SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः / दिन एव विषया दृश्यन्ते / तत्र दिवोदासस्य पूर्वपुरुषेषु अन्तरावरागवानि व्यक्त्यन्तराणि अन्तर्निधाय प्रसिद्धतया इष्टानां हर्यश्वादीनामेव नामोल्लेखः प्रतीयते / अग्निपुराणे (भ. 278) गरुडपुराणेऽपि (भ. 139, श्लो. 8-11) वैद्यख धन्वन्तरेवंशे चतुर्थों दिवोदासः कीर्तितोऽस्ति // महाभारते समुद्रमथनोपाख्याने धन्वन्तरेदेवस्थाविर्भावोठेखोऽस्ति / पुराणादिष्वपि धन्वन्तरेनिर्देश उपलभ्यते। आग्नेयपुराणे समुद्रादुत्पन्नस्य धन्वन्तरेरायुर्वेदप्रदर्शकत्वेनापि निर्देशोऽस्ति / परं वेदे धन्वन्तरेरुल्लेखानुपलम्भेन, हरिवंशे समुद्रमथमादाविर्भूतस्याब्जदेवस्य धन्वनृपपुत्रतयाऽवतरणे यौगिकेन धन्वन्तरिनाम्ना व्यवहारस्य दर्शनेन चोभयोः सामनेऽब्जस्यैव धन्वन्तरिभावेन द्वयोरभेदमनुसन्धाय समुद्रादुत्पत्तेः प्रसङ्गे देवस्थाब्जस्यापि भाविना धन्वन्तरिनाम्ना कचन व्यवहारः कृतः किमु इति प्रतिभाति / येन वैद्याचार्यस्य दिवोदासपूर्वपुरुषस्य धन्वन्तरेरब्जदेवरूपतया लौकिकैस्तैर्थिकैश्च देवभावेन व्यवहरणमपि युज्यते। अस्मिन् दिवोदासे भरद्वाजसम्बन्धस्य, वाराणसीनिवेशनस्य, पुत्रस्य प्रतर्दननानश्च संवादेन हरिवंशोक्तस्य भारतोकस्य चैक्यमवगन्तुं शक्यते / कौषीतकि(साड्यायन ब्राह्मणे कौषीतकिब्राह्मणोपनिषद्यपि दैवोदासिः प्रतर्दन इति शब्दनिर्देशेन दिवोदासपुत्रस्य प्रतर्दनस्य ब्रह्मविद्यालब्धेराख्यायिका दृश्यते / काठकसंहितायामपि ब्राह्मणांशे भारुणिसमकालिकस्य भैमसेनेर्दिवोदासस्योल्लेख उपलभ्यते // एवं दर्शनेन काशनृपतिसन्ततिरूपाः सर्वेऽप्यमी काशनृपेण प्रतिष्ठापिततया किल काशिनाना प्रसिद्धस्य देशस्य नृपतितया काशिराजशब्देन कीर्तिताः, धन्वनृपस्य पुत्रतया तदात्मजस्य धन्वन्तरिनाना व्यवहार, भात्रेयादीनामिव पूर्वाचार्यादरद्वाजादेव धन्वन्तरेरपि आयुर्वेद विद्यालाभो हरिवंशलेखात् प्रतीयते / महाभारतहरिवंशादिलेखे धन्वन्तरेः प्रपौत्रस्य दिवोदासस्य काशिराजस्य वैद्यविद्याचार्यत्वाकीर्तनेऽपि सुश्रुते काशिराजस्य दिवोदासस्य सुश्रुताधुपदेष्ठत्वोल्ले. खसंवादेन च वैचाचार्यस्य धन्वन्तरेः सनिकृष्टचतुर्थसन्ततित्वेन पूर्वपुरुषविद्यासमादरणेन दिवोदासस्यापि धैवविद्याचार्यभावः सुसङ्गत एव / धन्वन्तरेः सन्निकृष्टसन्ततित्वेन, तदीयसंप्रदायप्रकाशकत्वेन धन्वन्तरिस्थानापनतया धन्वन्तरेरवताररूपत्वेन संमान्य सुश्रुतसंहितायां "धन्वन्तरि दिवोदासं सुश्रुतप्रभृतय ऊचुः" (सू. भ. 1) इति / द्वयोरौपचारिकोऽभेदव्यवहारो न खल्वनुचितः / आयुर्वेदाचार्यत्वेनावगतस्य धन्वन्तरेः प्रपौत्रो दिवोदासः, सुश्रुते चायुर्वेदोपदेष्टा धन्वन्तर्यवताररूपो दिवोदास इत्युभयोः सङ्गमनेन धन्वन्तरेरायुर्वेदीयसम्प्रदायः शिष्यपरम्परायामिव खसन्ततौ दिवोदासेऽपि भनुवृत्तः स्पष्टं प्रतीयते / मत्सकाशस्थतार्डपत्रीये सुश्रुतसंहितापुस्तके सर्वादौ 'इत्युवाची भगवान धन्वन्तरिः' इति वाक्यं नास्ति / धन्वन्तरिदिवोदाससकाशे सुश्रुतादीनामुपगमोल्लेखात् पूर्व ताशवाक्यस्य सत्वमपि नोचितं दृश्यते // पूर्वोद्दिष्टे हरिवंशलेखे कलियुगे दिवोदासेन वाराणस्याः प्रतिष्ठापनोच्या धन्वन्तरेखप्रपौत्रस्य दिवोदासस्य च . समयः कलियुगीनः प्रतीयते / कतमश्च स कलियुगसमय इति ततः परिच्छे तुं न.शक्यते // 1 धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत / ग्वतं कमण्डलु बिभ्रदमृतं यत्र तिष्ठति // (आदिपर्वणि अ० 16) 2 ततो धन्वन्तरिविष्णुरायुर्वेदप्रदर्शकः / विनकमण्डलु पूर्णममृतेन समुत्थितः // (अग्निपुराणे 3 अ.) 3 अथ ह माह दैवोदासिः प्रतर्दनो नैमिषीयाणां सत्रमुपगम्योपास्य ...विचिकित्सा पप्रच्छ / (कौषीतकिबामणे 26-5) 4 प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम / (कौषीतक्युपनिषदि 3-1) 5 दिवोदासो भैमसैनिरारुणिमुवाच (काठकसंहिता 7-1-8) / 6 अस्मिन् पुस्तके बहवः पाठभेदा दृश्यन्ते / तत्संहितान्ते सौश्रुतो निघण्टुरप्यस्त्रि / एतत् पुस्तकपाठसंवादेन सह सुश्रुत संहिताया:संस्करणान्तरमिदानीं श्रीमदाप्ततमयादवजीमहाभागैः प्रकाश्यते // * मुश्रुते तु धन्वन्तरेरिन्द्रादेवायुर्वेदाध्ययनमुपवर्णित; यथा-"ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे, प्रजापतेरश्विनौ, अश्विभ्यामिन्द्रः, इन्द्रादह, मया विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः / भवति चात्र-अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् / शस्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गा भूय इहोपदेष्टुम्" (सू. अ.१) इति / एतच्च समुद्रमन्थनादुत्पन्नस्याजदेवस्य तदवताररूपस्य धन्वन्तरेश्चामेदमनुसन्धाय कृतमिति ज्ञायते / चरके यथा भरद्वाजस्य भृग्वगिरोत्रिप्रभृतीनां च भायुर्वेदाध्ययनार्थमिन्द्रसकाशे गमनमुपवर्ण्यते न तथा कापि काशिराजस्य धन्वन्तरेरिन्द्रसमीपे गमनमुपवाणितं दृश्यते / मनुष्यरूपेणावतीर्णस्य धन्वन्तरेभरद्वाजादायुर्वेदा. ध्ययनमपि संभवति / यादवशर्मा / + उपलभ्यमानान्यपुस्तकेषु 'यथोवाच भगवान् धन्वन्तरिः' इत्येव पाठ उपलभ्यते / अस्य च सूत्रस्य शिष्यसूत्रत्वं प्रतिपादित चक्रपाणिदत्तादिभिः / अतोऽस्य अन्यादौ निवेशनं न खल्वनुचितम् / यादवशर्मा / .
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy