SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः / पृथिव्यामितरदेशेभ्यो बहुकालात् पूर्वमेव भारतवर्षे चिकित्साशास्त्रमासीत् समुन्नतिपथारूढमितीतिहासविदां मतम् / अतिप्राचीनेषु वेदेष्वपि समुपलभ्यन्ते बहवश्चिकित्साशास्त्रविषयाः / त्रिचतुःसहस्रवत्सरेभ्यः पूर्वमेव कायचिकित्सा-शल्य-शालाक्य- कौमारभृत्यागदतन्त्र-भूतविद्या-रसायन-वाजीकरणाख्यैरष्टभिः प्रधानाङ्गैः प्रविभज्यायुर्वेदं सर्वेप्वप्यङ्गेषु बहूनि तन्त्राणि विरचितान्यासन् परमकारुणिकैराप्ततमैर्महर्षिभिः / संप्रति समुपलभ्यमानेषु डल्हण-चक्रपाणिदत्तारुणदत्त-विजयरक्षित-शिवदाससेनेन्दु-हेमाद्रिप्रभृतीनां व्याख्याग्रन्थेषु टोडरानन्दप्रभृतिषु संग्रहग्रन्थेषु च समुपलभ्यन्ते प्रमाणतयोपन्यस्तानां बहूनामार्षतन्त्राणां तन्त्रकर्तृणां च नामानि / तेषां समये समुपलभ्यमानान्यप्येतानि तन्त्राणि अस्माकं दैवदुर्विपाकवशात् संप्रति नाममात्रशेषाणि संवृत्तानि / तेभ्यः कायचिकित्साप्रधानं चरकप्रतिसंस्कृतमग्निवेशतन्त्रं, शल्यचिकित्साप्रधानं सुश्रुततन्त्रं चेत्यार्षतन्त्रद्वयमेव संप्रति संपूर्ण समुपलभ्यते / भेल(ड)तन्त्रमप्यधुना समुपलभ्यते कलकत्ताविश्वविद्यालयद्वारा प्रसिद्धीभूतं, परं तद्बहुषु स्थलेषु अन्तराऽन्तरा त्रुटितांशबहुलं मुद्रणदोषबहुलं च / संप्रति कौमारभृत्यविषये भगवता मारिचकश्यपेनोपदिष्टं, तच्छिष्येण वृद्धजीवकेन विरचितं, तद्वंश्येन वात्स्येन प्रतिसंस्कृतं वृद्धजीवकीयं तन्नं समुपलब्धं नेपालदेशात् नेपालराजगुरूणां पण्डितवर्याणां श्रीहेमराजशर्मणां ग्रन्थसंग्रहात् / इदमपि तन्नमर्धाधिकं खण्डितमेव / तथाऽप्यस्य यावानंश उपलब्धस्तावानेव नेपालग्रन्थमालायाः प्रथमस्तबकरूपेण मुद्रापयित्वा प्रसिद्धिं नीतो मया / - वाग्भटसमये समुपलभ्यमानेष्वपि बहुष्वार्षायुर्वेदतन्त्रेषु पठनपाठनयोश्चरकसुश्रुतयोरेवासीद्विशेषतः प्रचार इति "ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ / भेडा(ला)द्याः किं न पठ्यन्ते तस्माद्ब्राह्यं सुभाषितम्" // (अष्टाङ्गहृदय-उत्तरतन्त्र अ०४०) इत्यमाद्वाग्भटवचनात् प्रतीयते / / श्रीहर्षकविरपि खविरचिते नैषधचरिताख्ये महाकाव्ये"कन्यान्तःपुरबाधनाय यदधीकारान्न दोषा नृपं द्वौ मत्रिप्रवरश्च तुल्यमगदकारश्च तावूचतुः / देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्थादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः" // (नै. च. सर्ग, श्लो. 116) इत्यस्मिन् पद्येऽधीतचरकसुश्रुतयोरेवागद कारत्वं (सुवैद्यत्वं) कथयन् चरकसुश्रुततन्त्रयोरेव खसमये पठपाठनप्रचाराधिक्यं ख्यापयति / ___ अनयोरपि अष्टाङ्गप्रतिपादकत्वेन, नातिसंक्षेपविस्तरत्वेन, विशदार्थत्वेन च सुश्रुततन्त्रमेव घरकतत्रापेक्षया विशेषत उपयुक्तं भिषजामित्यत्र नास्ति संदेहः / तन्त्रमेतत् काशिराजेन भगवता धन्वन्तरिणोपदिष्टं, तच्छिष्येण विश्वामित्रसुतेन सुश्रुतेन विरचितमिति मूलमन्थत एव प्रतीयते / यथा 1 विस्तरशस्तु काश्यपसंहिताया उपोद्धाते 7-12 पृष्ठेषु द्रष्टव्याः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy