________________ काव्यमाला। (स्मृतिमभिनीय सहर्षम् / ) अये, अस्ति किलैषा किंवदन्ती। यत् . 'यशोदया लाल्यमानो नन्दगोपस्य गोकुले / बिडम्बयन्बाललीलां वासुदेवोऽभिवर्धते' // 3 // इति / तं चातिमानुषगुणाकतिपौरुषाद्यै राद्यं पुमांसमनुमाय निहन्तुमेनम् / प्राक्प्रेषिताः शकटधेनुकपूतनाद्या . नाद्यापि हन्त विनिवर्तितुमुत्सहन्ते // 4 // भवतु / तावद्गोकुलपरिसरमेवानुसरामि / (इति परिक्रम्य पुरोऽवलोक्य / ) अये, कथमयं गोकुलनिवासी गोपानां सौवस्तिको ब्राह्मण इत एवाभिवर्तते / तदस्मादेव निःशेषां प्रवृत्तिमुपालप्स्ये / (उपसृत्य / ) गर्ग, प्रणम्यसे / गर्गः-कुशली भव / तालजङ्घः-कियडूरं प्रस्थितोऽसि / गर्गः-नन्दादेशाद्गोकुलोत्पातानुपशमयितुं ध्रुवतीर्थ गच्छामि / तालजङ्घः-अथ किं गोकुले / गर्गः-महत्येव दुरवस्था हा कष्टं कष्टं समाधीयते / तथा हि / वेतालग्रहपूतनाप्रभृतयो बालग्रहाः शान्तिकै नीता बल्युपहारमन्त्रमणिभिः शान्ति कथंचिन्मया / उत्पाताः शकटासुरप्रभृतिभिर्दैत्यैः कृतास्ते पुन र्बालेनाद्भुतकर्मणा स्वयमहो कृष्णेन नीताः क्षयम् // 5 // तालजङ्घः-(स्वगतम् / ) तदेतत्प्रस्तूयते यदर्थोऽयमस्माकमायासः / (प्रकाशम् / ) स्पष्टं तावत्प्रपञ्च्यतां कः केन हत इति / गर्गःपूर्व कौचिदुपस्थितौ तरुवरव्याजेन नन्दाङ्गणे बुड्वाकस्मिकमेष रिङ्गणपरो बालो विशालोजितः / 1. स्वस्तिकृत्. पुरोहित इति यावत्. 2. 'कष्टं कष्टं समास्थीयते” इति ख-पाठः. 3. 'विशालोजितौ' इति ख-पाठः: