________________ कंसवधम् / नटी-तह / (इति गायति / ) पणमह जलहरसमअं विजुज्जलसोम्मसामसुहअसिरिम् / जं दद्दूण दिसाणं कदम्बमउलेहिँ होन्ति पुलआई // 27 // (क) सूत्रधारः—(सहर्षम् / ) आयें, सम्यगुपलक्षितं भवत्या / संकलमङ्गलालयः किलायं समयः / तथा हि / वसुदेवदुःखहारी नारीनयनोत्सवो जलदकालः / शौरिरिव सीरिमित्रं कसंमदविच्युतं कुरुते // 28 // (नेपथ्ये।) आः पाप, कोऽयमलोकवैतालिकः सकलसुरासुरचक्रचूडामणिमयूखमांसलप्रतापाग्निनिर्दग्धवैरिजातस्य त्रिभुवनजयलक्ष्मीविभ्रमावासमण्डपस्तम्भायमानप्रचण्डभुजदण्डस्य सकलवीरवंशावतंसस्य कंसस्यापि मदप्रच्यवमभिलषन्वाचाटतां प्रकटयति / नटी—(सोत्कम्पम् / ) अज्ज, को एसो जस्स आआलिअप्पलअवादविहडन्तबम्हण्डखण्डपप्फुरन्तघोरणिग्योसबोलन्तदहदिहामुहो एककालगजन्तदिग्गअविमुक्कचिक्कारकक्कसो कण्ठधुणी सुणीअदि / (ख) सूत्रधारः-अये, ममाप्ययमपरिचितः / (निपुणं निरूप्य / ) नूनमसौ अस्मद्वचःप्रतिफलन्निजनामधेय वर्णावलीश्रवणरोपकषायिताक्षः / (क) तथा / प्रणमत जलधरसमयं विद्युदुज्ज्वलसौम्यश्यामसुभगश्रियम् / यं दृष्ट्वा दिशां कदम्बमुकुलैर्भवन्ति पुलकानि // (ख) आर्य, क एष यस्याकालिकालयवातविघटमानब्रह्माण्डखण्डप्रस्फुरदोरनिर्घोषशब्दायमानदशदिङ्मुख एककालगर्जद्दिग्गजविमुक्तचीत्कारककेशः कण्ठध्वनिः श्रूयते / १.'जस्सि दहदिसाणं' इति क-पाठः. 'यस्मिन्दशदिशां' इति तच्छाया. २.'सर्व' इति ख-पाठः. 3. वसुदेवः श्रीकृष्णजनकः. जलदकालपक्षे त्वस्फुटोऽर्थः. 4. सीरी बलदेवः; (पक्षे) सीरिणो हालिकाः, कर्षका इति यावत्. 5. कंसः कृष्णमातुल:. तं मदविच्युतं निर्मदं कुरुते; (पक्षे) कं जनं संमदेन हर्षेण विच्युतं रहितं कुरुते. अपि तु न कमपि.