________________ 2 अङ्कः] . कंसवधम् / मात्रा मध्यनिबद्धदामकलितान्तोलूखलाकर्षणा दारुग्णौ यमलार्जुनौ समहरदीर्वार्तघोरस्वरौ // 6 // तालजङ्घः-(स्वगतम् / ) तावेतौ नारदशापवशादवाप्ततरुभावौ नलकूबरमणिग्रीवौ भगवत्संनिधानैकोपनेयशापान्तौ कुबेरतनयौ / (पुनः सातङ्कम् / ) तन्नमयमेव भगवतोऽवतारो बाललीलामनुभवन्भविष्यति / भवतु / ज्ञास्यामि तावत् / (प्रकाशम् / ) अथापरमावेदय / गर्गः कंसादेशवशात्प्रविश्य शिबिरं नन्दाङ्गणेऽवस्थितं ___पापिष्ठं शकटं विभाव्य कपटं बालोऽथ कालोपमः / तत्सौवस्तिकविप्रवाचनविधिव्यग्रीभवञ्चिन्तया __ मात्रा किंचन वञ्चितः क्षितितले क्षुत्क्षामदेहो लुठन् // 7 // तालजङ्घः-(सावष्टम्भम् / ) ततस्ततः / गर्गः क्षीरस्यातिभरोत्क्षिप्तचरणाङ्गुष्ठनोदितम् / पर्यास्थच्छकटं कूटं जर्जराङ्गास्थिपञ्जरम् // 8 // तालजङ्घः-अहह, असमञ्जसमसमञ्जसम् / अथान्येषां को वृत्तान्तः। / 'गर्गःवात्यावर्तविवर्तनव्यतिकरादादाय बालं बला दन्धीकृत्य जनं जवादुदपतहूरं तृणावर्तकः / तालजङ्घः- (साश्वासम् / ) ततस्ततः / गर्गः- . . तं च माधरभारभूरिगरिमा व्यालम्ब्य कण्ठे हठा दायच्छन्समपोथयत्प्थुशिलापट्टे निपात्यार्भकः // 9 // तालजङ्घः-अहो दुरवस्थेदानी जयास्था / यस्मिन्धावत्यमरनगरीलुण्ठनोत्सर्पिदर्प स्फूर्जजवाजवपरिणमञ्चण्डवात्याविवर्तेः / 1. 'आभुग्नौ' इति ख-पाठः. 2. 'साश्वासम्' इति ख-पुस्तके नास्ति. 3. 'जयावस्था' इति क-पाठः.