SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। महाकविश्रीशेषकृष्णप्रणीतं कंसवधम् / प्रथमोऽङ्कः। प्रारम्भः शुभकर्मणस्त्रिभुवनक्लेशाभिचारागमः __ कान्ताकर्षणकर्मकार्मणविधिः कामाद्वितीयश्रुतिः / हुंकारो मदनस्य निवृतिवधूमञ्जीरशिञ्जाध्वनिः श्रेयः संपदमातनोतु भवतः कंसारिवंशीरवः // 1 // अपि च / वृन्दारण्ये चरन्ती विथुरपि सततं भूर्भुवःस्वः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि निगमैलक्षिता वीक्षितापि / विद्युल्लेखावनदोन्नमदमलमहाम्भोदसच्छायकाया माया पायादपायादविदितमहिमा कापि पैताम्बरी वः // 2 // अन्यच्च / मुञ्चामुं चण्डिमानं मयि भुजगफणारत्नसंक्रान्तकाय च्छायां प्रेक्ष्य स्वकीयामपि मनसि वृथा मा कृथा दुर्वितर्कम् / 1. अयं महाराष्ट्राभिजनः शेषोपनामको नृसिंहसूनुः श्रीकृष्णकविः काश्यामकबरबादशाहराज्यसमये ख्रिस्ताब्दीयषोडशशतकस्योत्तरभाग आसीत्. एतनाटकं चानेनोकबरमन्त्रिणो राजाटोडरमल्लनाम्नः पुत्रस्य गोवर्धनधारीत्यपरनाम्नो गिरिधारिणः प्रेरणया प्रणोतम्. अनेनैव कविना काशीपरिसरवर्तिताण्डवपुरनृपतेरनुजन्मनो नरोत्तमस्याभ्यर्थनया पारिजातहरणचम्पूरपि निरमायि. नाटकस्यास्य मुद्रणमस्माभिः पुस्तकद्वयाधारेणारब्धमस्ति. तत्र प्रथमं पुस्तकं प्रायःशुद्धमन्तिमपत्ररहितं शतवर्षप्राचीनमिवोपलक्ष्यमाणं जयपुरराजवैद्यश्रीकृष्णरामकवेः सकाशादधिगतं क-चिह्नितम्. द्वितीयं चास्मदीयमेव नवीनं नातिशुद्धं च ख-चिह्नितमित्यवधेयम्.
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy