________________ काव्यमाला। प्राचीनं हि विरञ्चिपञ्चमशिरश्छेदापवादं स्मर न्देवोऽदत्त वरं तवापि कृपया कायव्रतं कुर्वतः // 41 // शृणु रे दशवदन, वदनविवरविनिर्गतवाग्विभीषिकया न विभीमो वयम् / (इत्यभिधाय निष्क्रान्तोऽङ्गदः / ) (नेपथ्ये / ) त्वयि त्रिभुवनाधीशे हन्ति वानरवाहिनी / सज्जो भव महावीर वीरत्वं व गतं तव // 42 // रावणः-(सौत्सुक्यम् / ) अये, अस्मदनुजीविनो वध्यमाना भृशं बु. म्बायन्ते / (ततः प्रविशन्ति विक्षताङ्गा निशाचरभटाः / ) निशाचराः वानरैर्यदि वध्याः स्मस्त्वयि नाथेऽप्यसांप्रतम् / / त्वमपि प्राणिते बुद्धि शाश्वती मा कृथा वृथा // 43 // रावणः-(सकोपं प्रहस्तं त्वरितमाहूय / ) संनह्यतां सपदि राक्षसवीरसेना के नाम रामहतकस्य वनौकसोऽमी। जागर्ति यन्मम भुजे ननु चन्द्रहासः श्यामीकृतामरवधूमुखचन्द्रहासः // 44 // (पुनर्विकटं परिक्रामन् / ) अरावणमरामं वा जगदद्य भविष्यति / (इति वदनिष्क्रान्तः / ) (ततः प्रविशतो हेमाङ्गदचित्राङ्गदौ गगनवीथीसंचारिणौ गन्धर्वो / ) हेमाङ्गदः-सखे चित्राङ्गद, दिव्यास्त्रैर्भूर्भुवःस्वस्त्रितयडमरकोड्डामरैर्योधयित्वा / लूनोत्क्षिप्तैः शिरोभिर्दशभिरधिनभो दर्शितैकादशार्कः / काकुत्स्थेनावकीर्णो निजविशिखशिखायोगपीठोपहूतो . ब्रह्मास्त्रेणाधिशेते रजनिचरपतेर्वीरशय्यां कबन्धः // 45 //