________________ काव्यमाला। न च संप्रत्यव्यञ्जितविक्रिया इति विस्मृतवैराः संभावयितुमर्हाः / नीतिर्हि तादृशी भविष्णूनाम् / यदुदाहरन्ति 'कौम संकोचमास्थाय प्रहारमपि मर्षयेत् / प्राप्ते तु काले नीतिज्ञ उत्तिष्ठेत्कालसर्पवत्' // 43 // इति विशेषतश्च न बहुशोऽपक्रियमाणा विश्वसनीयाः / अविश्रमो हि वैरनि र्यातनाधिकारः / तथा हि। उदितमुदितं हन्ति ध्वान्तं सहस्रकरः करै निहतनिहतं भूयो भूयस्तमः परिजृम्भते / विरमति तमो नेदं नायं निषीदति भानुमा _न खलु विकसबेरा धीराः कथंचिदुदासते // 44 // * तदत्रावश्यमकुतोभयेनापि संनिहितात्याहितेनेव देवेनावहितेन भवितव्यम् / यतः। क्रूराः केसरिणस्तुषारशिखरिद्रोणीषु संशेरते नागेन्द्रा अपि संचरन्ति विकटे विन्ध्याटवीकोटरे / धत्तेऽसौ भुजगेश्वरोऽपि धरणिं पातालमूले वस प्रायः पौरुषभूषणा नयविदो जातु प्रमाद्यन्ति न // 45 // कंसः-एवमेतत् / किं तु चिन्तयामि, कथममी प्रच्छन्नकौलिकाः कपटपटवः सर्व एकपद एव सुनिग्रहा इति / महामात्यः-(चिरं विचिन्त्य / ) महाराज, यज्ञायत्तं जीवितं देवतानां यज्ञाः साङ्गा ब्राह्मणेष्वायतन्ते / ते चाप्येते धर्मकर्मैकमूला मूले छिन्नेऽस्तैव वार्तामराणाम् // 46 // एषु च निगृहीतेषु सर्वनिदानमेकादशात्मा विष्णुरपि सुनिग्रहः। यत्स्मरन्ति 'विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः / श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनुः // 47 // इति / कंसः–ममाप्येष परामर्शः। (नेपथ्याभिमुखमवलोक्य / ) कः कोऽत्र भोः। 1 'कृष्णसर्पवत्' इति पञ्चतन्त्रादिधृतः पाठः. 2 'संनिहितभृत्याहितेनैव' इति ख-पाठः.