________________ 1 अङ्कः] कंसवधम् / my (आकाशे कर्ण दत्त्वा / किं ब्रूथ-'दूराध्वसंचारपरिश्रान्तस्वान्तानस्मान्केनचिदभिनवग्रथितवस्तुना प्रयोगेण भगवत्कृपानुवन्धिना विनोदय' इति / तद्यावगृहं गत्वा गृहिणीमाहूय तथा करोमि / (नेपथ्याभिमुखमवलोक्य / ) अये, कथं रात्रिजागरणायासकषायितविलोचना / __अद्याप्येषा विशालाक्षी निद्रातन्द्रां न मुञ्चति // 7 // तथा हि। स्खलति शिथिलग्रन्थिाबादसौ सिचयाञ्चलः स्थगयति कुचौ वामः पाणिः परं धृतवासनः / गलति कबरी वर्क लीलालकैः परिभूयते तदपि नयनानन्दायैषा दशा हरिणीदृशः // 8 // (विमृश्य / ) सुखप्रसुप्तामप्येतां कालातिपातकातरः प्रबोधयामि तावत् / (प्रविश्य / ) आर्य, कथमद्यापि निद्रासि / ननूदितभूयिष्ठ एव भगवान्किरणमाली / तथा हि / मीलत्कैरवलोचनां प्रविगलत्ताराच्छंहारावली म्लायच्चन्द्रमुखी विशृङ्खलतमःकेशां सशेषाम्बराम् / प्रातः सत्वरमित्वरीमिव बलाहुद्गाढरागैः करै राकर्षन्निव यामिनीमनुपतत्यम्भोजिनीवल्लभः // 9 // अपि चौतिपतति पुरंध्रीगृहाचारसमयः / नन्वेतामेव तावत्प्रभातवेलां पतिव्रताधर्ममनुवर्तमानां दिनकरकुलवधूं पश्यतु भवती / तथा हि / उद्बुध्य प्रथमं प्रसाध्य वदनं संमृज्य तारोत्करं निर्माल्यावकरं ततोऽवतमसैरालिप्य सद्गोमयैः / सौरैः स्वस्तिकमण्डलानि किरणैरारभ्य निर्मात्यह लक्ष्मीः स्त्रीसमयागतं सरसिजैः पुष्पोपहारं भुवः // 10 // 1. तथा हि' इति ख-पुस्तके नास्ति. 2. कुलटामिव. 3. 'निपतति' इति क पाठः.