________________ काव्यमाला। आभङ्गुरभ्रुकुटिभीषणभालपट्टः कंसः करालकरवालनिविष्टमुष्टिः // 29 // न तदस्य पुरतः स्थातुमस्माकमुचितम् / यतः / पितरं भगिनीं भामं भागिनेयाञ्जिघांसता / तृणीकृता घृणा येन स किमस्मानुपेक्षते // 30 // तदेहि / अन्यतो गच्छावः / (इति निष्क्रान्तौ / ) प्रस्तावना। (ततः प्रविशति यथानिर्दिष्टः कंसः / ) कंसः-(साटोपं परिक्रम्य / सक्रोधम् / ) किमात्थ रे, किमात्थ 'कंसं मदविच्युतं कुरुते' इति / ननु रे, नाद्यापि विदितस्ते त्रिभुवनैकवीरो नि. मिताशेषदुर्मदध्वान्तध्वंसः कंसः। यद्दोर्दीप्यत्प्रतापानलबहलवलज्ज्वालजालावलीढः शिश्ये शौरिः पयोधौ तुहिनगिरिदरीष्वन्धकारिर्निलिल्ये। . ब्रह्मा पद्मासनः सन्गमयति समयं तापसच्छद्मना त द्रक्षोयक्षोरगाणामिह बत कतमो वीक्षितं मे क्षमेत // 31 // (हस्तौ निष्पीड्य / ननु रे, कारागारनियन्त्रितासुरसुरस्त्रीनेत्रकादम्बिनी निर्यद्वारिसरिज्झरव्यतिकरैर्निर्वाप्यमाणोऽपि यः / उच्चैरौर्व इव प्रजिज्वलयिषुर्ब्रह्माण्डमुज्जृम्भते कस्तं वा मम दोर्मदं दमयितुं जागर्ति लोकत्रये // 32 // (नेपथ्ये / ) आः, कथमित्थं विकत्थसे / ननु रे, यस्ते मदं दमयिता दनुजेन्द्रकालो बालः स कोऽपि भगवान्क्वचिदप्रमेयः। . 1. 'हस्ते' इति ख-पाठः. 2. भामं भगिनीपतिम्. 3. अन्धकारिः शिवः.