________________ काव्यमाला। गुम्फैः संफुल्लमल्लीसरससुमनसां माधुरीमुद्गिरन्तः सन्तः संतोषमन्तः कमपि सहृदयास्वाद्यमेते वहन्ति // 16 // अपि च / ___ सारस्वते स्रोतसि दूरमग्नैः सुधीवरैरु हृतसूक्तिरत्ने / न तत्किमप्युरितं यदेषामुपायनीकृत्य पुरो भवेयम् // 17 // अन्यच्च / निर्मज्याशु सुधीवरैः प्रतिपदं सारस्वतोदन्वतः .. प्रोद्धत्यापहृतैर्दिगन्तसुलभैः सत्सूक्तिमुक्ताफलैः / सहर्णैः परिपूर्णकर्णहृदया भूमीभुजोऽमी ततः किं मे ताननुरञ्जयिष्यति वचोवाचालकाचावली // 18 // (स्मृतिमभिनीय / सहर्षम् / ) आयें, दिष्टया समासादितः खलु दुरन्तचिन्ताकान्तारसंतारहेतुः / तथा हि। पृथ्वीमण्डलमौलिमण्डनमणिः श्रीमन्नृसिंहात्मजः कृत्वा कृष्णकविः कुतूहलवशादस्मासु यन्यक्षिपत् / नाट्यं कंसवधाभिधानमधुना तस्य प्रयोगोद्यमं विद्वद्राजसमाजमानसमहानन्दाय विन्दामहे // 19 // नटी-(अपवार्य / ) कहं सो वि कवीणं मज्झे संभाविजई / (क) सूत्रधारः-अयि मुग्धे, किमेवमाशङ्कसे / यतः / चतुर्दशसु विद्यासु परिकर्मितचेतसः / कवितेति किंयन्नाम तस्याश्चर्य विपश्चितः // 20 // नटी-णं भणामि पसाअकविणो विअ तस्स वि पण्डिअकइणो वाणी विअद्धजणस्स पज्जुत्ता भोदि त्ति / (ख) (क) कथं सोऽपि कवीनां मध्ये संभाव्यते / (ख) ननु भणामि प्रसादकवेरिव तस्यापि पण्डितकवेर्वाणी विदग्धजनस्य पर्युक्ता भवति / 1. 'मुक्ताभरैः' इति क-पाठः