________________ 2 अङ्कः कंसवधम् / (प्रविश्य / ) वेत्रहस्तः पुरुषः-जयदु जयदु भट्टा। एसोझि।आणवेदु भट्टा / (क) कंसः वेत्रधर, समादिश निदेशवर्तिनः हन्यन्तां द्विजदेवसेवनपराः सर्वेऽपि वर्णाश्रमा __ध्वंस्यन्तां दमदानसत्यनियमस्वाध्याययज्ञादयः / पीड्यन्तां च तपोवनानि परितस्तीर्थानि पुण्याश्रमा __ बध्यन्तामचिरात्सुरा हरिहरब्रह्मादयः सानुगाः // 48 // वेत्रहस्तः-जं भट्टा आणवेदि / (ख) (इति निष्क्रान्तः / ) कंस:-महामात्य, त्वमपि स्वं नियोगमशून्यं कुरु / वयमप्यनन्तरकरणीयाय प्रेयतामहे / (इति निष्क्रान्ताः सर्वे / ) इति कंसवधे प्रथमोऽङ्कः। द्वितीयोऽङ्कः / (ततः प्रविशति तालजङ्घः / ) तालजङ्घः-आदिष्टोऽस्मि तत्रभवता महामात्येन यत्किल 'अस्मद्वनिसर्गवैरिणः पुराणपुरुषस्य नराकारधारिणः क्वापि प्रच्छन्नः प्रभवः श्रूयते / तत्प्रवृत्तिमुपाहर' इति / तत्किमत्र प्रतिपद्ये / यतः / अन्विष्टा गिरिकंदरोदरसरित्कान्तारपुण्याश्रमाः स्वःपातालमहीतलेषु परितश्चारैश्चरद्भिश्चिरम् / नाभूत्कर्णपथातिथिर्दितिकुलारातिप्रथा सर्वथा तत्कि वाद्य निवेदयाम्यविदितादिष्टार्थसारः प्रभुम् // 1 // (चिरं विचिन्त्य / दीर्घ निःश्वस्य / ) हन्त भोः, अघटनघटनपटीयानेकः किल केवलं कालः / संभाव्यतेऽद्य डिम्भाज्जम्भारिजितोऽपि यत्प्रभो तिः // 2 // (क) जयतु जयतु भर्ता / एषोऽस्मि / आज्ञापयतु भर्ता / (ख) यद्भर्ताज्ञापयति। 1. 'उपजीविनः' इति ख-पाठः. 2. 'सज्जीभवामः' इति ख-पाठः. 3. 'क्कचित्' इति ख-पाठः.