SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः। काशीयुवराजस्य ब्रह्मदत्तस्य तक्षशिलायामायुर्वेदाध्ययनायोपगमनं जातकग्रन्थे, काशिराजपदमधितिष्ठता ब्रह्मदत्तेन सह जीवकस्य समागमवृत्तं महावग्गे उपलभ्यते / महावग्गे काशीशब्दोऽप्यस्ति, परं वाराणसीशब्दो बाहुल्येन प्रयुज्यते / बुद्धेनापि वाराणसीशब्दिते प्रदेशे धर्मचक्रस्य प्रवर्तनमुल्लिख्यते / जातकग्रन्थेष्वपि बहुशो वाराणसीशब्दः समायाति / पाणिनिना देशवाचकः कांशीशब्दः सूत्रे स्पष्टं निर्दिष्टः / नगरवाचको वाराणसीशब्दो नद्योदिगणे प्रवेशितो दृश्यते / भाष्यकृताऽपि वाराणसेय इत्युदाहरणं बहुशःप्रदत्तमस्ति / जाबालोपनिषदादिषु वाराणसीशब्दस्याप्युपलम्भेऽपि ब्राह्मणग्रन्थेषु प्राचीनोपनिषत्सु काशीशब्दस्योपलम्भसत्वेऽपि वाराणसीशब्दस्यानुपलम्भेन देशविशेषवाचकः काशीशब्दः पुराकालात् प्रचलितः, नगरी विशेषवाचको वाराणसीशब्दस्तु प्राचीनोपनिषत्समयादनन्तरमेव प्रसिद्धिमुपगत इत्यवगम्यते / पुराणादिषु काशीवाराणसीशब्दावुभावेवोपलभ्यते / इतिहासपर्यालोचने बुद्धसमयादनु कदाचित्कोशलनृपतिभिः, कदाचिन्मागधैः शिशुनागैः, तदनु मौर्यशुङ्गगुप्तनृपतिभिः, हर्षवर्धनेनापि वाराणस्या विजयस्येतिहासा उपलभ्यन्ते / तत्तदीयनृपाणामितिवृत्तानुसंधाने धन्वन्तरिदिवोदासप्रतर्दनानां नामान्याक्समये नोपलभ्यन्ते / प्रत्युत वार्तिककृतो "दिवश्व दासे' इति दिवोदाससाधनस्य महाभाष्यकृतो 'दिवोदासाय गायते' इति निदर्शनस्य दर्शनेन, कौषीतकिब्राह्मणे तदुपनिषदि ऋक्सानुक्रमसूत्रेऽपि दैवोदासेः प्रतर्दनस्य, काठकसंहिताया ब्राह्मणभागवाक्ये भैमसे. नेर्दिवोदासस्योल्लेखेन, एतत्संवादिनः महाभारतहरिवंशयोः वैद्यविद्याचार्यधन्वन्तरिप्रपौत्रस्य वाराणसीनिवेशकस्य प्रतर्दनपितुरलर्कप्रपितामहस्य दिवोदासस्य कलियुगीनस्योपलम्भेन च दिवोदासस्य समयः कलियुगे ऐतरेयब्राह्मणकाले काठकब्राह्मणस्य कौषीतकिब्राह्मणस्य तदुपनिषदश्च समयेन सन्निकृष्टः किश्चित्पूर्वतनो वा इत्यायाति // कौषीतकिब्राह्मणस्य समयविचारे श्वेतकेतोरारुणेर्नाम्नः कथान्तराणां च संवादेन कौषीतक्युपनिषदो बृहदारण्यकस्य च समः समय इति पाश्चात्य विदुषा वेबरमहाशयेन निर्दिष्टमस्ति / श्रीयुतविन्टरनिजविदुषोऽप्यन्त्र समान एवाभिप्रायः / तेन कौषीतकिब्राह्मणमैतरेयब्राह्मणात् पश्चात्तनमङ्गीक्रियते / श्रीयुतचिन्तामणिवैद्यमहाशयस्तु ऐतरेयब्राह्मणे (7.11) कौषीतकिब्राह्मणवाक्योद्धारो दृश्यते, वेबरमहोदयेन विनैव साधनं तस्य तत्र प्रक्षिप्तत्वमुच्यते; तेनैतरेय ब्राह्मणात् पूर्वतनं कौषीतकिब्राह्मणं B.C. 2500 सामयिकमिति साधयति / एस्. बी. दीक्षितमहाशयो ज्योतिषगणनाधारण B.C. 2900.1850 एतदन्तरालं समयं कौषीतकिब्राह्मणस्य दर्शयति / कौषीतकिब्राह्मणस्य (17-4) यास्कनिरुक्ते (1-9) उपादानात्, त्रिंशदध्यायात्मकस्य कौषीतकिब्राह्मणस्य "त्रिंशचत्वारिंशतो ब्राह्मणे संज्ञायां डण्" (5-1-62) इति सूत्रे कौषीतकिपूर्वपुरुषस्य कुषीतकस्य "विकर्णकुषीतकात् काश्यपे" (4-4-124) इति सूत्रे पाणिनिना प्रहणाच कौषीतकिब्राह्मणं पाणिनेर्यास्कादपि प्राचीनमिति श्रीयुतकीर्थमहाशयोऽपि वदति / पाणिनेः समय.विचारे मनश्रीमूलकल्पाधारेण लिखिते इतिहासे जायसवालमहोदयः B.C. 366-338 पाणिनेः समय इति, मम्ये केचन B.C. 400 इति वदन्ति / परं पाणिनीये वेदवेदाङ्गसंप्रदायप्रवर्तकर्षिदेशनगरप्रामनदनदीप्रभूत्युल्लेखसम्भृते गौतमबुद्धमहावीरसंप्रदायसम्बन्धिन एकस्यापि विषयस्यालामेन श्रीयुतबुद्धमहावीराभ्यां प्राक् (B.C. 700-800) पाणिनिसमय इति बहून् समयानेतद्विषये निमज्य विचार प्रकटीकुर्वतो गोल्डस्टूकरमहोदयस्य सिद्धान्तः। श्रीयुतमेकैवल्करमहाशयस्य श्रीयुतभीण्डारकरमहापायस्याप्येवंप्रायोऽभिप्रायः। श्रीयुतचिन्तामणिविनायकैः B.C.900 समयो निर्दिष्टोऽखि / एवं विभिन्नमतानां दर्शनेऽपि पाणिनिना ततोऽपि पूर्वतनेन यास्केन च गृह्यमाणं ततोऽपि पूर्वत कौषीतकिग्रामणं बहुपूर्वसमयकत्वेन प्रतिभासमानमप्यन्ततो गत्वा बुद्धसमयानार्वा गित्यत्र सर्वेषामैकमत्यमेव / काश्यादिभ्यमिठौ 4 // 2 / 116 / नयादिभ्यो उक् 4 / 2 / 97 वाराणसेयः / गावति' इति काशिका / .4 प्रसेनानीबतुर्विशतिदवोदासिः प्रतर्दनः (कात्यायनीयऋक्सर्वानुक्रमण्यां सं. 52) 5.History of Indian Literature by Weber P. 52. History of Indian Literature by Winternitz. 7 History of Sanskrit Literature by o. V. Vaidya. History of Indian Astronomy by 8. B. Dikshit. Rigveda Brahmanas Translated by Keith p. 42, 10. An Imperial History of India by K. P. Jayaswal p. 15. & Papini his place in Sanskrit Literature by Goldstuoker, 12Bystems of Sanskrit Grammar bys. K. Belvalkar. History of the Deccan by Bhandarkar. 14 History of Banskrit Literature Vedio period byO. V. Vaidyap.129,
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy