________________ 1 अङ्कः) कंसवधम् / 13 तथापि दुरुपश्रुतिश्रवर्णसंभवशङ्कापिशाचिका किमप्युत्तरलयति मे चेतः / तथा हि / . रिपुरिति दुरुपश्रुतिः श्रुतिं मे व्यथयति यद्ययथातथं तथापि / जलधररसितं प्रकोपहेतुर्भवति हि बृंहितशङ्कया मृगारेः / / 38 / / महामात्यः-महाराज, कासौ दुरुपश्रुतिः / . (कंसः ‘यस्ते मदं दमयिता' इत्यादि पठति / ) महामात्यः-(स्वगतम् / ) नैषा मृषा भवितुमर्हति देववाणी नाणीयसीमपि नृपोऽर्हति हन्त चिन्ताम् / किं संप्रति प्रतिविधेयमिह प्रतीपे दैवे प्रयुक्तमखिलं खिलतां प्रयाति // 39 // भवतु तावत् / (प्रकाशम् / ) महाराज, अलमनया चिन्तया / यतः / दौडुरेषु चतुरङ्गबलाधिकेषु भ्रूभङ्गमात्रपरिनिर्जितनिर्जरेषु / त्वत्पादमूलपरिवर्तिषु मादृशेषु / नामापि शत्रुरिति हन्त कुतः प्रसिद्धम् // 40 // गा चेयं दुरुपश्रुतिरित्युदाहृता देवेन तन्न किंचिदेतत् / यतः / पदे पदे प्रस्खलता मोहोपहतचेतसाम् / सुरोपजीविनामित्थं प्रलापा नहि दुर्लभाः // 41 // अन्यच्च विज्ञापयामि-भूतार्थमेतदुदाहृतं देवस्य / नीतिशास्त्रं पुनरन्याहशम् / तथा हि / नावज्ञेयो रिपुरिति लघुः क्षीणसत्त्वोऽपि विज्ञै हन्तारण्यं दहति शनकैः संचिताङ्गः स्फुलिङ्गः / किं च न्यश्चन्निभृतनिभृताकुञ्चिताङ्गो बिडालः ___ कालापेक्षी असति सहसालक्षितोत्फालमाखुम् // 42 // 1. 'श्रवणशङ्कापिशाची' इति क-पाठः. 2. व्यर्थत्वमित्यर्थः. 3. 'न नः' इति कपाठः. 4. सुराया मद्यस्य; (पक्षे) सुराणों देवानाम्.