________________ दूताङ्गदम् / चित्राङ्गदः-सखे, अनया गगनवीथ्या बहोः कालात्संचरावहे निर्भयमेवम् / (नेपथ्ये कलकलः / ) यद्वक्राणां दशानामिव दश ककुभः शासितुं सृष्टिरासी द्विशत्यायश्च दोभिर्दशगुणितमिव प्राप्तवान्वीर्यवर्म / लङ्केन्द्रः संजितेन्द्रः समरभुवि जवाज्जानकीवल्लभेन ज्योतिदीप्रैः क्षुरप्रैः स खलु विरचितो निर्विबन्धः कबन्धः // 46 // चारणः-शृणु हेमाङ्गद, चित्राङ्गद, चित्रमिवावलोकय / हेलाखण्डितचण्डहेमहरिणैर्बाणैः कुलं रक्षसां शेषीभूतविभीषणं गुणनिधौ कृत्वापि रामे स्थिते / प्रत्युज्जीवितशङ्कया यमजितो लङ्कापतेः कातरै ! मुक्ताः कुसुमस्रजो न च सुरैरास्फालितो दुन्दुभिः॥४७॥ चित्राङ्गदः-(सचमत्कारं हेमाङ्गदं प्रति / ) सखे हेमाङ्गद, ईडगेवाछुतरसैकभाजनं भवानीपतिभक्तिभासुरः प्रबलप्रतापभरप्रणमितसकलसुरासुरो वीरवीरोत्तंसः खल्वयं नक्तंचरचक्रवर्ती / यः किल पुरा पुरारिपरिचर्यावसरे बिभ्राणं दशवक्रतां क्रममिलत्पञ्चाननीपूजया ___ यः सर्व स्खमिव स्वमीश्वरमिति ज्ञात्वा मुखैः पञ्चभिः / शंभोरेव शिरःसु तं निजकरं व्यापारयन्वारितः पार्वत्याः कथमप्यहो न स दशग्रीवो गिरां गोचरः / / 48 // (कर्मप्राबल्यमीक्षमाणः / सखेदम् / ) सखे हेमाङ्गद, पश्य पश्य / इह खलु विषमः पुरातनानां भवति हि जन्तुषु कर्मणां विपाकः / हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः॥४९॥ हेमाङ्गदः-सखे, नातिचित्रमेतत् / 'यतो धर्मस्ततो जयः' इत्ययं सत्य एव शास्त्रप्रवादः / अतोऽस्मिन्नर्थे शरीरादिभिः पुण्यापुण्यकारिणामायतिदर्शिता / अत्र रावण एवोदाहरणमापद्यते / तथाहि /