________________ काव्यमाला। इत्युक्त्वा पादपद्मे सपदि निपततो मूर्ध्नि गङ्गाधरस्य प्रेकन्तश्चण्डिकायाः शतगुणितरुषः पान्तु वोऽपाङ्गभङ्गाः // 3 // (नान्द्यन्ते) सूत्रधारः-अलमतिविस्तरेण / अद्य खलु निखिलवृन्दारकवृन्दवन्धमानपादारविन्दस्य तुहिनगिरिनन्दिनीनयनानन्दनिःस्यन्दकन्दस्य सकलसुरासुरोरगनरकिंनरनिकरगीयमानत्रिपुरदहनावदानस्य त्रिभुवनभवनारम्भस्तम्भस्य चतुर्वर्गलक्ष्मीप्रतीक्ष्यमाणकृपाकटाक्षाञ्चलस्य भगवतः श्री. विश्वेश्वरस्य प्रासादपॅरिसरसीनि महानेव कलकलः समुल्लसति / तदत्र या. त्राप्रसङ्गसंगतैर्नानादिगन्तवास्तव्यविविधानवद्य«द्यविद्याविनोदमोदमानमानसैः सकलकलाकलापकौशलनिकविदग्धमित्रैरुपस्थानीयैर्भवितव्यम् / तद्यावदेतान्निजविज्ञानोपहारेणोपतिष्ठे / यतः / बुद्धिं वर्धयति श्रियं वितनुते वैदग्ध्यमामुञ्चति श्रेयः पल्लवयत्यघानि दलयत्युन्मीलयत्युन्नतिम् / / विज्ञानं परिशोधयत्युपचिनोत्युच्चैः कलाकौशलं किं किं नारभते हरेरिव कथाजय सतां संगतम् // 4 // (परिक्रम्य पादान्तरे स्थित्वा / सविमर्षम् / ) कथमनाहूत एव रङ्गं प्रविशन्नवज्ञापराहतो नोपहसनीयः स्याम् / यतः। .. नागच्छन्नुपहूयते न वचनोत्थानासनैः पूज्यते ___ नो प्रच्छन्ननुभाष्यते न च दृशा सान्द्रादरं वीक्ष्यते / ईर्ष्यारोषकषायिते हृदि घृणालेशोऽपि न स्टश्यते किं त्वेकः प्रवदन्समञ्जसमपि प्राज्ञः शठर्हस्यते // 5 // (निमित्तं सूचयित्वा / सहर्षम् / ) स्पन्दते दक्षिणं चक्षुर्वक्षो विस्फार्यते यथा / सामाजिकास्तथा मन्ये नृत्याय त्वरयन्ति माम् // 6 // 1. 'भृङ्गाः' इति क-पुस्तकपाठः. 2. 'निखिल' इति क-पुस्तके नास्ति. 3. 'परिसर' इति क-पुस्तके नास्ति. 4. 'हृद्य' इति क-पुस्तके नास्ति. 5. निकष: सुवर्णपरीक्षणपाषाणः. 6. न जीर्यतीत्यजर्यमिति संगतस्य विशेषणम्. 7. मैत्री.