________________ उपोद्धातः / "अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराज दिवोदास(शं) धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः // __ (सू. अ. 1) अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् / शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् / / (सू. अ. 1) धन्वन्तरि धर्मभृतां वरिष्ठममृतोद्भवम् / चरणावुपसंगृह्य सुश्रुतः परिपृच्छति // (नि. अ. 1) धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः / सुश्रुतप्रभृतीच्छिष्याञ्छशासाहतशासनः // (क. अ. 1) अष्टाङ्गवेदविद्वांसं दिवोदास(शं) महौजसम् / छिन्नशास्त्रार्थसंदेहं सूक्ष्मागाधागमोदधिम् // विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति // " इति / (उ. तं. अ. 662) अधुना भगवतो धन्वन्तरेरुत्पत्तिविषये महाभारत-विष्णुपुराण-भागवतपुराण-वायुपुराणादिषु यदितिवृत्तमुपलभ्यते तल्लिख्यते / वेदेषु संहिताभागे ब्राह्मणभागे वा धन्वन्तरेरुल्लेखो न दृश्यते / महाभारतपुराणादिषु पुरा देवासुरैरमृतार्थ मथ्यमाने समुद्रे भगवतो धन्वन्तरेरयोनिजा उत्पत्तिः संजातेति वर्ण्यते / यथा महाभारते"धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत / श्वेतं कमण्डलु बिप्रदमृतं यत्र तिष्ठति” // (महाभारत आ. प. अ. 16) विष्णुपुराणेऽपि"ततो धन्वन्तरिदेवः श्वेताम्बरधरः खयम् / बिभत् कमण्डलु पूर्णममृतस्य समुत्थितः" // (विष्णुपुराण प्र. अं. अ. 9) भागवत पुराणे तु धन्वन्तरेर्विष्णोरंशांशसंभवत्वमायुर्वेददृष्टत्वं चोक्तं ; यथा "अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः / उदतिष्ठन् महाराज पुरुषः परमाद्भुतः // दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः / श्यामलस्तरुणः सम्वी सर्वाभरणभूषितः // पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः / स्निग्धकुञ्चितकेशायः सुभगः सिंहविक्रमः // अमृतापूर्णकलशं बिश्रद्वलयभूषितः / स वै भगवतः साक्षाद्विष्णोरंशांशसंभवः / धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् // " (भागवत स्कं. 8 अ..) अमिपुराणेऽपि भगवतो धन्वन्तरेरायुर्वेदप्रवर्तकत्वमुक्त; यथा"ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः / श्वेतं कमण्डलं पूर्णममृतेन समुत्थितः" // (अग्निपुराण भ.३) अयमेव देवो धन्वन्तरिः काशस्य-वंश्येन धन्धनृपेणाराधितस्तगृहे पुत्ररूपेणावतीर्ण इति हरिवंशवायुपुराण-ब्रमाण्डपुराणेषु लिखितं दृश्यते / यथा