________________ 2 अङ्कः] . कंसवधम् / 19 गर्गः तदपि नातिचिरादेव स्फुटीभावमुपैष्यति / अतिचपलः किल कालकौलेयको नास्मदूंपेक्षाक्षणक्षेपं क्षमते / तालजङ्घः-ततस्ततः / गर्गः-ततश्च तथा तथोत्पातपरम्परापराभूयमाना व्रजवासिन उपनन्दनाम्ना गोपद्धेनोपमन्त्र्य गोकुलादुदुष्य नातिदूरे निरामयं बहलजलं मिलदुलपशबलं वृन्दावनमध्यमध्यषुः / तत्रापि वसता तेन सबलेनापहारिणा / लीलामात्रेण निहताः प्रलम्बबकधेनुकाः // 15 // तालजङ्घः—(सवैक्लव्यम् / ) हा वत्साः, कथमकस्मादेव दशमी दशामापन्नाः स्थ / (सरोषम् / ) कंथमयमतिप्रसजति कालकालकौलेयकः / ननु रे कृतान्तहतक, विद्राणेषु दिगीश्वरेषु समिति द्रागुत्लुतिप्रद्रुत क्रुध्यत्कासरतुङ्गशृङ्गविधुतिव्याविद्धगात्रः पतन् / कारागारनिकारमाशु गमितः संतय॑मानो भटैः काकुव्याकुलगीः कृपावशहृदा न त्वं मया मोचितः // 16 // तदधुना न भविष्यसि / गर्ग:--(स्वगतम् / ) ___ अपि स्यादस्माकं किमपि कुशलं गोकुलभुवां (निःश्वस्य !). कुतो वा कल्याणं प्रकृतिकुटिले राजनि रिपौ। (सावष्टम्भम् / ) अये शान्तं पापं यदि स भगवान्किचन कृपा कटाक्षप्रक्षेपैः क्षपयति विपक्षप्रतिभयम् // 17 // तालजङ्घः-क्क पुनरिदानी निर्भराश्चर्यगर्भोऽर्भकाकारवर्णिकाप्रच्छनोऽघटनघटनापटीयान्नैटवपुः साक्षादीक्षणातिथिः स्यात् / 1. 'तदप्यचिरादेव स्फुटीभवितुमुपैष्यति' इति ख-पाठः 2. उत्प्रेक्षा' इति ख-पाठः. 3. 'गोकुलाददूरे बहल जलं' इति ख-पाठः. 5. 'नटपटु' इति क-पाठः. .