SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः। भागवतपुराणेऽपि "काशस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतपः पिता / धन्वन्तरिदैर्घतप आयुर्वेदप्रवर्तकः // यज्ञभुग्वासुदेवांशः स्मृतमात्रार्तिनाशनः / तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः // दिवोदासो घुमांस्तस्मात् प्रतर्दन इति स्मृतः” / (भागवत स्कन्ध 9 अ. 17) अत्र हरिवंशे विष्णुपुराणादा चोक्तं भगवतो धन्वन्तरेयज्ञभागभुक्त्वं गाते वैश्वदेवहोमे एवं दृश्यते / तथा च भगवान् मनुः-- "अमेः सोमस्य चैवादौ तयोश्चैव समस्तयोः / विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च” // इति / (मनुस्मृति अ. 3) श्रौतयज्ञेषु तु धन्वन्तरेहविर्भाक्त्वं नोपलभ्यते / अत्र सुश्रुतादिभ्य आयुर्वेदोपदेष्टा धन्वन्तरिः, तत्प्रपौत्रो दिवोदासो वेत्यत्र दृश्यन्ते सुश्रुतव्याख्यातॄणां विभिन्नानि मतानि / तत्र धन्वन्तरिशब्दस्य दिवोदासविशेषणत्वं यौगिकत्वं चाङ्गीकृत्य दिवोदास एव सुश्रुतादिभ्य आयुर्वेदोपदेष्टेति व्याख्यातं डहणेन / यथा— "काशिराजानामनेकत्वाद्विशेषणमाहदिवोदासमिति / दिविति शब्देनात्र तत्स्थानस्था देवाः कथ्यन्ते, तैः पूजाकाम्यया संप्रदीयते यस्मै स दिवोदासः, तम् / सर्वजनप्रसिद्धं विशेषणमाह-धन्वन्तरिमिति / धनुः शल्यशास्त्रं, तस्य अन्तं पारम् , इयर्ति गच्छतीति धन्वन्तरिः" इति / सुश्रुतार्थसंदीपनव्याख्याकारेण कविराजहाराणचन्द्रेण तु दिवोदाशशब्दस्य धन्वन्तरिविशेषणत्वं यौगिकत्वं चाङ्गीकृत्य धन्वन्तरिरेवायुर्वेदोपदेष्टेति व्याख्यातं; यथा-"काशिराजस्यापत्यमित्यणि काशिराजपौत्रमित्यर्थः / एतेन पूर्वजन्मनि य एव विष्णोरंशांशसंभूतो धन्वन्तरिः स एवायमिति विज्ञापितम् / ...... दिवोदाशमिति द्युशब्देनात्रोपचारादिवि स्थिता देवा उच्यन्ते / दाशस्तु 'दाशन्त्यस्मै' इति “दाशगोप्नौ संप्रदाने" (पा. अ. 3 / 4 / 73) इति निपात्यते / ततः समासे षष्ठ्या अलुक् / एतेनायं देवानामपि संप्रदानमित्युपलब्धेरतिपूज्यतमत्वेन सर्वथाऽस्य वचनं प्रामाणिकमिति सूचितम् / कैश्चित्तु दिवोदासमिति दन्त्यान्तं पठ्यते, व्याख्यायते च-संज्ञान्तरमिदमिति / तदयुक्तं, तस्य धन्वन्तरिप्रपौत्रत्वेनाभिधानात्” इति / ____ सुश्रुतसंहितायां पूर्वतन्त्रे प्रारम्भे एव दिवोदास(शं) 'धन्वन्तरिं' इति नामद्वयमुपलभ्यते, अन्यत्र तु धन्वन्तरेरेव नामोपात्तं न तु दिवोदासस्य; उत्तरतन्त्रेऽन्तिमेऽध्याये तु दिवोदासस्यैव नामोपात्तं, न धन्वन्तरेः / येषु पुराणेषु धन्वन्तरेर्दिवोदासस्य चेतिवृत्तमुपलभ्यते तेषु सर्वेष्वपि धन्वन्तरेरेवायुर्वेदोपदेष्टुत्वं वर्ण्यते, न तु धन्वन्तरिप्रपौत्रस्य दिवोदासस्य / अतो बलवत्तरान्यप्रमाणोपलब्धि यावत् सुश्रुतादिस्य आयुर्वेदोपदेष्टा धन्वन्तरिरेव दिवोदास एव वेति निश्चयेन वक्तुं दुःशकमेव / ___ अधुना सुश्रुततन्त्रस्य निर्माणकालादिकमधिकृत्य काश्यपसंहितायाः (वृद्धजीवकीयतन्त्रस्य) उपोद्वाते नेपालराजगुरुभिः पण्डितवर्यैः श्रीहेमराजशर्मभिर्यदतिविस्तरेण लिखितं तदेवात्राविकलमुद्भियते
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy