________________ काव्यमाला। हेलोत्खातदिगन्तदन्तिदशनैः संस्त्यानदानद्रव द्रोणीश्यामलकान्तिभिर्विरचितं सिंहासनं मण्डयन् / रज्यल्लोचनकोणशोणकिरणं चन्द्रातपत्रं दध त्स्वर्बन्दीकरचामरैः परिचितो देवोऽयमास्ते पुरः // 34 // महामायः-(पुरोऽवलोक्य / राजानं निर्वर्ण्य / ) कथमयं रसान्तरावेशविलक्ष इवालक्ष्यते / तथा हि / . निःश्वासैः परुषैर्विशुष्यदसकद्व्यादश्यमानाधरं विद्यद्भालकपोलरागमधिकं नेत्रेऽरुणिम्नार्जयन् / वकं किंचिदेवाञ्चयन्नुपरतव्यापारमन्तश्चिरं चिन्ताकुञ्चितलोचनाञ्चलमहो देवः परिध्यायति // 35 // तदत्र महता केनचिद्भयरोषद्वैराज्यावेशबीजेन भवितव्यम् / भवतु परिज्ञास्यामि तावत् / (उपसृत्य / ) जयतु जयतु महाराजः / कंस:--महामात्य, इत आस्यताम् / , . महामात्यः-(उपविश्य / ) देव, दिष्टया वर्धसे / खैरास्वादितशत्रुशोणितमधुव्याघूर्णमानाङ्गया ___ बन्दीभूतसुरेन्द्रवृन्दवनिताबाप्पाम्बुभिः स्नातया / स्फूर्जत्तावककान्तकीर्तिवसनप्रान्तेन संवीतया निर्व्याज परिरभ्यते तव भुजस्त्रैलोक्यराज्यश्रिया // 36 // तत्किमपि चिन्तानिमित्तं ज्ञातुमिच्छामि / कंस:-किमिह चिन्तास्थानम् / यतः / निष्कण्टकं विरतवैरमपास्तशङ्क दासीकतामरगणं हृतदिक्करीन्द्रम् / त्रैलोक्यमेव विहितं दनुजैश्चिरं त चिन्तानिमित्तमिह नस्तु किमस्तु वस्तु // 37 // 1. 'नेत्रारुणिना' इति क-पाठः. 2. 'इवाश्चयन्' इति ख-पाठ.. 3. 'द्वैराज्यदोष-' इति ख-पाठः.