________________ 18 काव्यमाला। उच्चैर्धाम्यन्नभसि निदधे शृङ्गमुत्पाद्य मेरोः क्रन्दत्संक्रन्दनमधुकरं लूननालं यथाब्जम् // 10 // तस्यापि ते मनुष्यगर्भादपीदृशी दशा / गर्गः. रिष्टोऽपि दुष्टदिष्टाकृष्टः कण्ठावगुण्ठने तिष्ठन् / दष्टोऽच्युतेन दशनैदृष्टो नष्टः क्षणार्धन // 11 // तालजङ्घः-हा धिक्, कष्टं भोः / अथ पूतनायाः का वार्ता / गर्गः-यापरेषाम् / तथाहि / / कृत्वा रूपं त्रिभुवनमनोमोहनं पाययन्ती स्तन्यं हालाहलमयमथानेन निष्पीतसारा / हा धिक्कष्टं किमपि सहसा राक्षसी पर्यणंसीत् तालजङ्घः-(सोत्साहम् / ) ततस्ततः / गर्गः क्रूराक्रन्दैधिरितजगत्तत्क्षणाच्च व्यरंसीत् // 12 // तालजङ्घा हा वत्से, अनूष्मणि शलभायितासि / घुणेन प्रोत्कीर्णा तदहह शिला वज्रघटिता न शम्पासंपाताकिमपि शतधाशीर्यत तृणैः / विलिल्ये प्रालेयक्षितिरपि न खद्योतमहसा यदाधत्से वत्से किमपि नरडिम्भादभिभवम् // 13 // (दीर्घमुष्णं च निःश्वस्य / ) खाराज्यैकफले रिपुक्षयमखे देवैद्विजाघारके - कंसस्यानुशयानलेऽसुरयशःक्षीराहुतीर्जुह्वता / त्वं धाय्या विहितासि हन्त विधिना वत्से न जाने पुनः का पूर्णाहुतिरुत्तमा तदमुना क्रूरेण कारिष्यते // 14 // 1. 'दुष्टो' इति ख-पाठः. 2. 'अथ' इति ख-पाठः. 3. आघारो घृताहुतिविशेष:. 'देवद्विषद्याजके' इति क-पाठः. 4. अग्निसमिन्धनमन्त्रः.