SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः। "सुश्रुतसंहितायां धन्वन्तरिरूपेण काशिराजेन दिवोदासेन सुश्रुतस्योपदेशनं निर्दिष्टमस्ति / धन्वन्तरेर्दिवोदासस्य परिचयाय पर्यालोचने वेदेषु वैद्याचार्यस्य धन्वन्तरेरल्लेखो न श्यते / ऋजाश्रेष यन्त्र वैद्यकधन्वन्तरि विषया दृश्यन्ते तत्र विशेषतो देवभिषजोरश्विनोरेव भिषग्भावेनोपवर्णनं लभ्यते / ऋग्वेदे दिवोदासश्च प्रथममण्डलादिषु बहुषु स्थानेषु दिवोदासनाम्नो नृपस्योल्लेखोऽस्ति / वैदिके तदुपवर्णने 'अतिथिग्वः प्रथममण्डलादिषुबहुषु स्थान शम्बरशत्रुः सुदासपिता' इत्यादयो विशेषाः शौर्यवीर्यकर्माणि चोपलभ्यन्ते / काठकसंहितायामपि मनभागे बनश्वदिवोदासस्योल्लेखोऽस्ति / भस्य वैदिकदिवोदासस्य काश्या राजवं धन्वन्तरिणा सह सम्बन्धश्च न ततः प्रतीयते / तेनास्य ऋग्वेदोल्लिखितस्य काठकोल्लिखितस्य च दिवोदासस्य अतिप्राचीनः कालः, न वाऽयं वैचाचार्यः / पौराणिकेतिहासेष्वप्यनेके दिवोदासनामान उपलभ्यन्ते / तेषु हरिवंशे 29 अध्याये काशस्य वंशे धन्वन्तरेर्दिवोदासस्य च काशिराजत्वेनोपलम्भोऽस्ति / तद्वंशानुक्रमश्वेत्थम् काशः दीर्घतपाः धन्वः धन्वन्तरिः केतुमान भीमरथः (भीमसेनः) दिवोदासः प्रतर्दनः वत्सः अलर्कः भन्न काशपौत्रो धन्वनामा नृपः समुद्रमथनोत्पन्नस्थाजनान्नो देवस्याराधनेन धन्वन्तरिनामानमब्जावताररूपं पुत्रमवाप / स धम्वन्तरिभरद्वाजादायुर्वेदविचोपदेशमादाय तद्विज्ञानमष्टधा व्यस्य शिष्येभ्य उपादिशत् / अस्य प्रपौत्रो दिवोदासोपाराणसी नगरी निवेशयामास / दिवोदासस्य पुत्रः प्रतर्दनोऽभवत् / दिवोदाससमये शून्यां वाराणसी प्रतर्दनस्य पौत्रोऽलकों नाम काशिराजः पुनर्निवेशयामासेति हरिवंशलेखादवगम्यते / हरिवंशलेखे शून्याया वाराणस्या दिवोदासेन स्थापनस्योल्लेखेन वाराणस्यास्ततः पूर्वमपि सत्वावगमेऽपि महाभारतानुशासनपर्वलेखादिवोदासेनैव वाराणस्या निर्माणमवगम्यते // महाभारतेऽपि चतुर्यु स्थानेषु दिवोदासस्य नामास्ति / महाभारतलेखादपि दिवोदासस्य काशीपतित्वं, वाराणसी. प्रतिष्ठापकत्वं, हैहयेभ्यः पराजये भरद्वाजशरणगमनं, तद्विहितपुत्रेष्ट्या प्रतर्दननामकवीरपुत्रोत्पादनमित्यादय एतत्संवा 1 हरिवंशस्य वाराणस्यां गोविन्दचन्द्रविजयराज्ये 1201 संवत्सरे लिखितं प्राचीनं ताडपत्रपुस्तकमसत्संग्रहालयेऽस्ति, तदीयपाठसंवादेऽप्ययमेव वंशानुक्रम आयाति / 2 तेन वारणारनामकः कश्चन वाराणसी निर्ममे इति प्रवादो निर्मूलः / (हिन्दी विश्वकोशे काशी-शब्द) 3 सौदेवरस्वथ काशीशो दिवोदासोऽभ्यषिच्यत / दिवोदासस्तु विज्ञाय वीर्य तेषां यतास्मनाम् // वाराणसी महातेजा निर्ममे शक्रशासनात् / अनुशासनपर्वणि अ. 29 / 4 उद्योगपर्वणि अ. 117, आनुशासनिके दानधर्मप्रकरणे अ. 29, राजधर्मप्रकरणे अ. 96, आदिपर्वणि च / 5 महाबलो महावीर्यः काशीनामीश्वरः प्रभुः। दिवोदास इति ख्यातो भैमसेनिनराधिपः // (उद्योगे अ० 117)
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy