धम्मम् / धम्मन्तरि वैतरणि च भोजो विसानि हत्वा च भुजङ्गमानम् / सूयन्ति ते कालकता तयेव (अयोधरजातके: 3 हत्वा विषाणि च तपोबलसिद्धमत्रा व्याधीनृणामुपशमय्य च वैद्यवर्याः / / धन्वन्तरिप्रभृतयोऽपि गता विनाश धर्माय मे नमति (भवति) तेन मतिर्वनान्ते // (आर्यसूरीये जातके।)
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy